Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

Previous | Next

Page 332
________________ 69-72 ] मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं भूतम्, कथम् ! इति चेद् अत आह-'अरुज' लेशतोऽपि तत्र व्याघेरभावात् , उपलक्षणमेतत्, तत आधेरप्यभावस्तत्र द्रष्टव्यः, सांसारिकं च सुखमाधि-व्याधिसङ्कलम् / तथा 'निरुपमं' उपमातीतम्, नहि तत्सदृशं किश्चिदपीह संसारेऽस्ति सुखं येन तदुपमीयते तस्माद् निरुपमम् / तथा “सहाव" ति स्वभावभूतम् , न संसारसुखमिव कृत्रिमम् , अतस्तत् सकलदेवा-सुर-मनुजसम्मविसुखसमूहशेखरकल्पम् / इत्थम्भूतं 'सिद्धिसुखं' मोक्षसुखं 'अनिधनम्' अपर्यवसानम्, कथमपर्यवसानता ?. इति चेद् अत आह–'अव्याबाधं' व्याबाधारहितम् बाधयितुमशक्यमिति भावः / तथाहि—रागादयस्तत् सुखं बाधयितुमीशाः, ते च सर्वात्मना क्षीणाः; न च क्षीणा अपि पुनः प्रादुर्भावमश्नुवते, तत्कारणकर्मपुद्गलानामभावात् ; न च तेऽपि पुद्गला भूयोऽपि बध्यन्ते, संक्लेशमन्तरेण तद्वन्धाभावात् ; न च सर्वात्मना रागादिक्केशविप्रमुक्तस्य भूयः संक्लेशोत्थानम्, तत्कारणकर्मपुद्गलाभावात् / अतो रागादिसंक्लेशोत्थानाभावात् सिद्धिसुखमन्याबाधम् / पुनः तत् कथम्भूतम् ? इत्याह--'त्रिरत्नसारं' त्रीणि रत्नानिसम्यग्दर्शन-ज्ञान-चारित्रलक्षणानि तेषां सारं-फलम् / तथाहि- सम्यग्दर्शन-ज्ञान-चारित्राण्येव कर्मक्षयकारणम्, कर्मक्षयाच सिद्धिसुखसम्प्राप्तिः, अतः सिद्धिसुखं त्रिरत्नसारम् / एतेन किमुक्तं भवति ? –इत्थम्भूतं सिद्धिसुखमभिलषताऽवश्यं रत्नत्रये प्रेक्षावता यत्न आस्थेयः, उपायमन्तरेणोपेयसिद्ध्यसंभवात् / उपायभूतं च सिद्धिसुखस्य रत्नत्रयम् , कर्मक्षयकारणत्वात् / तथाहि-अज्ञानादिनिमित्तं कर्म, अज्ञानादिप्रतिपन्थि च ज्ञानादि, ततोऽवश्यं ज्ञानाद्यासेवायां कर्मक्षय इति / इत्थम्भूतं सिद्धिसुखं तत्र गताः सन्तः 'अनुभवन्ति' वेदयन्ते // 70 // ___ इह बन्धोदयसत्कर्मणां संवेधश्चिन्तितः / सोऽपि सामान्येन, ततो बन्धोदयसत्कर्मसु विशेषजिज्ञासायामतिदेशमाह दुरहिगम-निउण-परमत्थ-रुहर-बहुभगंदिहिवायाओ। अत्था अणुसरियव्वा, बंधोदयसंतकम्माणं // 71 // दुःखेन महता कष्टेन प्रमाण-नय-निक्षेपादिभिरधिगम्यत इति दुरधिगमः, निपुणः-सूक्ष्मबुद्धिगम्यः, परमार्थः यथावस्थितार्थः, रुचिरैः-सूक्ष्मसूक्ष्मतरार्थभेत्तृपटुप्रज्ञानां मनःप्रह्लादकरः, बहुभगः-बहुविकल्पो यो दृष्टिवादस्तस्माद् बन्धोदयसत्कर्मणां विषये 'अर्थाः' विशेषरूपाः 'अनुसर्तव्याः' ज्ञातव्याः / इह तु संक्षिप्तरुचिसत्त्वानुग्रहप्रवृत्ततया ग्रन्थगौरवभयाद् नोच्यन्ते // 71 // सम्प्रत्याचार्योऽनुद्धतत्वेनात्मनोऽल्पागमत्वं ख्यापयन् शेषबहुश्रुतानां च बहुमानं प्रकटयन् प्रकरणपरिपूर्णताविधिविषये तेषां प्रार्थनां विदधान आह जो जत्थ अपडिपुन्नो, अत्थो अप्पागमेण बद्धो त्ति / तं खमिऊण बहुसुया, पूरेऊणं परिकहंतु // 72 // - - 1 सं०१त०म० °वादिति सि // 2 स०१त० छा० °रः-सूक्ष्मतरा' / / 3 सं० छा० रार्थः तत्र पढ / त०म० रार्थभेदपटु // 4 स० स०२छा० °कल्पो 6deg //

Loading...

Page Navigation
1 ... 330 331 332 333 334