Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text ________________ 49-50] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 229 णापर्याप्तः सासादनो देवगतिप्रायोग्यं बध्नाति, ततः शेषा उदया न सम्भवन्ति / तंत्र मनुष्यमधिकृत्य त्रिंशदुदये द्वे अपि सत्तास्थाने / तिर्यक्पञ्चेन्द्रियसासादनानधिकृत्याष्टाशीतिरेव, यतो द्विनवतिरुपशमश्रेणीतः प्रतिपततो लभ्यते, न च तिरश्चामुपशमश्रेणिसम्भवः / एकत्रिंशदुदयेऽप्यष्टाशीतिरेव, यत एकत्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियाणाम् / न च तिरश्चां द्विनवतिः सम्भवति, प्रागुक्तयुक्तेः / एकोनत्रिंशतं तिर्यक्पञ्चेन्द्रिय-मनुष्यप्रायोग्यां बनतः सासादनस्य सप्ताप्युदयस्थानानि / तत्र एकेन्द्रिय-विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुष्य-देव-नैरयिकाणां सासादनानां स्वीयस्वीयोदयस्थानेषु वर्तमानानामेकमेव सत्तास्थानम्-अष्टाशीतिः / नवरं मनुष्यस्य त्रिंशदुदये वर्तमानस्योपशमश्रेणीतः प्रतिपततः सासादनस्य द्विनवतिः / एवं त्रिंशद्वन्धकस्यापि वक्तव्यम् / सर्वाण्यप्युदयस्थानान्यधिकृत्य सामान्येन सर्वसङ्ख्यया सासादनस्याष्टौ सत्तास्थानानि / सम्प्रति सम्यग्मिथ्यादृष्टेर्बन्ध-उदय-सत्तास्थानान्यभिधीयन्ते- "दुग तिग दुगं"ति द्वे बन्धस्थाने, तद्यथा-अष्टाविंशतिः एकोनत्रिंशत् / तत्र तिर्यग्-मनुष्याणां सम्यग्मिथ्यादृष्टीनां देवगतिप्रायोग्यमेव बन्धमायाति, ततस्तेषामष्टाविंशतिः, तत्र भङ्गा अष्टौ / एकोनत्रिंशद् मनुष्यगतिप्रायोग्यं बध्नतां देव-नैरयिकाणाम्, अत्राप्यष्टौ भङ्गाः। ते चोभयत्रापि स्थिरा-ऽस्थिरशुभाऽशुभ-यशःकीर्ति-अयशःकीर्तिपदैरवसेयाः / शेषास्तु परावर्तमानप्रकृतयः शुभा एव सम्यग्मिथ्यादृष्टीनां बन्धमायान्ति, ततः शेषभङ्गा न प्राप्यन्ते / .' त्रीण्युदयस्थानानि, तद्यथा-एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् / तत्रैकोनविंशति देवानधिकृत्याष्टौ भनाः, नैरयिकानधिकृत्यैकः, सर्वसङ्ख्यया नव / त्रिंशति तिर्यक्पञ्चेन्द्रियानधिकृत्यै सर्वपर्याप्तिपर्याप्तयोग्यानि द्विपञ्चाशदधिकान्येकादश शतानि 1152, मनुष्यानधिकृत्य एकादश शतानि द्विपञ्चाशदधिकानि 1152, सर्वसङ्ख्यया त्रयोविंशतिशतानि चतुरधिकानि 2304 / एकत्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियानधिकृत्य, तत्र भङ्गा द्विपञ्चाशदधिकान्येकादश शतानि 1152 / सर्वोदयस्थानभङ्गसङ्ख्या चतुस्त्रिंशच्छतानि पञ्चषश्यधिकानि 3465 / / द्वे सत्तास्थाने, तद्यथा-द्विनवतिः अष्टाशीतिश्च / सम्प्रति संवेध उच्यते-सम्यग्मिथ्यादृष्टेरष्टाविंशतिबन्धकस्य द्वे उदयस्थाने, तद्यथात्रिंशद् एकत्रिंशत् / एकैकस्मिन्नुदयस्थाने द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिरष्टाशीतिश्च / एकोनत्रिंशद्वन्धकस्य एकमुदयस्थानम्-एकोनत्रिंशत् / अत्रापि ते एव द्वे सत्तास्थाने / तदेवमेकैकस्मिन्नुदयस्थाने द्वे द्वे सत्तास्थाने इति सर्वसङ्ख्यया षट् / 1 छा० मुद्रि० अत्र मनुष्यानधि // 2 सं० 1 त० 'त्य भगा द्विपश्चा / म मुद्रि. त्य अष्टाविंशत्यधिकानि सप्तदश शतानि 1728, मनुष्यानधिकृत्य एकादश शतानि द्विपञ्चाशदधिकानि 1152, सर्वसंख्यया अष्टाविंशतिशतानि अशीत्यधिकानि 2880 / एकत्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियानधिकृत्य, तत्र मला द्विपञ्चाशदधिकान्येकादश शतानि 1152 / सर्वोदयस्थानभङ्गसंख्या चत्वारिंशच्छतानि एकचत्वारिंशदधिकानि 4041 / द्वे सत्तास्थाने // 3 सं० 1 तात्य भङ्गा एका // . . .
Loading... Page Navigation 1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334