Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

Previous | Next

Page 311
________________ 246 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः तिर्यङ्-मनुष्य-नरकगतिषु च नरकायुः, न देवगतौ, देवानां नरकायुर्बन्धासम्भवात् / शेषाः प्रकृतयः सर्वास्वपि गतिषु सत्तामधिकृत्य प्राप्यन्ते // 61 // इह गुणस्थानकेषु प्राग् बन्ध-उदय-सत्तास्थानसंवेध उक्तः, गुणस्थानकानि च प्राय उपशमश्रेणिगतानि क्षपकश्रेणिगतानि च, ततोऽवश्यमिहोपशमश्रेणि-क्षपकश्रेणी वक्तव्ये, तत्र प्रथमत उपशमश्रेणिप्रतिपादनार्थमाह पढमकसायचउकं, दसणतिग सत्तगा वि उवसंता। अविरतसम्मत्ताओ, जाव नियहि त्ति नायव्वा // 62 // 'प्रथमकषायाः' अनन्तानुबन्धिनः 'दर्शनत्रिक' मिथ्यात्व-सम्यग्मिथ्यात्व-सम्यक्त्वरूपम् , एताः 'सप्तका अपि' सप्तापि प्रकृतय उपशान्ताः 'अविरतसम्यक्त्वात्' अविरतसम्यग्दृष्टिगुणस्थानकादारभ्य यावद् निवृत्तिः' अपूर्वकरणगुणस्थानं तावद् ज्ञातव्याः / अविरतसम्यग्दृष्टि-देशविरत-प्रमत्ता-अमत्तसंयता- पूर्वकरणेषु यथायोगमेताः सप्तापि प्रकृतय उपशान्ता लभ्यन्ते। अपूर्वकरणवर्जाः शेषा यथायोगमुपशमकाः, अपूर्वकरणे त्वेता नियमत. उपशान्ता एवं प्राप्यन्ते। तत्रप्रथमतोऽनन्तानुबन्धिनामुपशमनाऽभिधीयते-अविरतसम्यग्दृष्टि-देशविरत-विरतानामन्यतमोऽन्यतमस्मिन् योगे वर्तमानस्तेजः-पद्म-शुक्ललेश्याऽन्यतमलेश्यायुक्तः साकारोपयोगोपयुक्तोऽन्तःसागरोपमकोटीकोटीस्थितिसत्कर्मा करणकालात् पूर्वमपि अन्तर्मुहूर्त कालं यावदवदायमानचित्तसन्ततिरवतिष्ठते / तथाऽवतिष्ठमानश्च परावर्तमानाः प्रकृतीः शुभा एव बध्नाति, नाशुभाः। अशुभानां च प्रकृतीनामनुभागं चतुःस्थानकं सन्तं द्विस्थानकं करोति, शुभानां च द्विस्थानकं सन्तं चतुःस्थानकम् / स्थितिबन्धेऽपि च पूर्णे पूर्णे सति अन्यं स्थितिबन्धं पूर्वपूर्वस्थितिबन्धापेक्षया पल्योपमसङ्ख्येयभागहीनं करोति / इत्थं करणकालात् पूर्वमन्तर्मुहूर्त कालं यावदवस्थाय ततो यथाक्रमं त्रीणि करणानि प्रत्येकमान्तौहूर्तिकानि करोति / तद्यथा—यथाप्रवृत्तकरणम् अपूर्वकरणम् अनिवृत्तिकरणं च; चतुर्थी तूपशान्ताद्धा। तत्र यथाप्रवृत्तकरणे प्रविशन् प्रतिसमयमनन्तगुणवृद्धया विशुद्ध्या प्रविशति, पूर्वोक्तं च शुभप्रकृतिबन्धादिकं तथैव तत्र कुरुते, न च स्थितिघातं रसघातं गुणश्रेणिं गुणसङ्क्रमं वा करोति, तद्योग्यविशुद्ध्यभावात् / प्रतिसमयं च नानाजीवापेक्षयाऽसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि अध्यवसायस्थानानि भवन्ति, षट्स्थानपतितानि च / अन्यच्च प्रथमसमयापेक्षया द्वितीयसमयेऽध्यसायस्थानानि विशेषाधिकानि, ततोऽपि तृतीयसमये विशेषाधिकानि, एवं तावद् वाच्यं यावद् यथाप्रवृत्तकरणचरमसमयः / अत एवैतानि स्थाप्यमानानि विषमचतुरसं क्षेत्रमास्तृणन्ति / 1 सं० 1 त० म० °व लभ्यन्ते //

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334