Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

Previous | Next

Page 317
________________ 252 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [ गाथाः संज्वलनमानस्य विशेषाधिकः, ततोऽपि संज्वलनमायाया विशेषाधिकः, ततोऽपि संज्वलन- . लोभस्य विशेषाधिकः / उक्तं च थीअपुमोदयकाला, संखेज्जगुणो उ पुरिसवेयस्स / तेत्तो वि विसेसअहिओ, कोहे तत्तो वि जहकमसो // (पञ्चसं० 793) तत्र संज्वलनक्रोधेन उपशमश्रेणिं प्रतिपन्नस्य यावद् अप्रत्याख्यान-प्रत्याख्यानावरणक्रोधोपशमो न भवति तावत् संज्वलनक्रोधस्योदयः / संज्वलनमानेन उपशमश्रेणिं प्रतिपन्नस्य यावद् अप्रत्याख्यान-प्रत्याख्यानावरणमानोपशमो न भवति तावत् संज्वलनमानस्योदयः / संज्वलनमायया चोपशमश्रेणिं प्रतिपन्नस्य यावद् अप्रत्याख्यान-प्रत्याख्यानावरणमायोपशमो न भवति तावत् संज्वलनमायाया उदयः / संज्वलनलोभेन उपशमश्रेणि प्रतिपन्नस्य यावद् अप्रत्याख्यान-प्रत्याख्यानावरणलोभोपशमो न भवति तावत् संज्वलनलोभस्योदयः / तदेवमन्तरकरणमुपरितनभागापेक्षया सममधोभागापेक्षया चोक्तनीत्या विषममिति यावता च कालेन स्थितिखण्डं घातयति यद्वाऽन्यं स्थितिबन्धं करोति तावता कालेन अन्तरकरणमपि करोति / त्रीण्यपि युगपदारभते युगपदेव च निष्ठां नयति / तच्चान्तरं प्रथमस्थितेः सोयगुणम् / अन्तरकरणसत्कदलिकप्रक्षेपविधिश्वायम्येषां कर्मणां तदानीं बन्ध उदयश्च विद्यते तेषामन्तरकरणसत्कं दलिकं प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति, यथा पुरुषवेदोदयारूढः पुरुषवेदस्य / येषां तु कर्मणामुदय एव केवलो न बन्धस्तेषामन्तरकरणसत्कं दलिकं प्रथमस्थितावेव प्रक्षिपति न द्वितीयस्थितौ, यथा स्त्रीवेदोदयारूढः स्त्रीवेदस्य / येषां पुनरुदयो न विद्यते किन्तु केवलो बन्धस्तेषामन्तरकरणसत्कं दलिक द्वितीयस्थितावेव क्षिपति न प्रथमस्थितौ, यथा संज्वलनक्रोधोदयारूढः शेषसंज्वलनानाम् / येषां पुनर्न बन्धो नाप्युदयस्तेषामन्तरकरणसत्कं दलिकं परप्रकृतिषु प्रक्षिपति यथा द्वितीयतृतीयकषायाणाम् / इहानिवृत्तिकरणे बहु वक्तव्यं तत् तु ग्रन्थगौरवभयाद् नोच्यते, केवलं विशेषार्थिना कर्मप्रकृतिटीका निरीक्षितव्या / अन्तरकरणं च कृत्वा ततो नपुंसकवेदमुपशमयति / तं चैवम्प्रथमसमये स्तोकम् , द्वितीयसमयेऽसङ्ख्येयगुणम्, ततोऽपि तृतीयसमयेऽसोयगुणम् , एवं प्रतिसमयमसङ्ख्येयगुणं तावद् उपशमयति यावत् चरमसमयः; परप्रकृतिएं प्रतिसमयमुपशमितदलिकापेक्षया तावद् असङ्ख्येयगुणं प्रक्षिपति यावद् द्विचरमसमयः, चरमसमये पुनरुपशम्यमानं दलिकं परप्रकृतिषु सङ्कम्यमाणदलिकापेक्षयाऽसङ्ख्येयगुणं द्रष्टव्यम् / तदेवं नपुंसकवेद उपशमितः, तस्मिंश्चोपशान्तेऽष्टौ कर्माण्युपशान्तानि जातानि / तत उक्तप्रकारेणान्तर्मुहूर्तेन कालेन स्त्रीवेदमुपशमयति, तस्मिंश्चोपशान्ते नव / ततोऽन्तर्मुहूर्तेन कालेन हास्यादिषटूमुपशमयति, तस्मिंश्चोपशान्ते पञ्चदश कर्माण्युपशान्तानि भवन्ति / तस्मिन्नेवं च समये पुरुष 1 स्त्रीनपुंसकवेदकालात् संख्येयगुणस्तु पुरुषवेदस्य / तस्मादपि विशेषाधिकः क्रोधस्तस्मादपि यथाक्रमशः // 2 सं० सं० 2 छा० मुद्रि० तस्स वि विसे // 3 सं० 1 त० म० °वत्काले // 4 त० °कं परप्रकृतिषु // 5 छा० मुद्रि० कृतिसंग्रहणीटी• // 6 छा० मुद्रि० षु च प्रति // ___सं० 2 छा० व चरमस //

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334