Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 304
________________ 239 51-52] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / इग विगलिंदिय सगले, पण पंच य अट्ट बंधठाणाणि / - पण छककारुदया, पण पण बारस य संताणि // 52 // एकेन्द्रिय-विकलेन्द्रिय-पञ्चेन्द्रियाणां यथाक्रमं बन्धस्थानानि पञ्च पञ्च अष्टौ / तत्रैकेन्द्रियाणाममूनि पञ्च बन्धस्थानानि, तद्यथा-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः एकोनत्रिंशत् त्रिंशत् / तत्र देवगतिप्रायोग्यामेकोनत्रिंशतं त्रिंशतं च वर्जयित्वा शेषा सर्वाण्यपि सर्वगतिप्रायोग्याणि सप्रमेदानि वक्तव्यानि / विकलेन्द्रियाणां त्रयाणामपि इमान्येव पञ्च पञ्च बन्धस्थानानि / पञ्चेन्द्रियाणां सर्वाण्यपि बन्धस्थानानि सर्वगतिप्रायोग्याणि सप्रमेदानि द्रष्टव्यानि / / __सम्प्रत्युदयस्थानान्युच्यन्ते- पण छक्केकारुदय " त्ति एकेन्द्रिय-विकलेन्द्रिय-पञ्चेन्द्रियाणां यथाक्रमं पंञ्च षड् एकादश उदयस्थानानि / तत्रैकेन्द्रियाणाममूनि पञ्च उदयस्थानानि, तबथा—एकविंशतिः चतुर्विशतिः पञ्चविंशतिः षड्विशतिः सप्तविंशतिश्च; एतानि सप्रमेदानि प्रागिव वेदितव्यानि / विकलेन्द्रियाणां षड् उदयस्थानानि, तद्यथा-एकविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् ; एतान्यपि यथाऽधस्तादुक्तानि तथैव वक्तव्यानि / पञ्चेन्द्रियाणाममून्येकादशोदयस्थानानि, तद्यथा-विंशतिः एकविंशति पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशद् नव अष्टौ च / एकेन्द्रिय-विकलेन्द्रियसत्कान्युदयस्थानानि वर्जयित्वा शेषाणि सर्वाण्यपि पञ्चेन्द्रियाणां सप्रभेदानि वक्तव्यानि / ... सम्प्रति सत्तास्थानान्युच्यन्ते—“पण पण बारस य संताणि" त्ति एकेन्द्रिय-विकलेन्द्रिय-पञ्चेन्द्रियाणां यथाक्रमं पञ्च पञ्च द्वादश सत्तास्थानानि। तत्रैकेन्द्रिय-विकलेन्द्रियाणां पञ्च इमानि तद्यथाद्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च। पञ्चेन्द्रियाणां सर्वाण्यपि सत्तास्थानानि। * तदेवं सामान्यतो बन्ध-उदय-सत्तास्थानान्युक्तानि / सम्प्रति संवेध उच्यते-एकेन्द्रियाणां प्रयोविंशतिबन्धकानामायेषु चतुर्वृदयस्थानेषु पूर्वोक्तानि पञ्च पञ्च सत्तास्थानानि, सप्तविंशत्युदये त्वष्टसप्ततिवर्जानि शेषाणि चत्वारि; एवं पञ्चविंशति-पड्विंशति-एकोनत्रिंशत्-त्रिंशद्वन्धकानामपि वक्तव्यम् ; सर्वसत्यया सत्तास्थानानि विशं शतम् 120 / विकलेन्द्रियाणां त्रयोविंशतिबन्धकानामेकविंशत्युदये षड्विंशत्युदये च पञ्च पञ्च सत्तास्थानानि, शेषेषु तु चतुर्वृदयस्थानेषु अष्टसप्ततिवर्जानि शेषाणि चत्वारि चत्वारि सत्तास्थानानि; एवं पञ्चविंशति-षड्विंशति-एकोनत्रिंशत्-त्रिंशद्वन्धकानामपि वक्तव्यम् ; सर्वसङ्ख्यया सत्तास्थानानि त्रिंशं शतम् 130 / पञ्चेन्द्रियाणां त्रयोविंशतिबन्धकानां षड् उदयस्थानानि, तद्यथा—एकविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् ; एतानि तिर्यक्पञ्चेन्द्रियान् मनुष्यांश्चाधिकृत्य भावनीयानि / अत्रैकविंशत्युदये षड्विंशत्युदये च पञ्च पञ्च अनन्तरोक्तानि सत्तास्थानानि, शेषेषु तूईयेष्वष्टसप्ततिवर्जानि शेषाणि चत्वारि चत्वारि सत्तास्थानानि, सर्वसङ्ख्यया षड्विंशतिः सत्तास्थानानि / पञ्चविंशतिबन्धकस्याष्टौ उदयस्थानानि, तद्यथा-एकविंशतिः पञ्चविंशतिः षड्विशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् / इहैकविंशत्युदये षड्विंश१ मुद्रि० छा० दानि बन्धस्थानि वक्त // 2 सं० 1 त० म० दयस्थाने व //

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334