Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

Previous | Next

Page 306
________________ 52-54 ] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 241 इय कम्मपगइठाणा सुदु बंधुदयसंतकम्माणं / गइआइएहि अहसु, चउप्पगारेण नेयाणि // 53 // 'इति' उक्तेन प्रकारेण 'बन्ध-उदय-सत्कर्मणां' बन्ध-उदय-सत्ताना सम्बन्धीनि कर्मप्रकृतिस्थानानि 'सुष्टु' अत्यन्तमुपयोगं कृत्वा 'गत्यादिभिः' गैइ इंदिए य काए, जोए वेए कसाय नाणे य / संजम दंसण लेसा, भव सम्मे सन्नि आहारे // (पञ्चसं० गा० 21 जीवसमा० गा० 6) इत्येवंरूपैश्चतुर्दशभिर्मार्गणास्थानैः ‘अष्टसु' अनुयोगद्वारेषु संतपयपरूवणया, दवपमाणं च खित्तफुसणा य / कालो य अंतरं भाग भाव अप्पाबहुं चेव // (आव०नि० गा० 13) इत्येवंरूपेषु ज्ञातव्यानि / तत्र सत्पदप्ररूपणया संवेधो गुणस्थानकेषु सामान्येनोक्तः, विशेषतस्तु गतीरिन्द्रियाणि चाश्रित्य, एतदनुसारेण काय-योगादिष्वपि मार्गणास्थानेषु वक्तव्यः / शेषाणि तु द्रव्यप्रमाणादीनि सप्तानुयोगद्वाराणि कर्मप्रकृतिप्राभृतादीन् ग्रन्थान् सम्यक् परिभाव्य वक्तव्यानि, ते च कर्मप्रकृतिप्राभृतादयो ग्रन्था न सम्प्रति वर्तन्ते इति लेशतोऽपि दर्शयितुं न शक्यन्ते / यस्त्वैदंयुगीनेऽपि श्रुते सम्यगत्यन्तममियोगमास्थाय पूर्वापरौ परिभाव्य दर्शयितुं शक्नोति तेनावश्यं दर्शयितव्यानि, प्रशोन्मेषो हि सतामद्यापि तीव्र-तीव्रतरक्षयोपशमभावेनासीमो विजयमानो लक्ष्यते / अपि चान्यदपि यत् किश्चिदिह क्षणमापतितं तत् तेनापनीय तस्मिन् स्थानेऽन्यत् समीचीनमुपदेष्टव्यम् / सन्तो हि परोपकारकरणैकरसिका भवन्तीति / / ___ कथं पुनरष्टस्वप्यनुयोगद्वारेषु बन्ध-उदय-सत्तास्थानानि ज्ञातव्यानि ? इत्यत आह'चतुःप्रकारेण' प्रकृति-स्थिति-अनुभाग-प्रदेशरूपेण / तत्र प्रकृतिगतानि बन्ध-उदय-सत्तास्थानानि प्राय उक्तानि, एतदनुसारेण स्थिति-अनुभाग-प्रदेशगतान्यपि भावनीयानि / इह बन्ध-उदयसत्तास्थानसंवेधे चिन्त्यमाने उदयग्रहणेनोदीरणाऽपि गृहीता द्रष्टव्या, उदये सत्यवश्यं उदीरणाया अपि भावात् // 53 // तथा चाह उदयस्सुदीरणाए, सामित्ताओ न विजइ विसेसो। मोत्तूण ये इगुयालं, सेसाणं सव्वपंगईणं // 54 // 1 गतौ इन्द्रिये च काये योगे वेदे कषाये ज्ञाने च / संयमे दर्शने लेश्यायां भवे सम्यत्तवे संज्ञि आहारे // 2 सत्पदप्ररूपणता द्रव्यप्रमाणं च क्षेत्रस्पर्शना च / कालञ्च अन्तरं भागः भावः अल्पबहुत्वं चैव / / 3 छा० मुद्रि० 'क्यते // 4 सं०१ त० म० छा० मुत्तूण // 5 सं० सं० 1 सं० '2 य ईया° // 6 सं० 1 त० म० छा० °पयडीणं // 31

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334