Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text ________________ 236 मलयगिरिमहर्षिविनिर्मितविवृत्युपेत [ गाथाः तिरश्चां नव उदयस्थानानि, तद्यथा—एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः पविशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् / एतानि एकेन्द्रिय-विकलेन्द्रियसवैक्रिया-ऽवैक्रियतिर्यक्पश्चेन्द्रियानधिकृत्य सप्रभेदानि प्रागिव वक्तव्यानि / मनुष्याणामेकादशोदयस्थानानि, तद्यथा-विंशतिः एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशद् नव अष्टौ च / एतानि च स्वभावस्थमनुष्य-वैक्रियमनुष्या-ऽऽहारकर्सयत-तीर्थकरा-ऽतीर्थकरसयोगि-अयोगिकेवलिनोऽधिकृत्यप्राग्वद् भावनीयानि। देवानां षड् उदयस्थानानि, तद्यथा-एकविंशतिः पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् / एतान्यपि प्रागेव सप्रपञ्चमुक्तानि, न भूय उच्यन्ते / ___ सम्प्रति सत्तास्थानान्यभिधीयन्ते-"संता ति पंच एक्कारस चउकं" / मैरयिकाणां सत्तास्थानानि त्रीणि, तद्यथा-द्विनवतिः एकोननवतिः अष्टाशीतिश्च / एकोननवतिबद्धतीर्थकरनामो मिथ्यात्वं गतस्य नरकेषूत्पद्यमानस्यावसेया / त्रिनवतिस्तु न सम्भवति, तीर्थकरा-ऽऽहारकसत्कमणो नरकेधूत्पादाभावात् / तिरश्चां पञ्च सत्तास्थानानि, तद्यथा-द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च / तीर्थकरसम्बन्धीनि क्षपकसम्बन्धीनि च सत्तास्थानानि न सम्भवन्ति, तीर्थकरनामः क्षपकोण्याश्च तिर्यक्ष्वभावात् / ___ मनुष्याणामेकादश सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः षडशीतिः अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिः नव अष्टौ च / अष्टसप्ततिस्तु न सम्भवति, मनुष्याणामवश्यं मनुष्यद्विकसम्भवात् / देवानां चत्वारि सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः / शेषाणि तु न सम्भवन्ति, शेषाणि हि कानिचिद् एकेन्द्रियसम्बन्धीनि कानिचित् क्षपकसम्बन्धीनि, ततः कथं तानि देवानां भवितुमर्हन्ति / सम्प्रति संवेध उच्यते-नैरयिक स्य तिर्यग्गतिप्रायोग्यामेकोनत्रिंशतं बनतः पञ्च उदयस्थानानि, तानि चानन्तरमेवोक्तानि / तेषु प्रत्येकं द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिः अष्टाशीतिः। तीर्थकरसत्कर्मणस्तिर्यग्गतिप्रायोग्यबन्धासम्भवाद् एकोननवतिर्न लभ्यते। मनुष्यगतिप्रायोभ्यां नेकोनविंशतं बनतः पञ्चस्वप्युदयस्थानेषु प्रत्येकं त्रीणि त्रीणि सत्तास्थानानि, तद्यथाद्विनवतिः एकोननवतिः अष्टाशीतिश्च / तीर्थकरसत्कर्मा हि नरकेभूत्पन्नो यावद् मिथ्यादृष्टिस्तावद् एकोनत्रिंशतं बध्नाति, सम्यक्त्वं तु प्रतिपन्नस्त्रिंशतम् , तीर्थकरनामकर्मणोऽपि बन्धात् / तिर्यग्गतिप्रायोग्यामुधोतसहितां त्रिंशतं बघ्नतः पञ्चस्वप्युदयस्थानेषु प्रत्येकं द्वे द्वे सत्तास्थाने, तद्यथा 1 सं० 1 त० म० °करसयो /
Loading... Page Navigation 1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334