Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

Previous | Next

Page 299
________________ 234 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः सम्प्रत्यनिवृत्तिबादरस्य बन्धादिस्थानान्युच्यन्ते-“एगेगम?" ति अनिवृत्तिबादरस्यैकं बन्धस्थानम्-यशःकीर्तिः / एकमुदयस्थानम्-त्रिंशत् / अष्टौ सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च। तत्राद्यानि चत्वार्युपशमश्रेण्यां क्षपकश्रेण्यां वा यावद् नामत्रयोदशकं न क्षीयते / त्रयोदशसु च नामसु यथाक्रमं त्रिनवत्यादेः क्षीणेषुपरितनानि चत्वारि सत्तास्थानानि भवन्ति / बन्ध-उदय-स्थानभेदाभावादन संवेधो न सम्भवतीति नाभिधीयते। सूक्ष्मसम्परायस्य बन्धादीन्युच्यन्ते—“एगेगमट्ट" ति सूक्ष्मसम्परायस्यै बन्धस्थानम्यशःकीर्तिः / एकमुदयस्थानम्-त्रिंशत् / अष्टौ सत्तास्थानानि, तानि चानिवृत्तिबादरस्येव वेदितव्यानि / तत्राद्यानि चत्वार्युपशमश्रेण्यामेव, उपरितनानि तु क्षपकश्रेण्याम् / "छउमत्थकेवलिजिणाणं" इत्यादि। छद्मस्थजिनाः-उपशान्तमोहाः क्षीणमोहाश्च, केवलिजिनाः-सयोगिकेवलिनोऽयोगिकेवलिनश्च, तेषां यथाक्रममुदय-सत्तास्थानानि-"एक चऊ" इत्यादीनि / तत्रोपशान्तमोहस्यैकमुदयस्थानम्-त्रिंशत् / चत्वारि सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिश्च / क्षीणकषायस्यैकमुदयस्थानम्-त्रिंशत् / अत्र भङ्गाश्चतुर्विंशतिरेव, वज्रर्षभनाराचसंहननयुक्तस्यैव क्षपकश्रेण्यारम्भसम्भवात् / तत्रापि तीर्थकरसत्कर्मणः क्षीणमोहस्य सर्व संस्थानादि प्रशस्तमित्येक एव भङ्गः / चत्वारि सत्तास्थानानि, तद्यथा—अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च / एकोनाशीति-पञ्चसप्तती अतीर्थकरसत्कर्मणो वेदितव्ये / अशीति-षट्सप्तती तु तीर्थकरसत्कर्मणः / सयोगिकेवलिनोऽष्टावुदयस्थानानि, तद्यथा-विंशतिः एकविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् / एतानि सामान्यतो नाम्न उदयस्थानचिन्तायां सप्रपञ्चं विवृतानीति न भूयो विवियन्ते / चत्वारि सत्तास्थानानि, तद्यथा-अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिः / सम्प्रति संवेध उच्यते-स च जीवस्थानेषु पर्याप्तसंज्ञिद्वारे यथा कृतस्तथाऽत्रापि भावयितव्यः / अयोगिकेवलिनो द्वे उदयस्थाने, तद्यथा—नव अष्टौ च / तत्राष्टोदयोऽतीर्थकरायोगिकेवलिनः, नवोदयस्तीर्थकरायोगिकेवलिनः / षट् सत्तास्थानानि, तद्यथा—अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिः नव अष्टौ चें। सम्प्रति संवेध उच्यते-तत्राष्टोदये त्रीणि सत्तास्थानानि, तद्यथा-एकोनाशीतिः पञ्चस१ से 1 त० म० °ने वेदितव्ये, तय° // 2 सं० सं० 2 मुद्रि० च / तत्राटो //

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334