Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 298
________________ 49-50] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 233 तस्येव भावनीये / सैवाष्यविंशतिराहारकद्विकसहिता त्रिंशत् / आहारकद्विक-तीर्थकरसहिता त्वेकत्रिंशत् / एतेषु चतुर्वपि बन्धस्थानेषु भग एकैक एव वेदितव्यः, अस्थिरा-ऽशुभा-ऽयशःकीर्तीनामप्रमत्तसंयते बन्धाभावात् / द्वे उदयस्थाने, तद्यथा—एकोनत्रिंशत् त्रिंशत् / तत्रैकोनत्रिंशद् यो नाम पूर्व प्रमत्तसंयतः सन् आहारकं वैक्रियं वा मिर्त्य पश्चादप्रमत्तभावं गच्छति तस्य प्राप्यते, अत्र द्वौ भनौएको वैक्रियस्य, अपर आहारकस्य / एवं त्रिंशदुदयेऽपि द्वौ भनौ / खभावस्खस्याप्यप्रमत्तसंयतस्य त्रिंशदुदयो भवति, तत्र भङ्गाश्चतुश्चत्वारिंशं शतम् 144 / सर्वसाध्ययाऽष्टचत्वारिंशं शतम् 148 / . सत्तास्थान मि चत्वारि, तद्यथा--त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिश्च / सम्प्रति संवेध उच्यते-अष्टाविंशतिबन्धकस्य द्वयोरप्युदयस्थानयोरेकैकं सत्तास्थानम्अधाशीतिः / एकोनत्रिंशद्वन्धकस्यापि वयोरप्युदयस्थानयोरेकैकं सत्तास्थानम्- एकोननवतिः / त्रिंशद्वन्धकस्यापि द्वयोरप्युदयस्थानयोरेकैकं सत्तास्थानम् --द्विनवतिः। एकत्रिंशद्वन्धकस्यापि द्वयोरप्युदयस्थानयोरेकैकं सत्तास्थानम्-त्रिनवतिः / यस्य हि तीर्थकरमाहारकं वा सत् स नियमात् तद् बनाति, तेनैकैकस्मिन् बन्धे एकैकमेव सत्तास्थानम् / सर्वसङ्ख्ययाऽष्टौ / सम्प्रत्यपूर्वकरणस्य बन्धादीन्युच्यन्ते-"पणगेग चउ" ति अपूर्वकरणस्य पञ्च बन्धस्थानानि, तद्यथा-अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशद् एका च / तत्राद्यानि चत्वारि अप्रमत्तसंयतस्येव द्रष्टव्यानि / एका तु यशःकीर्तिः, सा च देवगतिप्रायोग्यबन्धव्यवच्छेदे सति वेदितव्या / एकमुदयस्थानम्-त्रिंशत् / अत्र वज्रर्षभनाराचसंहनन-षट्संस्थान-सुस्वर-दुःस्वर-प्रशस्ताप्रशस्तविहायोगतिभिर्भङ्गाश्चतुर्विशतिः 24 / ____ अन्ये त्वाचार्या ब्रुवते-आद्यसंहननत्रयान्यतमसंहननयुक्ता अप्युपशमश्रेणी प्रतिपद्यन्ते तन्मतेन भङ्गा द्विसप्ततिः / एवमनिवृत्तिबादर-सूक्ष्मसम्पराय-उपशान्तमोहेष्वपि द्रष्टव्यम् / चत्वारि सत्तास्थानानि, तद्यथा—त्रिनवतिः द्विनवतिः एकोननवतिः भष्टाशीतिश्च / सम्प्रति संवेध उच्यते-अष्टाविंशति-एकोनत्रिंशत्-त्रिंशद्-एकत्रिंशद्वन्धकानां त्रिंशदुदये सत्तास्थानानि यथाक्रममष्टाशीतिः एकोननवतिः द्विनवतिः त्रिनवतिश्च। एकविधबन्धकस्य त्रिंशदुदये चत्वार्यपि सत्तास्थानानि, कथम् ? इति चेद् उच्यते--इहाष्टाविंशति-एकोनत्रिंशत्-त्रिंशद्एकत्रिंशद्वन्धकाः प्रत्येकं देवगतिप्रायोग्यबन्धव्यवच्छेदे सत्येकविधबन्धका भवन्ति, अष्टाविंशत्यादिबन्धकानां च यथाक्रममष्टाशीत्यादीनि सत्तास्थानानि, तत एकविधबन्धे चत्वार्यपि' प्राप्यन्ते // 19 // सं० 1 त० म० °तरसं° // 2 सं० छा० °पि सत्तास्थानानि प्राप्य° // 30

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334