Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text ________________ 50-51] चन्द्रर्षिमहत्तरकृतं सप्ततिकामकरणम् / सतिः अष्टौ च / तत्राये द्वे यावद् द्विचरमसमयस्तावत् प्राप्येते, चरमसमयेऽष्टौ / नवोदये श्रीणि सत्तास्थानानि, तद्यथा-अशीतिः षट्सप्ततिः नव च / तत्राये द्वे यावद् द्विचरमसमयः, चरमसमये नव // 50 // तदेवं गुणस्थानकेषु बन्ध-उदय-सत्तास्थानान्युक्तानि / साम्प्रतं गत्यादिषु मार्गणास्थाने तानि चिचिन्तयिषुः प्रथमतो गतिषु तावत् चिन्तयन्नाह दो छक्कष्ट चउर्फ, पण नव एकार छक्कगं उदया। नेरइआइस संता, ति पंच एकारस चउकं // 51 // नैरयिक-तिर्यग्-मनुष्य-देवानां यथाक्रमं द्वे षड् अष्टौ चत्वारि बन्धस्थानानि / तत्र नैरयिकाणामिमे द्वे, तद्यथा-एकोनत्रिंशत् त्रिंशत् / तत्रैकोनत्रिंशद् मनुष्यगतिप्रायोग्या तिर्यग्गतिप्रायोग्या च वेदितव्या / त्रिंशत् तिर्यक्पञ्चेन्द्रियप्रायोग्या उद्योतसहिता, मनुष्यगतिप्रायोग्या तु तीर्थकरसहिता / भगाचे प्रागुक्ताः सर्वेऽपि द्रष्टव्याः। तिरबां षड् बन्धस्थानानि, तद्यथा-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिशत् / एतानि प्रागिव सप्रमेदानि वक्तव्यानि / केवलमेकोनत्रिंशत् त्रिंशच या तीर्षकरा-हारकसहिता सा न वक्तव्या, तिरश्चां तीर्थकरा-ऽऽहारकबन्धासम्भवात् / मनुष्याणामष्टौ बन्धस्थानानि, तद्यथा-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशद् एका च / एतान्यपि प्रागिव सप्रभेदानि वक्तव्यानि, मनुष्याणां चतुर्गतिकमायोग्यबन्धसम्भवात् / देवस्य चत्वारि बन्धस्थानानि, तद्यथा-पञ्चविंशतिः षकिंशतिः एकोनत्रिंशत् त्रिंशत् / अत्र पञ्चविंशतिः षड्विंशतिश्च पर्याप्त बादर-प्रत्येकसहितमेकेन्द्रियप्रायोग्यं बनतो वेदितव्या। अत्र स्थिरा-ऽस्थिर-शुभा-ऽशुभ-यशःकीर्ति-अयश कीर्तिभिरष्टौ भङ्गाः / षड्विंशतिः आतपउपोतान्यतरसहिता भवति, ततोऽत्र भङ्गाः षोडश / एकोनत्रिंशद् मनुष्यगतिप्रायोग्या तिर्यक्पञ्चेन्द्रियप्रायोग्या च सप्रमेदाऽवसेया। त्रिंशत् पुनस्तिर्यक्पञ्चेन्द्रियप्रायोग्या उद्योनसहिता अष्टाधिकषट्चत्वारिंशच्छतसक्यमेदोपेता 4608 प्रागिर्वं वक्तव्या / या तु मनुष्यगतिप्रायोग्या तीर्थकरनामसहिता तत्र स्थिरा-ऽस्थिर-शुभा-ऽशुभ-यशः कीर्ति-अयशःकीर्तिभिरष्टौ भनाः। ... सम्प्रत्युदयस्थानान्यभिधीयन्ते-"पण नव एक्कार छक्कगं उदया" / नैरयिकाणां पञ्चे 'उदया' उदयस्थानानि, तद्यथा--एकविंशतिः पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् / एतानि सप्रमेदानि प्रागिव वक्तव्यानि / - 1 सं० सं० 1 सं० 2 त० छा० °आई संता, // 2 छा० मुद्रि व सर्वत्रापि प्रागु° // * 3 सं० 1 10 म० शतिः पर्या' // 4 मुद्रि० °व सप्रभेदा वफ° // 5 सं० 1 त० म० श्व उदयस्थाना //
Loading... Page Navigation 1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334