________________ 50-51] चन्द्रर्षिमहत्तरकृतं सप्ततिकामकरणम् / सतिः अष्टौ च / तत्राये द्वे यावद् द्विचरमसमयस्तावत् प्राप्येते, चरमसमयेऽष्टौ / नवोदये श्रीणि सत्तास्थानानि, तद्यथा-अशीतिः षट्सप्ततिः नव च / तत्राये द्वे यावद् द्विचरमसमयः, चरमसमये नव // 50 // तदेवं गुणस्थानकेषु बन्ध-उदय-सत्तास्थानान्युक्तानि / साम्प्रतं गत्यादिषु मार्गणास्थाने तानि चिचिन्तयिषुः प्रथमतो गतिषु तावत् चिन्तयन्नाह दो छक्कष्ट चउर्फ, पण नव एकार छक्कगं उदया। नेरइआइस संता, ति पंच एकारस चउकं // 51 // नैरयिक-तिर्यग्-मनुष्य-देवानां यथाक्रमं द्वे षड् अष्टौ चत्वारि बन्धस्थानानि / तत्र नैरयिकाणामिमे द्वे, तद्यथा-एकोनत्रिंशत् त्रिंशत् / तत्रैकोनत्रिंशद् मनुष्यगतिप्रायोग्या तिर्यग्गतिप्रायोग्या च वेदितव्या / त्रिंशत् तिर्यक्पञ्चेन्द्रियप्रायोग्या उद्योतसहिता, मनुष्यगतिप्रायोग्या तु तीर्थकरसहिता / भगाचे प्रागुक्ताः सर्वेऽपि द्रष्टव्याः। तिरबां षड् बन्धस्थानानि, तद्यथा-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिशत् / एतानि प्रागिव सप्रमेदानि वक्तव्यानि / केवलमेकोनत्रिंशत् त्रिंशच या तीर्षकरा-हारकसहिता सा न वक्तव्या, तिरश्चां तीर्थकरा-ऽऽहारकबन्धासम्भवात् / मनुष्याणामष्टौ बन्धस्थानानि, तद्यथा-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशद् एका च / एतान्यपि प्रागिव सप्रभेदानि वक्तव्यानि, मनुष्याणां चतुर्गतिकमायोग्यबन्धसम्भवात् / देवस्य चत्वारि बन्धस्थानानि, तद्यथा-पञ्चविंशतिः षकिंशतिः एकोनत्रिंशत् त्रिंशत् / अत्र पञ्चविंशतिः षड्विंशतिश्च पर्याप्त बादर-प्रत्येकसहितमेकेन्द्रियप्रायोग्यं बनतो वेदितव्या। अत्र स्थिरा-ऽस्थिर-शुभा-ऽशुभ-यशःकीर्ति-अयश कीर्तिभिरष्टौ भङ्गाः / षड्विंशतिः आतपउपोतान्यतरसहिता भवति, ततोऽत्र भङ्गाः षोडश / एकोनत्रिंशद् मनुष्यगतिप्रायोग्या तिर्यक्पञ्चेन्द्रियप्रायोग्या च सप्रमेदाऽवसेया। त्रिंशत् पुनस्तिर्यक्पञ्चेन्द्रियप्रायोग्या उद्योनसहिता अष्टाधिकषट्चत्वारिंशच्छतसक्यमेदोपेता 4608 प्रागिर्वं वक्तव्या / या तु मनुष्यगतिप्रायोग्या तीर्थकरनामसहिता तत्र स्थिरा-ऽस्थिर-शुभा-ऽशुभ-यशः कीर्ति-अयशःकीर्तिभिरष्टौ भनाः। ... सम्प्रत्युदयस्थानान्यभिधीयन्ते-"पण नव एक्कार छक्कगं उदया" / नैरयिकाणां पञ्चे 'उदया' उदयस्थानानि, तद्यथा--एकविंशतिः पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् / एतानि सप्रमेदानि प्रागिव वक्तव्यानि / - 1 सं० सं० 1 सं० 2 त० छा० °आई संता, // 2 छा० मुद्रि व सर्वत्रापि प्रागु° // * 3 सं० 1 10 म० शतिः पर्या' // 4 मुद्रि० °व सप्रभेदा वफ° // 5 सं० 1 त० म० श्व उदयस्थाना //