________________ 236 मलयगिरिमहर्षिविनिर्मितविवृत्युपेत [ गाथाः तिरश्चां नव उदयस्थानानि, तद्यथा—एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः पविशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् / एतानि एकेन्द्रिय-विकलेन्द्रियसवैक्रिया-ऽवैक्रियतिर्यक्पश्चेन्द्रियानधिकृत्य सप्रभेदानि प्रागिव वक्तव्यानि / मनुष्याणामेकादशोदयस्थानानि, तद्यथा-विंशतिः एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशद् नव अष्टौ च / एतानि च स्वभावस्थमनुष्य-वैक्रियमनुष्या-ऽऽहारकर्सयत-तीर्थकरा-ऽतीर्थकरसयोगि-अयोगिकेवलिनोऽधिकृत्यप्राग्वद् भावनीयानि। देवानां षड् उदयस्थानानि, तद्यथा-एकविंशतिः पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् / एतान्यपि प्रागेव सप्रपञ्चमुक्तानि, न भूय उच्यन्ते / ___ सम्प्रति सत्तास्थानान्यभिधीयन्ते-"संता ति पंच एक्कारस चउकं" / मैरयिकाणां सत्तास्थानानि त्रीणि, तद्यथा-द्विनवतिः एकोननवतिः अष्टाशीतिश्च / एकोननवतिबद्धतीर्थकरनामो मिथ्यात्वं गतस्य नरकेषूत्पद्यमानस्यावसेया / त्रिनवतिस्तु न सम्भवति, तीर्थकरा-ऽऽहारकसत्कमणो नरकेधूत्पादाभावात् / तिरश्चां पञ्च सत्तास्थानानि, तद्यथा-द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च / तीर्थकरसम्बन्धीनि क्षपकसम्बन्धीनि च सत्तास्थानानि न सम्भवन्ति, तीर्थकरनामः क्षपकोण्याश्च तिर्यक्ष्वभावात् / ___ मनुष्याणामेकादश सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः षडशीतिः अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिः नव अष्टौ च / अष्टसप्ततिस्तु न सम्भवति, मनुष्याणामवश्यं मनुष्यद्विकसम्भवात् / देवानां चत्वारि सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः / शेषाणि तु न सम्भवन्ति, शेषाणि हि कानिचिद् एकेन्द्रियसम्बन्धीनि कानिचित् क्षपकसम्बन्धीनि, ततः कथं तानि देवानां भवितुमर्हन्ति / सम्प्रति संवेध उच्यते-नैरयिक स्य तिर्यग्गतिप्रायोग्यामेकोनत्रिंशतं बनतः पञ्च उदयस्थानानि, तानि चानन्तरमेवोक्तानि / तेषु प्रत्येकं द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिः अष्टाशीतिः। तीर्थकरसत्कर्मणस्तिर्यग्गतिप्रायोग्यबन्धासम्भवाद् एकोननवतिर्न लभ्यते। मनुष्यगतिप्रायोभ्यां नेकोनविंशतं बनतः पञ्चस्वप्युदयस्थानेषु प्रत्येकं त्रीणि त्रीणि सत्तास्थानानि, तद्यथाद्विनवतिः एकोननवतिः अष्टाशीतिश्च / तीर्थकरसत्कर्मा हि नरकेभूत्पन्नो यावद् मिथ्यादृष्टिस्तावद् एकोनत्रिंशतं बध्नाति, सम्यक्त्वं तु प्रतिपन्नस्त्रिंशतम् , तीर्थकरनामकर्मणोऽपि बन्धात् / तिर्यग्गतिप्रायोग्यामुधोतसहितां त्रिंशतं बघ्नतः पञ्चस्वप्युदयस्थानेषु प्रत्येकं द्वे द्वे सत्तास्थाने, तद्यथा 1 सं० 1 त० म० °करसयो /