________________ 11] चर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 24 द्विनवतिरष्टाशीतिश्च / एकोननवत्यभावभावना प्रागिव भावनीया / मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां त्रिंशतं बघ्नतः पञ्चस्वप्युदयस्थानेषु प्रत्येकमेकैकं सत्तास्थानम्—एकोननवतिः / सर्वबन्धस्थान उदयस्थानापेक्षया सत्तास्थानानि चत्वारिंशत् / सम्प्रति तिरश्चां संवेध उच्यते-त्रयोविंशतिबन्धकस्य तिरश्च एकविंशत्यादीनि नब उदयस्थानानि, तानि चानन्तरमेवोक्तानि / तत्रायेषु चतुर्पु एकविंशति-चतुर्विशति-पञ्चविंशतिषड्विंशतिरूपेषु प्रत्येकं पञ्च पञ्च सत्तास्थानानि, तद्यथा-द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिः। इहाष्टसप्ततिस्तेजो-वायून् तद्भवादुद्वृत्तान् वाऽधिकृत्य वेदितव्या। शेषेषु तु सप्तविंशत्यादिषु पञ्चसूदयस्थानेषु अष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि / सप्तविंशत्याधुदयेषु हि नियमतो मनुष्यगतिद्विकसम्भवादष्टसप्ततिर्न लभ्यते / एवं पञ्चविंशति-पविंशति-एकोनत्रिंशत्-त्रिंशद्वन्धकानामपि वक्तव्यम् / नवरमेकोनत्रिंशतं मनुष्यगतिप्रायोग्यां बनतः सर्वेष्वप्युदयस्थानेष्वष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि / अष्टाविंशतिबन्धकस्य अष्टावुदयस्थानानि, तद्यथा-एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् / तत्रैकविंशति-पड्विंशति-अष्टाविंशति-एकोनत्रिंशत्-त्रिंशद्रूपाः पञ्च उदयाः क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा द्वाविंशतिसत्कर्मणां पूर्वबद्धायुषामवगन्तव्याः। एकैकस्मिंश्च द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिः अष्टाशीतिश्च / पञ्चविंशति-सप्तविंशत्युदयौ. वैक्रियतिरश्चां वेदितव्यौ, तत्रापि ते एव द्वे द्वे सत्तास्थाने / त्रिंशद्-एकत्रिंशदुदयौ सर्वपर्याप्तिपर्याप्तानां सम्यग्दृष्टीनां मिथ्यादृष्टीनां वाऽवसेयौ / एकैकस्मिंश्च त्रीणि त्रीणि सत्तास्थानानि, तद्यथा-द्विनवतिः अष्टाशीतिः षडशीतिश्च / षडशीतिर्मिथ्यादृष्टीनामवगन्तव्या / सम्यग्दृष्टीनां . तु न सम्भवति, तेषामवश्यं देवद्विकादिबन्धसम्भवात् / तदेवं सर्वबन्धस्थान-सर्वोदयस्थानापेक्षया सत्तास्थानानां द्वे शते अष्टादशाधिके 218, तथाहि-त्रयोविंशति-पञ्चविंशति-षड्विंशतिएकोनत्रिंशत्-त्रिंशद्वन्धकेषु प्रत्येकं चत्वारिंशत् चत्वारिंशत् , अष्टाविंशतिबन्धे चाष्टादश / सम्प्रति मनुष्याणां संवेध उच्यते-तत्र मनुष्यस्य त्रयोविंशतिबन्धकस्योदयाः सप्त, तद्यथा-एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् ; शेषाः केवल्युदया इति न सम्भवन्ति / पञ्चविंशति-सप्तविंशत्युदयौ च वैक्रियकारिणो वेदितव्यो। एकैकस्मिश्चत्वारि चत्वारि सत्तास्थानानि, तद्यथा-द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिश्च / नवरं पञ्चविंशत्युदये सप्तविंशत्युदये च द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिः अष्टाशीतिश्च; शेषाणि तु सत्तास्थानानि तीर्थकर-क्षपकश्रेणि-केवलि-शेषगतिप्रायोग्याणीति न सम्भवन्ति; सर्वसत्यया चतुर्विंशतिः / एवं पञ्चविंशति-षड्विंशतिबन्धकानामपि वक्तव्यम् / मनुजगतिप्रायोग्यां तिर्यग्गतिपायोग्यां चैकोनत्रिंशतं त्रिंशतं च बनतामप्येवमेव / अष्टाविंशति .1 सं० 2 छा० मुद्रि० 'नानि त्रिंशत् // 2 इत ऊर्ध्वम्-छा० प्रन्थानम्-२९३० // 3 सं०१ त० म० 'नतां // 4 मुद्रि० °षाः संयतोद // 5 सं० छा० मुद्रि० °न्ति / त्रयोविंशतिबन्धकस्य पञ्च // 6 छा० मुद्रि० °वलिसम्बन्धीनि शेषगतिप्रायोग्याणि चेंति कृत्वा न //