________________ 238 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [ गाथाः बन्धकानां सप्त उदयाः, तद्यथा-एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् / तत्रैकविंशति-षड्विंशत्युदयौ अविरतसम्यग्दृष्टेः करणापर्याप्तस्य / , पञ्चविंशति-सप्तविंशत्युदयौ वैक्रियस्याहारकसंयतस्य वा / अष्टाविंशति-एकोनत्रिंशतौ अविरतसम्यग्दृष्टीनां वैक्रियकारिणामाहारकसंयतानां च / त्रिंशत् सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा / एकैकस्मिन् द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिः अष्टाशीतिश्च / आहारकसंयतस्य द्विनवतिरेव / त्रिंशदुदये चत्वारि सत्तास्थानानि, तद्यथा-द्विनवतिः एकोननवतिः अष्टाशीतिः षडशीतिश्च / तत्रैकोननवतिर्नरकगतिप्रायोग्यामष्टाविंशति बनतो मिथ्यादृष्टेरवसेया / सर्वसङ्ख्ययाऽष्टाविंशतिबन्धे षोडश सत्तास्थानानि / देवगतिप्रायोग्यामेकोनत्रिंशतं तीर्थकरसहितां बनतः सप्त उदयस्थानानि, तानि चाष्टाविंशतिबन्धकानामिव द्रष्टव्यानि / नवरं त्रिंशदुदयः सम्यग्दृष्टीनामेव वक्तव्यः, यत एकोनत्रिंशद्वन्धस्तीर्थकरनामसहितः, तीर्थकरनाम च बन्धमायाति सम्यग्दृष्टीनामिति / सर्वेष्वपि चोदयस्थानेषु प्रत्येकं द्वे वे सत्तास्थाने, तद्यथा-त्रिनवतिः एकोननवतिश्च / आहारकसंयतस्य त्रिनवतिरेव / सर्वसङ्ख्यया चतुर्दश। आहारकसहितां त्रिंशतं बनतो द्वे उदयस्थाने, तद्यथा-एकोनत्रिंशत् त्रिंशत् / तत्र यो नामाऽऽहारकसंयतोऽन्तिमकालेऽप्रम- - - त्तस्तं प्रति एकोनत्रिंशद् वेदितव्या, अन्यत्रैकोनत्रिंशति आहारकबन्धहेतोर्विशिष्टसंयमस्यासम्भवात् / द्वयोरप्युदयस्थानयोः प्रत्येकमेकैकं सत्तास्थानम्-द्विनवतिः / एकत्रिंशद्वन्धकस्य एकमुदयस्थानम्-त्रिंशत् ; एकं सत्तास्थानम्-त्रिनवतिः। एकविधबन्धकस्यैकमुदयस्थानम्त्रिंशत् ; अष्टौ सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च / सर्वबन्धस्थान-उदयस्थानापेक्षया सत्तास्थानानि शतमेकोनषष्ट्यधिकम् 159, तद्यथा-त्रयोविंशति-पञ्चविंशति-षड्विंशतिबन्धेषु प्रत्येकं चतुर्विंशतिश्चतुर्विंशतिः, अष्टाविंशतिबन्धे षोडश, मनुज-तिर्यग्गतिप्रायोग्यैकोनत्रिंशद्वन्धे प्रत्येकं चतुर्विंशतिश्चतुर्विंशतिः, देवगतिप्रायोग्यतीर्थकरसहितकोनत्रिंशद्वन्ध चतुर्दश, एकत्रिंशद्वन्धे एकम् , एकप्रकृतिबन्धेऽष्टाविति / बन्धाभावे उदयस्थान-सत्तास्थानयोः परस्परसंवेधः सामान्यतः संवेधचिन्तायामिव वेदितव्यः / / ___सम्प्रति देवानां संवेध उच्यते-तत्र देवानां पञ्चविंशतिबन्धकानां षट्स्वप्युदयस्थानेषु प्रत्येकं द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिः अष्टाशीतिश्च / एवं षड्विंशति-एकोनत्रिंशद्वन्धकानामपि वेदितव्यम् / उद्योतसहितां तिर्यक्पञ्चेन्द्रियप्रायोग्यां त्रिंशतमपि बनतामेवमेव / तीर्थकरसहितां पुनस्त्रिंशतमर्थाद् मनुष्यगतिप्रायोग्यां बनतां षट्स्वपि उदयस्थानेषु द्वे द्वे सत्तास्थाने, तद्यथा-त्रिनवतिः एकोननवतिश्च / सर्वसङ्ख्यया सत्तास्थानानि षष्टिः // 51 // तदेवं गतिमाश्रित्योक्तम् / सम्प्रति इन्द्रियमाश्रित्याभिधीयते 1 छा० मुद्रि० दृष्टिवैक्रियाहारकसंयतानाम् / त्रिं° // 2 छा० मुद्रि० वरमिह त्रि° // 1 आहारकमोक्षकाले इत्यर्थः // 4 छा० सं० मुद्रि० प्रतीत्यैको° // 5 अप्रमत्तं विहायेत्यर्थः / , 6 सं०१ त० म० छा० स्याभावा //