Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text ________________ 230 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः ___ सम्प्रत्यविरतसम्यग्दृष्टेर्बन्ध-उदय-सत्तास्थानान्यभिधीयन्ते-"तिगऽट्ठ चउ" ति त्रीणिबन्धस्थानानि, तद्यथा-अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् / तत्र तिर्यङ्-मनुष्याणामविरतसम्यग्हष्टीनां देवगतिप्रायोग्यं बनतामष्टाविंशतिः, अत्राष्टौ भङ्गाः। अविरतसम्यग्दृष्टयो हि तिर्यङ्-मनुष्या न शेषगतिप्रायोग्यं बध्नन्ति, तेन नरकगतिप्रायोग्या अष्टाविंशतिर्न लभ्यते / मनुष्याणां देवगतिप्रायोग्यं तीर्थकरसहितं बनतामेकोनत्रिंशत् , अत्राप्यष्टौ भङ्गाः / देव-नैरयिकाणां मनुष्यगतिप्रायोग्यं बनतामेकोनत्रिंशत्, अत्रापि त एवाष्टौ भङ्गाः / तेषामेव मनुष्यगतिप्रायोग्य तीर्थकरसहितं बध्नतां त्रिंशत् , अत्रापि त एवाष्टौ भङ्गाः / ___ अष्टावुदयस्थानानि, तद्यथा--एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् / तत्रैकविंशत्युदयो नैरयिक-तिर्यक्पञ्चेन्द्रिय-मनुष्यदेवानधिकृत्य चेदितव्यः क्षायिकसम्यग्दृष्टेः, पूर्वबद्धायुष्कस्य एतेषु सर्वेष्वपि तस्य सम्भवात् / अविरतसम्यग्दृष्टिश्चापर्याप्तकेषु मध्ये नोत्पद्यते, ततोऽपर्याप्तकोदयवर्जाः शेषभङ्गाः सर्वेऽपि वेदितव्याः। ते च पञ्चविंशतिः-तत्र तिर्यक्पश्चेन्द्रियानधिकृत्याष्टी, मनुष्यानधिकृत्याष्टी, देवानप्यधिकृत्याष्टौ, नैरयिकानधिकृत्यैकः / पञ्चविंशति-सप्तविंशत्युदयौ देव-नैरयिकान् वैक्रियतिर्यङ्मनुष्यांश्चाधिकृत्यावसेयौ / तत्र नैरयिकः क्षायिकसम्यग्दृष्टिर्वेदकसम्यग्दृष्टिा, देवस्त्रिविधसम्यग्दृष्टिरपि / उक्तं च चूर्णी पैणवीस-सत्तवीसोदया देव-नेरइए विउब्धियतिरिय-मणुए य पडुच्च, नेरइगो खइग-वेयगसम्मद्दिट्ठी, देवो तिविहसम्मपिट्ठी वि / ( ) इति / भङ्गा अत्र सर्वेऽप्यात्मीया आत्मीया द्रष्टव्याः / षड्विंशत्युदयः तिर्यङ्-मनुष्याणां क्षायिक-वेदकसम्यग्दृष्टीनाम् / औपशमिकसम्यग्दृष्टिश्च तिर्यङ्-मनुष्येषु मध्ये नोत्पद्यत इति त्रिविधसम्यग्दृष्टीनामिति नोक्तम् / वेदकसम्यग्दृष्टिता च तिरश्चो द्वाविंशतिसत्कर्मणो वेदितव्या / अष्टाविंशतिएकोनत्रिंशदुदयौ नैरयिक-तिर्यङ्-मनुष्य-देवानाम् / त्रिंशदुदयस्तिर्यक्पञ्चेन्द्रिय-मनुष्य-देवानाम् / एकत्रिंशदुदयस्तिर्यक्पश्चेन्द्रियाणाम् / भङ्गा आत्मीया आत्मीयाः सर्वेऽपि द्रष्टव्याः / चत्वारि सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिश्च / तत्र योऽप्रमत्तसंयतोऽपूर्वकरणो वा तीर्थकरा-ऽऽहारकसहितामेकत्रिंशतं बद्धा पश्चादविरतसम्यग्दृष्टिदेवो जातस्तमधिकृत्य त्रिनवतिः / यस्त्वाहारकं बद्धा परिणामपरावर्तनेन मिथ्यात्वमुपगम्य चतसृणां गतीनामन्यतमस्यां गतावुत्पन्नस्तस्य तत्र तत्र गतौ भूयोऽपि सम्यक्त्वं प्रतिपन्नस्य द्विनवतिः / देव-मनुष्येषु मध्ये मिथ्यात्वमप्रतिपन्नस्यापि द्विनवतिः प्राप्यते / एकोननवतिर्देवनैरयिकमनुष्याणामविरतसम्यग्दृष्टीनाम् , ते हि त्रयोऽपि तीर्थकरनाम समर्जयन्ति। तिर्यक्षु तीर्थकरनामसत्कर्मा नोत्पद्यत इति तिर्यङ् न गृहीतः। अष्टाशीतिश्चतुर्गतिकानामविरतसम्यग्दृष्टीनाम् / 1 म० छा० षा भ॥ 2 पञ्चविंशति-सप्तविंशत्युदयौ देवनैरयिकान् वैक्रियतिङ्-मनुष्यांश्च प्रतीत्य, नैरयिकः क्षायिक-वेदकसम्यग्दृष्टिः, देवत्रिविधसम्यग्दृष्टिरपि // 3 म० मुद्रि० त्वमनुग //
Loading... Page Navigation 1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334