________________ 230 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः ___ सम्प्रत्यविरतसम्यग्दृष्टेर्बन्ध-उदय-सत्तास्थानान्यभिधीयन्ते-"तिगऽट्ठ चउ" ति त्रीणिबन्धस्थानानि, तद्यथा-अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् / तत्र तिर्यङ्-मनुष्याणामविरतसम्यग्हष्टीनां देवगतिप्रायोग्यं बनतामष्टाविंशतिः, अत्राष्टौ भङ्गाः। अविरतसम्यग्दृष्टयो हि तिर्यङ्-मनुष्या न शेषगतिप्रायोग्यं बध्नन्ति, तेन नरकगतिप्रायोग्या अष्टाविंशतिर्न लभ्यते / मनुष्याणां देवगतिप्रायोग्यं तीर्थकरसहितं बनतामेकोनत्रिंशत् , अत्राप्यष्टौ भङ्गाः / देव-नैरयिकाणां मनुष्यगतिप्रायोग्यं बनतामेकोनत्रिंशत्, अत्रापि त एवाष्टौ भङ्गाः / तेषामेव मनुष्यगतिप्रायोग्य तीर्थकरसहितं बध्नतां त्रिंशत् , अत्रापि त एवाष्टौ भङ्गाः / ___ अष्टावुदयस्थानानि, तद्यथा--एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् / तत्रैकविंशत्युदयो नैरयिक-तिर्यक्पञ्चेन्द्रिय-मनुष्यदेवानधिकृत्य चेदितव्यः क्षायिकसम्यग्दृष्टेः, पूर्वबद्धायुष्कस्य एतेषु सर्वेष्वपि तस्य सम्भवात् / अविरतसम्यग्दृष्टिश्चापर्याप्तकेषु मध्ये नोत्पद्यते, ततोऽपर्याप्तकोदयवर्जाः शेषभङ्गाः सर्वेऽपि वेदितव्याः। ते च पञ्चविंशतिः-तत्र तिर्यक्पश्चेन्द्रियानधिकृत्याष्टी, मनुष्यानधिकृत्याष्टी, देवानप्यधिकृत्याष्टौ, नैरयिकानधिकृत्यैकः / पञ्चविंशति-सप्तविंशत्युदयौ देव-नैरयिकान् वैक्रियतिर्यङ्मनुष्यांश्चाधिकृत्यावसेयौ / तत्र नैरयिकः क्षायिकसम्यग्दृष्टिर्वेदकसम्यग्दृष्टिा, देवस्त्रिविधसम्यग्दृष्टिरपि / उक्तं च चूर्णी पैणवीस-सत्तवीसोदया देव-नेरइए विउब्धियतिरिय-मणुए य पडुच्च, नेरइगो खइग-वेयगसम्मद्दिट्ठी, देवो तिविहसम्मपिट्ठी वि / ( ) इति / भङ्गा अत्र सर्वेऽप्यात्मीया आत्मीया द्रष्टव्याः / षड्विंशत्युदयः तिर्यङ्-मनुष्याणां क्षायिक-वेदकसम्यग्दृष्टीनाम् / औपशमिकसम्यग्दृष्टिश्च तिर्यङ्-मनुष्येषु मध्ये नोत्पद्यत इति त्रिविधसम्यग्दृष्टीनामिति नोक्तम् / वेदकसम्यग्दृष्टिता च तिरश्चो द्वाविंशतिसत्कर्मणो वेदितव्या / अष्टाविंशतिएकोनत्रिंशदुदयौ नैरयिक-तिर्यङ्-मनुष्य-देवानाम् / त्रिंशदुदयस्तिर्यक्पञ्चेन्द्रिय-मनुष्य-देवानाम् / एकत्रिंशदुदयस्तिर्यक्पश्चेन्द्रियाणाम् / भङ्गा आत्मीया आत्मीयाः सर्वेऽपि द्रष्टव्याः / चत्वारि सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिश्च / तत्र योऽप्रमत्तसंयतोऽपूर्वकरणो वा तीर्थकरा-ऽऽहारकसहितामेकत्रिंशतं बद्धा पश्चादविरतसम्यग्दृष्टिदेवो जातस्तमधिकृत्य त्रिनवतिः / यस्त्वाहारकं बद्धा परिणामपरावर्तनेन मिथ्यात्वमुपगम्य चतसृणां गतीनामन्यतमस्यां गतावुत्पन्नस्तस्य तत्र तत्र गतौ भूयोऽपि सम्यक्त्वं प्रतिपन्नस्य द्विनवतिः / देव-मनुष्येषु मध्ये मिथ्यात्वमप्रतिपन्नस्यापि द्विनवतिः प्राप्यते / एकोननवतिर्देवनैरयिकमनुष्याणामविरतसम्यग्दृष्टीनाम् , ते हि त्रयोऽपि तीर्थकरनाम समर्जयन्ति। तिर्यक्षु तीर्थकरनामसत्कर्मा नोत्पद्यत इति तिर्यङ् न गृहीतः। अष्टाशीतिश्चतुर्गतिकानामविरतसम्यग्दृष्टीनाम् / 1 म० छा० षा भ॥ 2 पञ्चविंशति-सप्तविंशत्युदयौ देवनैरयिकान् वैक्रियतिङ्-मनुष्यांश्च प्रतीत्य, नैरयिकः क्षायिक-वेदकसम्यग्दृष्टिः, देवत्रिविधसम्यग्दृष्टिरपि // 3 म० मुद्रि० त्वमनुग //