________________ 49-50] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 231 सम्प्रति संवेध उच्यते--तत्राविरतसम्यग्दृष्टेरष्टाविंशतिबन्धकस्य अष्टावप्युदयस्थानानि, तानि तिर्यङ्-मनुष्यानधिकृत्य। तत्रापि पञ्चविंशति-सप्तविंशत्युदयौ वैक्रियतिर्यङ्-मनुष्यानधिकृत्य। एकैकस्मिन्नुदयस्थाने, द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिरष्टाशीतिश्च / एकोनत्रिंशद्, द्विधादेवगतिप्रायोग्या मनुष्यगतिप्रायोग्या च / तत्र देवगतिप्रायोग्या तीर्थकरनामसहिता, तां च मनुष्या एव बध्नन्ति / तेषां चोदयस्थानानि सप्त, तद्यथा-एकविंशतिः पञ्चविंशतिः षट्विशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् / मनुष्याणामेकत्रिंशन्न सम्भवति / एकैकस्मिन्नुदयस्थाने द्वे द्वे सत्तास्थाने, तद्यथा-त्रिनवतिः एकोननवतिश्च / मनुष्यगतिप्रायोग्यां चैकोनत्रिंशतं बध्नन्ति देव-नैरयिकाः / तत्र नैरयिकाणामुदयस्थानानि पञ्च, तद्यथा-- एकविंशतिः पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् / देवानां पञ्च तावदेतान्येव, षष्ठं तु त्रिंशत् , सा चोद्योतवेदकानां देवानामवगन्तव्या / एकैकस्मिन्नुदयस्थाने द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिरष्टाशीतिश्च / मनुष्यगतिप्रायोग्यां त्रिंशतमविरतसम्यग्दृष्टयो देवा नैरयिकाश्च बध्नन्ति / तत्र देवानामुदयस्थानानि षट् तान्येव / तेषु उदयस्थानेषु प्रत्येकं द्वे द्वे सत्तास्थाने-त्रिनवतिरेकोननवतिश्च / नैरयिकाणामुदयस्थानानि पञ्च, तेषु प्रत्येकं सत्तास्थानमेकोननवतिरेव, तीर्थकरा-ऽऽहारकसत्कर्मणो नरकेषूत्पादाभावात् / तदेवं सामान्येनैकविंशत्यादिषु त्रिंशत्पर्यन्तेषूदयस्थानेषु सत्तास्थानानि प्रत्येकं चत्वारि चत्वारि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिश्च / एकत्रिंशदुदये द्वे-द्विनवतिरष्टाशीतिश्च / सर्वसङ्ख्यया त्रिंशत् / सम्प्रति देशविरतस्य बन्धादिस्थानान्युच्यन्ते-“दुग छ चउ" ति देशविरतस्य द्वे बन्धस्थाने, तद्यथा-अष्टाविंशतिरेकोनत्रिंशत् / तत्राष्टाविंशतिर्मनुष्यस्य तिर्यक्पञ्चेन्द्रियस्य वा देशविरतस्य देवगतिप्रायोग्या, तत्राष्टौ भङ्गाः / सैव तीर्थकरसहिता एकोनत्रिंशत् , सा च मनुष्यस्यैव, तिरश्चस्तीर्थकरसत्कर्म-बन्धाभावात्, अत्राप्यष्टौ भङ्गाः / षड् उदयस्थानानि, तद्यथा-पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद एकत्रिंशत् / तत्राद्यानि चत्वारि वैक्रियतिर्यङ्-मनुष्याणाम् / अत्र मनुष्याणामेकैक एव भङ्गः, तिरश्चामाद्ययोरेकैकोऽन्तिमयोस्तु द्वौ द्वौ, सर्वपदानां प्रशस्तत्वात् / त्रिंशत् स्वभावस्थानां . निर्यङ्-मनुष्याणाम् , प्रत्येकमत्र भङ्गकानां चतुश्चत्वारिंशं शतम् 144, तच्च षभिः संस्थानैः षभिः संहननैः सुस्वर-दुःस्वराभ्यां प्रशस्ताऽप्रशस्तविहायोगतिभ्यां च जायते। दुर्भगा-ऽनादेया-ऽयशःकीर्तिनामुदयो गुणप्रत्ययादेव न भवतीति तदाश्रिता विकल्पा न प्राप्यन्ते / वैक्रियतिरश्चां एको भङ्गः-एकत्रिंशत् / तिरश्चामत्रापि त एव भङ्गाः 144 / सर्वसङ्ख्यया चत्वारि शतानि त्रिचत्वारिंशदधिकानि 443 / 1 सं० सं० 1 सं० 2 त० °कानामव // 2 सं० 1 सं० 2 त० म० छा० °स्मिन् द्वे द्वे // .3 सं०सं०१ सं०२ त० म० षु प्रत्ये° // 4 सत्कर्म च बन्धश्च सत्कर्म-बन्धौ, तीर्थकरस्य सत्कर्मबन्धौ तीर्थ फरसत्कर्म-बन्धौ, तयोरभावस्तीर्थकरसत्कर्म-बन्धाभावस्तस्मादिति विग्रहः // 5 छा० मुद्रिक स्थानामपि तिर्य // 6 सं० सं० २न्ते / वैक्रियतिर्यग्मनुष्याणां प्रत्येकमेकैको भ / छा० न्ते / तिर्यग्मनुष्याणां प्रत्येकमेकैको भ° // 7 सं० छा० मुद्रि० काः 144 / चत्वारि सत्ता //