________________ 232 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [ गाथाः चत्वारि सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिश्च / तत्र योऽप्रमत्तोऽपूर्वकरणो वा तीर्थकरा-ऽऽहारकं बवा परिणामहासेन देशविरतो जातः तस्य त्रिनवतिः / शेषाणां भावनाऽविरतसम्यग्दृष्टेरिव कर्तव्या। ___ सम्प्रति संवेध उच्यते तत्र मनुष्यस्य देशविरतस्याष्टाविंशतिबन्धकस्य पञ्च उदयस्थानानि, तद्यथा--पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् / एतेषु च प्रत्येक द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिरष्टाशीतिश्च / एवं तिरश्चोऽपि, नवरं तस्यैकत्रिंशदुदयोऽपि वक्तव्यः, तत्रापि चैते एव द्वे सत्तास्थाने / एकोनत्रिंशद्वन्धो मनुष्यस्यैव देशविरतस्य, तस्योदयस्थानान्यनन्तरोक्तान्येव पञ्च, तेषु प्रत्येकं द्वे द्वे सत्तास्थाने, तद्यथा-त्रिनवतिरेकोन- . नवतिश्च / तदेवं देशविरतस्य पञ्चविंशत्यादिषु त्रिंशत्पर्यन्तेषु चत्वारि चत्वारि सत्तास्थानानि / एकत्रिंशदुदये द्वे सत्तास्थाने / सर्वसङ्ख्यया द्वाविंशतिः 22 / सम्प्रति प्रमत्तसंयतस्य बन्धादिस्थानान्युच्यन्ते-"दुग पण चउ" ति प्रमत्तसंयतस्य द्वे बन्धस्थाने, तद्यथा-अष्टाविंशतिरेकोनत्रिंशत् / एते च देशविरतस्येव भावनीये / " पञ्चोदयस्थानानि, तद्यथा-पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् / एतानि सर्वाण्यप्याहारकसंयतस्य वैक्रियसंयतस्य वा वेदितव्यानि / त्रिंशत् स्वभावस्थसंयतस्यापि / तत्र वैक्रियसंयतानामाहारकसंयतानां च पृथक् पृथक् .पञ्चविंशति-सप्तविंशत्युदययोः प्रत्येकमेकैको भङ्गः 4, अष्टाविंशतावेकोनत्रिंशति च द्वौ द्वौ 8, त्रिंशति चैकैकः 2 / सर्वसत्यया चतुर्दश 14 / त्रिंशदुदयः स्वभावस्थस्यापिं प्राप्यते / तत्र चतुश्चत्वारिंशं शतं भङ्गानाम् 144, तच्च देशविरतस्येव भावनीयम् / सर्वसङ्ख्ययाऽष्टपञ्चाशदधिकं शतम् 158 / चत्वारि सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिश्च / सम्प्रति संवेध उच्यते-अष्टाविंशतिबन्धकस्य पञ्चस्वप्युदयस्थानेषु प्रत्येकं द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिरष्टाशीतिश्च / तत्राहारकसंयतस्य द्विनवतिरेव, आहारकसत्कर्मा याहारकशरीरमुत्पादयंतीति तस्य द्विनवतिरेव / वैक्रियसंयतस्य पुनढे अपि / तीर्थकरनामसत्कर्मा चाष्टाविंशतिं न बध्नातीति त्रिनवतिरेकोनवतिश्च न प्राप्यते / एकोनत्रिंशद्वन्धकस्य पञ्चस्वप्युदयस्थानेषु प्रत्येकं द्वे द्वे सत्तास्थाने, तद्यथा-त्रिनवतिरेकोननवतिश्च / तत्राहारकसंयतस्य त्रिनवतिरेव,तस्यैकोनत्रिंशद्वन्धकस्य नियमतस्तीर्थकरा-ऽऽहारकसद्भावात् / वैक्रियसंयतस्य पुनझै अपि / तदेवं प्रमत्तसंयतस्य सर्वेष्वप्युदयस्थानेषु प्रत्येकं चत्वारि चत्वारि सत्तास्थानानि प्राप्यन्त इति / सर्वसङ्ख्यया विंशतिः 20 / इदानीमप्रमत्तसंयतस्य बन्धादीन्युच्यन्ते-"चउ दुग चउ" त्ति अप्रमत्तसंयतस्य चत्वारि बन्धस्थानानि, तद्यथा-अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् / तत्राये द्वे प्रमत्तसंय 1 सं० मुद्रि० यति ततस्तस्य // 2 सं० अपि सत्तास्थाने / ती //