________________ 49-50] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 229 णापर्याप्तः सासादनो देवगतिप्रायोग्यं बध्नाति, ततः शेषा उदया न सम्भवन्ति / तंत्र मनुष्यमधिकृत्य त्रिंशदुदये द्वे अपि सत्तास्थाने / तिर्यक्पञ्चेन्द्रियसासादनानधिकृत्याष्टाशीतिरेव, यतो द्विनवतिरुपशमश्रेणीतः प्रतिपततो लभ्यते, न च तिरश्चामुपशमश्रेणिसम्भवः / एकत्रिंशदुदयेऽप्यष्टाशीतिरेव, यत एकत्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियाणाम् / न च तिरश्चां द्विनवतिः सम्भवति, प्रागुक्तयुक्तेः / एकोनत्रिंशतं तिर्यक्पञ्चेन्द्रिय-मनुष्यप्रायोग्यां बनतः सासादनस्य सप्ताप्युदयस्थानानि / तत्र एकेन्द्रिय-विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुष्य-देव-नैरयिकाणां सासादनानां स्वीयस्वीयोदयस्थानेषु वर्तमानानामेकमेव सत्तास्थानम्-अष्टाशीतिः / नवरं मनुष्यस्य त्रिंशदुदये वर्तमानस्योपशमश्रेणीतः प्रतिपततः सासादनस्य द्विनवतिः / एवं त्रिंशद्वन्धकस्यापि वक्तव्यम् / सर्वाण्यप्युदयस्थानान्यधिकृत्य सामान्येन सर्वसङ्ख्यया सासादनस्याष्टौ सत्तास्थानानि / सम्प्रति सम्यग्मिथ्यादृष्टेर्बन्ध-उदय-सत्तास्थानान्यभिधीयन्ते- "दुग तिग दुगं"ति द्वे बन्धस्थाने, तद्यथा-अष्टाविंशतिः एकोनत्रिंशत् / तत्र तिर्यग्-मनुष्याणां सम्यग्मिथ्यादृष्टीनां देवगतिप्रायोग्यमेव बन्धमायाति, ततस्तेषामष्टाविंशतिः, तत्र भङ्गा अष्टौ / एकोनत्रिंशद् मनुष्यगतिप्रायोग्यं बध्नतां देव-नैरयिकाणाम्, अत्राप्यष्टौ भङ्गाः। ते चोभयत्रापि स्थिरा-ऽस्थिरशुभाऽशुभ-यशःकीर्ति-अयशःकीर्तिपदैरवसेयाः / शेषास्तु परावर्तमानप्रकृतयः शुभा एव सम्यग्मिथ्यादृष्टीनां बन्धमायान्ति, ततः शेषभङ्गा न प्राप्यन्ते / .' त्रीण्युदयस्थानानि, तद्यथा-एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् / तत्रैकोनविंशति देवानधिकृत्याष्टौ भनाः, नैरयिकानधिकृत्यैकः, सर्वसङ्ख्यया नव / त्रिंशति तिर्यक्पञ्चेन्द्रियानधिकृत्यै सर्वपर्याप्तिपर्याप्तयोग्यानि द्विपञ्चाशदधिकान्येकादश शतानि 1152, मनुष्यानधिकृत्य एकादश शतानि द्विपञ्चाशदधिकानि 1152, सर्वसङ्ख्यया त्रयोविंशतिशतानि चतुरधिकानि 2304 / एकत्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियानधिकृत्य, तत्र भङ्गा द्विपञ्चाशदधिकान्येकादश शतानि 1152 / सर्वोदयस्थानभङ्गसङ्ख्या चतुस्त्रिंशच्छतानि पञ्चषश्यधिकानि 3465 / / द्वे सत्तास्थाने, तद्यथा-द्विनवतिः अष्टाशीतिश्च / सम्प्रति संवेध उच्यते-सम्यग्मिथ्यादृष्टेरष्टाविंशतिबन्धकस्य द्वे उदयस्थाने, तद्यथात्रिंशद् एकत्रिंशत् / एकैकस्मिन्नुदयस्थाने द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिरष्टाशीतिश्च / एकोनत्रिंशद्वन्धकस्य एकमुदयस्थानम्-एकोनत्रिंशत् / अत्रापि ते एव द्वे सत्तास्थाने / तदेवमेकैकस्मिन्नुदयस्थाने द्वे द्वे सत्तास्थाने इति सर्वसङ्ख्यया षट् / 1 छा० मुद्रि० अत्र मनुष्यानधि // 2 सं० 1 त० 'त्य भगा द्विपश्चा / म मुद्रि. त्य अष्टाविंशत्यधिकानि सप्तदश शतानि 1728, मनुष्यानधिकृत्य एकादश शतानि द्विपञ्चाशदधिकानि 1152, सर्वसंख्यया अष्टाविंशतिशतानि अशीत्यधिकानि 2880 / एकत्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियानधिकृत्य, तत्र मला द्विपञ्चाशदधिकान्येकादश शतानि 1152 / सर्वोदयस्थानभङ्गसंख्या चत्वारिंशच्छतानि एकचत्वारिंशदधिकानि 4041 / द्वे सत्तास्थाने // 3 सं० 1 तात्य भङ्गा एका // . . .