Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

Previous | Next

Page 291
________________ 226 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [ गाथाः नत्रिंशतं विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रियप्रायोग्यां मनुष्यगतिप्रयोग्यां च बनतो मिथ्यादृष्टेः सामान्येन नवापि प्राक्तनानि उदयस्थानानि षट् च सत्तास्थानानि, तद्यथा-द्विनवतिः एकोननवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिः / तत्रैकविंशत्युदये सर्वाण्यपीमानि प्राप्यन्ते तत्राप्येकोननवतिबद्धतीर्थकरनामानं मिथ्यात्वं गतं नैरयिकमधिकृत्यावसेया, द्विनवतिरष्टाशीतिश्च देव-नैरयिक-मनुज-विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-एकेन्द्रियानधिकृत्य, षडशीतिरशीतिश्च विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुज-एकेन्द्रियानधिकृत्य, अष्टसप्ततिरेकेन्द्रिय-विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रियानधिकृत्य / चतुर्विंशत्युदये एकोननवतिवर्जानि शेषाणि पञ्च सत्तास्थानानि, तानि चैकेन्द्रियानेवाधिकृत्य वेदितव्यानि, अन्यत्र चतुर्विंशत्युदयस्याभावात् / पञ्चविंशत्युदये षडपि सत्तास्थानानि, तानि यथैकविंशत्युदये भावितानि तथैव भावनीयानि / षड्रिंशत्युदये एकोननवतिवर्जानि शेषाणि पञ्च सत्तास्थानानि, तानि प्रागिव भावनीयानि; एकोननवतिस्तु न लभ्यते, यतो मिथ्यादृष्टेः सत .एकोननवतिर्नरकेषूत्पद्यमानस्य नैरयिकस्य प्राप्यते न शेषस्य, न च नैरयिकस्य षड्रिंशत्युदयः सम्भवति / सप्तविंशत्युदयेऽष्टसप्ततिवर्जानि शेषाणि पश्च सत्तास्थानितत्रैकोननवतिः प्रागुक्तस्वरूपं नैरयिकमधिकृत्य, द्विनवतिरष्टाशीतिश्च देव-नैरयिक-मनुज-विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-एकेन्द्रियानधिकृत्य, षडशीतिरशीतिश्च एकेन्द्रिय-विकलेन्द्रिय-तिर्यक्पश्चेन्द्रिय-मनुष्यानधिकृत्य / अष्टसप्ततिस्तु न सम्भवति, यतः सप्तविंशत्युदयस्तेजो-वायुवर्जानामेकेन्द्रियाणामातप-उद्योतान्यतरसहितानां भवति, नारकादीनां वा, न च तेषामष्टसप्ततिः, तेषामवश्यं मनुष्यद्विकबन्धसम्भवात / एतान्येव पञ्च सत्तास्थानान्यष्टाविंशत्युदयेऽपि-तत्रैकोननवतिर्द्विनवतिरष्टाशीतिश्च प्रागिव भावनीया, षडशीतिरशीतिश्च विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रियमनुष्यानधिकृत्य वेदितव्या / एवमेकोनत्रिंशदुदयेऽप्येतान्येव पञ्च सत्तास्थानानि भावनीयानि। त्रिंशदुदये चत्वारि, तद्यथा-द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः / एतानि विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुष्यानधिकृत्य वेदितव्यानि / एकोननवतिस्तु न प्राप्यते, यतः सा वेदकसम्यग्दृष्टेः सतो बद्धतीर्थकरनाम्नो मिथ्यात्वं गतस्य नैरयिकस्य प्राप्यते, न च नैरयिकस्य त्रिंशदुदयोऽस्ति / एकत्रिंशदुदयेऽप्येतान्येव चत्वारि, तानि च विकलेन्द्रिय-तिर्यक्पश्चेन्द्रियानधिकृत्य द्रष्टव्यानि / सर्वसङ्ख्यया मिथ्यादृष्टेरेकोनत्रिंशतं बघ्नतः पञ्चचत्वारिंशत् सत्तास्थानानि / या तु देवगतिप्रायोग्या एकोनत्रिंशत् सा मिथ्यादृष्टेर्न बन्धमायाति, कारणं प्रागेवोक्तम् / मनुष्य-देवगतिप्रायोग्यवर्जा शेषां त्रिंशतं विकलेन्द्रिय-तिर्यक्पश्चेन्द्रियप्रायोग्यां बनतः सामान्येन प्रागुक्तानि नवोदयस्थानानि एकोननवतिवर्जानि च पञ्च पञ्च सत्तास्थानानि / एकोननवतिस्तु न सम्भवति, एकोननवतिसत्कर्मणस्तिर्यग्गतिप्रायोग्यबन्धारम्भासम्भवात् / तानि च पञ्च पञ्च सत्तास्थानानि एकविंशति-चतुर्विंशति-पञ्चविंशति-षड्विंशत्युदयेषु प्रागिव भावनीयानि / सप्तविंशति-अष्टाविंशति-एकोनत्रिंशत्-त्रिंशद्-एकत्रिंशद्रूपेषु च पञ्चसु उदयस्थानेषु अष्टसप्ततिवर्जानि शेषाणि चत्वारि चत्वारिं भावनीयानि, अष्टसप्ततिप्रतिषेधे कारणं प्रागुक्तमनुसरणीयम् / 1 छा० मुद्रि० 'त्य वेदितव्या, अष्ट // 2 इत ऊर्ध्वम्-छा० म० ग्रन्थाप्रम् 2630 // 3 सं० सं० १सं० 2 त० म० छा० सा मिथ्यादृष्टेः स // 4 म० छा० मुद्रि० °षाणि प्रत्येकं चत्वा //

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334