Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 288
________________ 48-50 चन्द्रषिमहत्तरकृतं सप्ततिकाप्रकरणम् / 223 तदेवं चिन्तितं गुणस्थानकेषु मोहनीयम् / सम्प्रति नाम चिचिन्तविषुराहछण्णव छकं तिग सत्त दुगं दुग तिग दुगं तिगट चऊ / दुग छ चउ दुग पण चउ, चउ दुग चउ पणग एग चऊ // 49 // एगेगमट्ठ एगेगमट्ठ छउमस्थकेवलिजिणाणं / एग चऊ एग चऊ, अट्ठ चउ दु छसमुदयंसा // 50 // मिथ्यादृष्टौ नाम्नः षड् बन्धस्थानानि, तद्यथा-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् / तत्रापर्याप्तकैकेन्द्रियप्रायोग्यं बनतस्त्रयोविंशतिः, तस्यां च बध्यमानायां यादर-सूक्ष्म-प्रत्येक साधारणैर्भङ्गाश्चत्वारः / पर्याप्तैकेन्द्रियप्रायोग्यमपर्याप्तद्वि-त्रि-चतुरिन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुष्यप्रायोग्यं च बध्नतः पञ्चविंशतिः। तत्र पर्याप्तैकेन्द्रियप्रायोग्यायां पञ्चविंशतौ बध्यमानायां भङ्गा विंशतिः, अपर्याप्तद्वि-त्रि-चतुरिन्द्रिय-तिर्यक्पश्चेन्द्रिय-मनुष्यप्रायोग्यायां तु बध्यमानायां प्रत्येकमेकैको भङ्ग इति, सर्वसङ्ख्यया पञ्चविंशतिः / पर्याप्सैकेन्द्रियप्रायोग्यं बध्नतः षड्विंशतिः, तस्यां च बध्यमानायां भङ्गाः षोडश / देवगतिप्रायोग्यं नरकगतिप्रायोग्यं वा बनतोऽष्टाविंशतिः / तत्र देवगतिप्रायोग्यायामष्टाविंशतौ अष्टौ भङ्गाः, नरकगतिप्रायोग्यायां त्वेक इति, सर्पसङ्ख्यया नव / पर्याप्तद्वि-त्रि-चतुरिन्द्रिय-तिर्यक्पञ्चेन्द्रिय-ममुष्यप्रायोग्यं बनतामेकोनत्रिंशत् / तत्र पर्याप्तद्वि-त्रि-चतुरिन्द्रियप्रायोग्यायामेकोनत्रिंशति बध्यमामायां प्रत्येकमष्टावष्टौ भङ्गाः, तिर्यक्पञ्चेन्द्रियप्रायोग्यायां षट्चत्वारिंशच्छतान्यष्टाधिकानि 4608, मनुष्यगतिप्रायोग्यायामप्येतावन्त एव भङ्गाः 4608,' सर्वसङ्ख्यया चत्वारिंशदधिकानि द्विनवतिशतानि 9240 / या तु देवगतिप्रायोग्या तीर्थकरनामसहिता एकोनत्रिंशत् सा मिथ्यादृष्टर्न बन्धमायाति, तीर्थकरनाम्नः सम्यक्त्वप्रत्ययत्वाद् मिथ्यादृष्टश्च तदभावात् / पर्याप्तद्वि-त्रिचतुरिन्द्रिय-तिर्यक्पञ्चेन्द्रियप्रायोग्यं बध्नतस्त्रिंशत् / तत्र पर्याप्तद्वि-त्रि-चतुरिन्द्रियप्रायोग्यायां त्रिंशति बध्यमानायां प्रत्येकमष्टावष्टौ भङ्गाः, तिर्यक्पञ्चेन्द्रियप्रायोग्यायां त्वष्टाधिकानि षट्चत्वारिंशच्छतानि 4608, सर्वसङ्ख्यया द्वात्रिंशदुत्तराणि षट्चत्वारिंशच्छतानि 4632 / या च मनुष्यगतिप्रायोग्या तीर्थकरनामसहिता त्रिंशत् , या च देवगतिप्रायोग्या आहारकद्विकसहिता, ते उभे अपि मिथ्यादृष्टेन बन्धमायातः, तीर्थकरनाम्नः सम्यक्त्वप्रत्ययत्वात् , आहारकनाम्नस्तु संयमप्रत्ययत्वात / उक्तं च सम्मत्तगुणनिमित्तं, तित्थयरं संजमेण आहारं / ( ) इति / त्रयोविंशत्यादिषु च बन्धस्थानेषु यथासङ्ग्यं भङ्गसङ्ग्यानिरूपणार्थमियमन्तर्भाष्यगाथा चउ पणबीसा सोलस, नव चत्ताला सया य बागउया / बत्तीसुत्तरछायालसया मिच्छस्स बन्धविही // 8 // सुगमा // 1 इत ऊर्ध्वम्-छा० ग्रन्थाप्रम्-२५३३ // 2 सम्यक्त्वगुणनिमितं तीर्थकर संयमेन आहारम् // 3 217 पृष्ठमता 9 संख्याका टिप्पणी अवलोकनीया //

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334