Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

Previous | Next

Page 277
________________ 212 मलयमिरिमहर्षिविनिर्गितविवृत्युपेतं [ गाभा चतुर्विंशतिः / तस्मिन्नेव सप्तके भये वा जुगुप्सायां वा अनन्तानुबन्धिनि वा प्रक्षिप्ते अष्टानासुदयः; अत्र भमादौ प्रत्येकमेकैका चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विंशतयः / तथा तस्मिन्नेक सप्तके भय-जुगुप्सयोस्थवा भया-ऽनन्तानुबन्धिनोर्यद्वा जुगुप्सा-ऽनन्तानुबन्धिनोः प्रक्षिप्तयोर्न वानामुदयः; अत्राप्येकैकस्मिन् विकल्पे भङ्गानां चतुर्विंशतिः प्राप्यत इति तिलश्चतुर्विशतयः / तथा तस्मिन्नेव सप्लके भय-जुगुप्सा-ऽनन्तानुबन्धिषु युगपत् प्रक्षिप्तेषु दशानामुदयः; अत्रैका भङ्गकानां चतुर्विशतिः / सर्वसङ्ख्यया मिथ्यादृष्टावष्टौ चतुर्विशतयः। सासादने मिश्रे च सप्तादीनि 'नवोत्कर्षाणि' नवपर्यन्तानि त्रीणि त्रीण्युदयस्थानानि, तद्यथा-सप्त अष्टौ नव / तत्र सासादने अनन्तानुबन्धि-अप्रत्याख्यान-प्रत्याख्यानावरण-संज्वलनक्रोधादीनामन्यतमे चत्वारः क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगलयोरन्यतरद् युगलमित्येतासां सप्तप्रकृतीनामुदयो ध्रुवः; अत्र प्रागिवैका भङ्गकानां चतुर्विशतिः / ततो भये वा जुगुप्सायां वा प्रक्षिप्तायां अष्टोदयः; अत्र द्वे चतुर्दिशती भङ्गकानाम् / भय-जुगुप्सयोस्तु प्रक्षिप्तयोर्नवोदयः; अत्रैका भङ्गकानां चतुर्विशतिः / सर्वसङ्ख्यया सासादने चतस्रश्चतुर्विशतयः / मिश्रेऽनन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगलयोरन्यतरद् युगलं, मिश्रमिति सप्तानां प्रकृतीनामुदयो ध्रुवः; अत्रैका चतुर्विशतिर्भङ्गकानाम् / ततो भये वा जुगुप्सायां वा प्रक्षिप्तायामष्टोदयः; अत्र द्वे भड़कानां चतुर्विशती / भय-जुगुप्सयोस्तु युगपत् प्रक्षिप्तयोर्नवानामुदयः; अत्रैका चतुर्विशतिर्भङ्गकानाम् / सर्वसङ्ख्यया मिश्रेऽपि चतस्रश्चतुर्विंशतयः / "छाई कब उ अविरए” त्ति 'अविरते' अविरतसम्यग्दृष्टौ षडादीनि नवपर्यन्तानि चत्वार्युदयस्थानानि भवन्ति, तद्यथा—षट् सप्त अष्टौ नव / तत्रानन्तानुबन्धिवस्त्रियोऽन्यतमे क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगलयोरन्यतरद् युगलमिति षण्णां. प्रकृतीनामुदयोऽविरतस्य क्षायिकसम्यग्दृष्टेरौपशमिकसम्यग्दृष्टेर्वा ध्रुवः; अत्रैका चतुर्विशतिर्भङ्गकानाम् / ततो भये वा जुगुप्सायां वा वेदकसम्यक्त्वे वा प्रक्षिप्ते सप्तानामुदयः; अत्र तिसश्चतुर्विशतयः / तथा तस्मिन्नेव षट्के झ्य-जुगुप्सयोर्भय-वेदकसम्यक्त्वयोर्जुगुप्सा-वेदकसम्यक्त्वयोर्वा युगपत् प्रक्षिप्तयोरष्टानामुदयः; अत्रापि तिस्रश्चतुर्विंशतयः / तथा तस्मिन्नेव षट्के भय-जुगुप्सा-वेदकसम्यक्त्वेषु युगपत् प्रक्षिप्तेषु नवानामुदयः; अत्रैका चतुर्विशतिर्भङ्गकानाम् / सर्वसङ्ख्ययाऽविरतसम्यग्दृष्टावष्टौ चतुर्विशतयः / "देसे पंचाइ अद्वे व" ति 'देशे' देशविरतं पञ्चादीनि अष्ठपर्यन्तानि चत्वार्युदयस्थानानि, तद्यथा-पञ्च षट् सप्त अष्टौ / तत्र प्रत्याख्यानावरण-संज्वलनक्रोधादीनामन्यतमौ द्वौ क्रोधादिकौ, त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगलयोरन्यतरद् युगलमिति पञ्चानां प्रकृतीनामुदयो देशविरतस्य क्षायिकसम्यग्दृष्टेरौपशमिकसम्यग्दृष्टेर्वा भवति; अत्रैका भङ्गकानां चतुर्विंशतिः / ततो भये वा जुगुप्सायां वा वेदकसम्यक्त्वे वा प्रक्षिप्ते षण्णामुदयः; अत्र तिसश्चतुर्कियतयः / तथा तस्मिन्नेव पञ्चके भय-जुगुप्सयोर्यद्वा जुगुप्सा-केदकसम्यक्त्वयोरथवा भय-वेदकसम्वत्क 1 सं० 2 यदि वा जु• //

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334