Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text
________________ 213 53-45] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / गोर्युगपत् प्रक्षिप्तयोः सप्तानामुदयः; अत्रापि तिसश्चतुर्विंशतयः / तथा तस्मिन्येव पञ्चके भाषाजुगुप्सा-वेदकसम्यक्त्वेषु युगपत् प्रक्षिप्तेष्वष्टानामुदयः; अत्रैका चतुर्विंशतिर्भङ्गकानाम् / सर्वसहाया देशविस्तेऽष्ठौ चतुर्विशतयः // 43 // .. तथा 'विरते क्षायोपशमिके' प्रमत्ते-ऽप्रमत्ते चेत्यर्थः, विरतो हि श्रेणेरधस्ताद्वर्तमानः क्षायोपशमिको विरत इति व्यवह्रियते / ततश्च प्रयत्तेऽप्रमत्ते च प्रत्येकं चतुरादीनि सप्तपर्यन्तानि चत्वारि चत्वार्युदयस्थानानि, तद्यथा-चतस्रः पञ्च षट् सप्त / तत्र क्षायिकसम्यग्दृष्टेरौपशमिकसम्यग्दृष्टेर्वा प्रमत्तस्याप्रमत्तस्य च प्रत्येकं संज्वलनक्रोधादीनामन्यतम एकः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगलयोरन्यतस्द् युगलमिति चतसृणां प्रकृतीनामुदयः; अत्रैका चतुर्विशतिर्भङ्गकानाम् / ततो भये वा जुगुप्सायां वा वेदकसम्यक्त्वे वा प्रक्षिप्ते पञ्चानामुदयः अत्र तिस्रश्चतुर्विंशतयो भङ्गकानाम् / तथा तस्मिन्नेव चतुष्के भय-जुगुप्सयोर्यदि वा जुगुप्सावेदकसम्यक्त्वयोरभवा भय-वेदकसम्यक्त्वयोर्युगपत् प्रक्षिप्तयोः षण्णामुदयः; अत्रापि तिस्रश्चइर्विशतयः / तथा तस्मिन्नेव चतुष्के भय-जुगुप्सा-वेदकसम्यक्त्वेषु युगपत् प्रक्षिप्तेषु सप्तानामृदयः; अत्रैका चतुर्विशतिर्भङ्गकानाम् / सर्वसङ्ख्यया प्रमत्तस्याप्रमत्तस्य च प्रत्येकमष्टावष्टौ चतुर्विशतयः। . "छञ्चऽपुवम्मि" अपूर्वकरणे चतुरादीनि षट्पर्यन्तानि त्रीण्युदयस्थानानि, तकथाचतमः पञ्च षट् / तत्र संज्वलनक्रोधादीनामन्यतम एकः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगलयोरन्यतरद् युगलमित्येतासां चतसृणां प्रकृतीनामुदयोऽपूर्वकरणे ध्रुवः; अत्रैका चतुर्विशतिर्भङ्गकानाम् / ततो भये वा जुगुप्सायां वा प्रक्षिप्तायां पञ्चानामुदयः; अत्र द्वे चतुविशती भनकानाम् / भय-जुगुप्सयोस्तु युगपत् प्रक्षिप्तयोः षण्णामुदयः; अत्रैका भङ्गकानां चतुर्विशतिः / सर्वसङ्ख्ययाऽपूर्वकरणे चतस्रश्चतुर्विशतयः / अनिवृत्तिबादरे पुनरेको द्वौ वा 'उदयांशौ' उदयभेदौ उदयस्थाने इत्यर्थः / तत्र चतुर्णा संज्वलनानामन्यतम एकः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेद इति द्विकोदयः, अत्र त्रिभिदैश्चतुर्भिः संज्वलनैर्द्वादश भेदाः। ततो वेदोदयव्यवच्छेदे एकोदयः, स च चतुर्विधबन्धे त्रिविधबन्धे द्विविधबन्धे एकविधबन्धे च प्राप्यते / तत्र यद्यपि प्राक् चतुर्विधबन्धे चत्वारः त्रिविधबन्धे त्रयः द्विविधबन्धे द्वौ एकविधबन्धे एक इति दश भनाः प्रतिपादितास्तथाप्यत्र सामान्येन चतुः-त्रि-द्वि-एकंबन्धापेक्षया चत्वार एव भङ्गा विक्क्ष्यन्ते // 44 // “एगं सुहुमसरागो वेएइ" ति सूक्ष्मसम्परायो बन्धाभावे एकं किट्टीकृतसंज्वलनलोभं वेदयत्ते, ततोऽत्रैक एव भङ्गः / एवमेकोदयभङ्गाः सर्वसङ्ख्यया पश्च / तथा 'शेषाः' उपरितना उपशान्तमोहादयः सर्वेऽप्यवेदकाः। ____ भंगाणं च पमाणं" इत्यादि / अत्र मिथ्यादृष्ट्यादिषु गुणस्थानकेषु उदयस्थानभङ्गानां 1 मुद्रि० छा० °नानि भवन्ति, तद्य° //

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334