Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 285
________________ 220 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः पयोगैर्गुण्यते जातान्यष्टौ शतानि चतुःषष्यधिकानि 864 / प्रमत्तस्य चतुश्चत्वारिंशत् , अप्रमत्तस्य / चतुश्चत्वारिंशत् , अपूर्वकरणस्य विंशतिः, सर्वसङ्ख्यया अष्टाधिकं शतम् 108, एतत् सप्तभिरुपयोगैर्गुण्यते जातानि सप्त शतानि षट्पञ्चाशदधिकानि 756 / सर्वसङ्ख्यया विंशान्येकविंशति- . शतानि 2120 / ये तु मिथ्यादृष्टाविव मिश्रेऽपि पञ्चोपयोगान् इच्छन्ति तन्मतेन सर्वसध्यया विंशतिशतान्यष्टाशीत्यधिकानि 2088 / एतानि चतुर्विंशतिगतानीति चतुर्विंशत्या गुण्यन्ते जातानि पञ्चाशत् सहस्राणि अष्टौ शतानि अशीत्यधिकानि 50880, मतान्तरेण पञ्चाशत् सहस्राणि द्वादशोत्तरशताधिकानि 50112 / ततो द्विकोदयपदानि चतुर्विंशतिः, एकोदयपदानि पञ्च, सर्वमीलने एकोनत्रिंशत् , सा सप्तभिरुपयोगैर्गुण्यते जाते व्युत्तरे द्वे शते 203 / ते पूर्वराशौ प्रक्षिप्येते ततो जातः पूर्वराशिरेकपञ्चाशत् सहस्राणि व्यशीत्यधिकानि 51083, मतान्तरेण पुनः पञ्चाशत् सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि 50315 / उक्तं च पन्नासं च सहस्सा, तिन्नि सया चेव पन्नारा / 50315 ( ) एतावन्त्युपयोगगुणितानि पदवृन्दानि / / सम्प्रति लेश्यागुणिता उदयभङ्गा भाव्यन्ते तत्र मिथ्यादृष्ट्यादिष्वविरतसम्यग्दृष्टिपर्यन्तेषु प्रत्येकं षट् षड् लेश्याः, देशविरत-प्रमत्ता-प्रमत्तेषु तेजः-पद्म-शुक्लरूपास्तिस्रस्तिस्रः, कृष्णादिलेश्यासु देशविरत्यादिप्रतिपत्तेरभावात् / अपूर्वकरणादौ एका शुक्ललेश्या / मिथ्यादृश्यादिषु च ये चतुर्विंशतिगता उदयस्थानविकल्पा अष्ट-चतुरादिसङ्ख्यास्ते यथायोगं लेश्याभिर्गुण्यन्ते / तद्यथा-मिथ्यादृष्टेरष्टावुदयस्थानविकल्पाः, सासादनस्य चत्वारः, सम्यग्मिथ्यादृष्टेश्चत्वारः, अविरतसम्यग्दृष्टेरष्टौ, मीलिताश्चतुर्विंशतिः, सा च षडिलेश्याभिर्गुण्यते जातं चतुश्चत्वारिंशं शनम् 144 / तथा देशविरतस्याष्टी, प्रमत्तस्याष्टी, अप्रमत्तस्यापि चाष्टी, सर्वसङ्ख्यया चतुर्विंशतिः, सा त्रिमितेश्याभिर्गुण्यते जाता द्विसप्ततिः 72 / अपूर्वकरणे चतस्रः, अत्रैकैव लेश्या, एकेन च गुणितं तदेव भवतीति चत्वार एव / सर्वमिलिता द्वे शते विंशत्यधिके 220 / एते चतुर्विंशतिगते इति चतुर्विंशत्या गुण्येते, जातानि अशीत्यधिकानि द्विपञ्चाशच्छतानि 5280 / ततो द्विकोदया द्वादश, एकोदयाः पञ्च, मिलिताः सप्तदश / ते पूर्वराशौ प्रक्षिप्यन्ते, ततो जातानि सप्तनवत्यधिकानि द्विपञ्चाशच्छतानि 5297 / एतावन्तो लेश्यागुणिता उदयभङ्गाः / ___ सम्प्रति लेश्यागुणितानि पदवृन्दानि भाव्यन्ते-तत्रोदयस्थानपदानि चतुर्विशतिगतानि मिथ्यादृष्टौ अष्टषष्टिः, सासादने द्वात्रिंशत् , मिश्रेऽपि द्वात्रिंशत् , अविरतसम्यग्दृष्टौ षष्टिः, सर्वसहपया द्विनवत्यधिकं शतम् 192, एतच्च पडिलेश्यामिर्गुण्यते ततो जातानि द्विपञ्चाशदधिकान्येकादश शतानि 1152 / तथा देशविरते द्विपञ्चाशत् , प्रमत्ते चतुश्चत्वारिंशत् , अप्रमत्तेऽपि चतुश्चत्वारिंशत् , सर्वे मीलिताश्चत्वारिंशं शतम् 140, तच्च तिसृभिलेश्याभिर्गुण्यते 1 सं० 1 त० म० मते सर्व // 2 पञ्चाशश्च सहस्राणि त्रीणि शतानि चैव पश्चदशानि // 3 त० म० पनरसा // 4 सं०१त०म० अत्र चैकै // 5 सं०१सं०२ त०म० रतौ द्वि॥

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334