Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

Previous | Next

Page 248
________________ 26] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 183 एषा चापान्तरालगतौ वर्तमानस्य तिर्यक्पञ्चेन्द्रियस्य वेदितव्या / अत्र भङ्गा नव-तत्र पर्याप्तकनामोदये वर्तमानस्य सुभग-दुर्भगाभ्यामादेया-ऽनादेयाभ्यां यशःकीर्ति-अयशःकीर्तिभ्यां चाष्टौ भङ्गाः, अपर्याप्तकनामोदये वर्तमानस्य तु दुर्भगा-ऽनादेया-ऽयशःकीर्तिभिरेकः / अपरे पुनराहुः सुभगा-ऽऽदेये युगपदुदयमायातः दुर्भगा-ऽनादेये च, ततः पर्याप्तकस्य सुभगा-ऽऽदेययुगलदुर्भगा-ऽनादेययुगलाभ्यां यशःकीर्ति-अयशःकीर्तिभ्यां च चत्वारो भङ्गाः, अपर्याप्तकस्य त्वेक इति, सर्वसङ्ख्यया पञ्च / एवमुत्तरत्रापि मतान्तरेण भगवैषम्यं स्वधिया परिभावनीयम् / ततः शरीरस्थस्य आनुपूर्वीमपनीय औदारिकमौदारिकाङ्गोपाङ्गं षण्णां संस्थानानामेकतमत् संस्थानं षण्णां संहननानामेकतमत् संहननम् उपघातं प्रत्येकमिति षट्कं प्रक्षिप्यते, ततो जाता षड्विंशतिः / अत्र भङ्गानां द्वे शते एकोननवत्यधिके २८९-तत्र पर्याप्तस्य षड्भिः संस्थानः षड्भिः संहननैः सुभग-दुर्भगाभ्यामादेया-ऽनादेयाभ्यां यशःकीर्ति-अयशःकीर्तिभ्यां च द्वे शते भानामष्टाशीत्यधिके 288, अपर्याप्तकस्य हुण्डसंस्थान-सेवार्तसंहनन-दुर्भगा-ऽनादेया-ऽयशःकीर्तिपदैरेक इति / तस्यामेव षड्विंशतौ शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्ता-प्रशस्तविहायोगत्योरन्यतरविहायोगतौ च प्रक्षिप्तायामष्टाविंशतिः, तत्र ये प्राक् पर्याप्तानां द्वे शते भनानामष्टाशीत्यधिके 288 उक्ते ते अत्र विहायोगतिद्विकेन गुणिते अवगन्तव्ये, तथा च सत्यत्र भङ्गानां पञ्च शतानि षट्सप्तत्यधिकानि 576 भवन्ति। ततः प्राणापानपर्याप्स्या पर्याप्तस्य उच्छासे प्रक्षिप्ते एकोनत्रिंशत् , अत्रापि भङ्गाः प्रागिव पञ्च शतानि षट्सप्तत्यधिकानि 576 / अथवा शरीरपर्याप्त्या पर्याप्तस्य उच्चासेऽनुदिते उद्योतनाग्नि तूदिते एकोनत्रिंशद् भवति अत्रापि भङ्गाः पञ्च शतानि षट्सप्तत्यधिकानि 576 / सर्वसङ्ख्यया भङ्गानामेकोनत्रिंशति द्विपञ्चाशदधिकानि एकादश शतानि 1152 / ततो भाषापर्याप्त्या पर्याप्तस्य सुस्वर-दुःस्वरयोरन्यतरस्मिन् प्रक्षिप्ते त्रिंशद् भवति, अत्र ये प्रागुच्छासेन पञ्च शतानि पट्सप्तत्यधिकानि 576 उक्तानि तान्येव स्वरद्विकेन गुण्यन्ते ततो जातानि द्विपञ्चाशदधिकान्येकादश शतानि 1152 / अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते त्रिंशद् भवति, अत्रापि भङ्गानां प्रागिव पञ्च शतानि षट्सप्तत्यधिकानि 576 / सर्वसङ्ख्यया त्रिंशति भङ्गानां सप्तदश शतानि अष्टाविंशत्यधिकानि 1728 / ततः स्वरसहितायां त्रिंशति उद्योतनाम्नि प्रक्षिप्ते एकत्रिंशद् भवति / अत्र ये पाक् स्वरसहितायां त्रिंशति भङ्गा द्विपञ्चाशदधिकैकादशशतसङ्ख्याः 1152 उक्तास्त एवात्रापि द्रष्टव्याः / सर्वसङ्ख्यया प्राकृततिर्यक्पश्चेन्द्रियाणां उदयभङ्गा एकोनपञ्चाशच्छतानि षडधिकानि 4106 / तथा इदानीं तेषामेव तिर्यक्पपञ्चेन्द्रियाणां वैक्रियं कुर्वतामुदयस्थानानि पञ्च, तद्यथापञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् / तत्र वैक्रियं वैक्रियाङ्गोपाङ्गं 1 सं० सं० 2 छा० मुद्रि० °प्तकहुण्ड° // 2 सं० 1 त० म० °दये भ° // 3 सं० १सं० त० °था तेषामे० //

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334