Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
________________ 35-36] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / अतः परं 'मोहं' मोहनीयं जीवस्थानेषु वक्ष्ये // 35 // अहसु पंचसु एगे, एग दुगं दस य मोहबंधगए / तिग चउ नव उदयगए, तिग तिग पन्नरस संतम्मि // 36 // अष्टसु पञ्चसु एकस्मिंश्च यथाक्रमं एकं द्वे दश च मोहनीयप्रकृतिबन्धगतानि स्थानानि भवन्ति / तत्र 'अष्टसु' पर्याप्ता-ऽपर्याप्तसूक्ष्मा-ऽपर्याप्तबादर-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिया- संज्ञिसंज्ञिरूपेषु एकं बन्धस्थानं द्वाविंशतिरूपम् / द्वाविंशतिश्चेयम्-मिथ्यात्वं षोडश कषायाः त्रयाणां वेदानामन्यतमो वेदः हास्य-रतियुगला-ऽरति-शोकयुगलयोरन्यतरद् युगलं भयं जुगुप्सा चेति / अत्र त्रिभिर्वेदाभ्यां युगलाभ्यां षड् भङ्गा भवन्ति / पर्याप्तबादर-द्वि-त्रि-चतुरिन्द्रियाऽसंज्ञिरूपेषु पञ्चसु जीवस्थानेषु इमे द्वे द्वे बन्धस्थाने, तद्यथा-द्वाविंशतिरेकविंशतिश्च / तत्र द्वाविंशतिः प्रागिव सँभेदा वक्तव्या / सैव च द्वाविंशतिर्मिथ्यात्वहीना एकविंशतिः / सा च केषाञ्चित् करणापर्याप्तावस्थायां सासादनभावे सति लभ्यते न सर्वेषाम् , शेषकालं वा / अत्र चत्वारो भङ्गाः, यत इह नपुंसकवेदो न बन्धमायाति, मिथ्यात्वोदयाभावात् , नपुंसकवेदबन्धम्य च मिथ्यात्वोदयनिवन्धनत्वात् / ततो द्वाभ्यां वेदाभ्यां द्वाभ्यां च युगलाभ्यां चत्वार एव भङ्गाः / एकस्मिंस्तु पर्याप्तसंज्ञिरूपे जीवस्थाने द्वाविंशत्यादीनि दश बन्धस्थानानि, तानि च प्राग्वत् सँभेदानि वक्तव्यानि / "तिग चउ नव उदयगए" इति, यथोक्तरूपेषु अष्टसु जीवस्थानेषु प्रत्येकं "त्रीणि श्रीप्रयुदयस्थानानि, तद्यथा-अष्टौ नव दश च / यत्तु सप्तकमुदयस्थानमनन्तानुबन्ध्युदयरहितं तन्न प्राप्यते, तेषामवश्यमनन्तानुबन्ध्युदयसहितत्वात् / वेदश्च तेषामुदयप्राप्तो नपुंसकवेद एव, न स्त्रीवेद-पुरुषवेदौ / ततः 'अष्टोदये' मिथ्यात्वं क्रोधादीनामन्यतमे चत्वारः क्रोधादिका नपुंसकवेदोऽन्यतरद् युगलमित्येवंरूपे चतुर्भिः क्रोधादिभिर्द्वाभ्यां च युगलाभ्यां भङ्गा अष्टौ / अष्टोदये एव भये वा जुगुप्सायां वा प्रक्षिप्तायां नवोदयः, अत्रैकैकस्मिन् विकल्पे भक्ता अष्टौ अष्टौ प्राप्यन्ते इति सर्वसङ्ख्यया नवोदये भङ्गाः षोडश। भय-जुगुप्सयोस्तु युगपत् प्रक्षिप्तयोर्दशोदयः, अत्र भङ्गा अष्टौ / सर्वसङ्ख्यया अष्टसु जीवस्थानेषु प्रत्येकं द्वात्रिंशद् द्वात्रिंशद् भङ्गाः / तथा उक्तरूपेषु पञ्चमु जीवस्थानेषु प्रत्येकं चत्वारि चत्वारि उदयस्थानानि, तद्यथा-सप्त अष्टौ नव दश / तत्र सासादनभावकाले एकविंशतिबन्धे सप्ताऽष्ट-नवरूपाणि त्रीण्युदयस्थानानि, वेदश्व तेषामुदयप्राप्तो नपुंसकवेदः, ततोऽन्यतमे चत्वारः क्रोधादिका नपुंसकवेदोऽन्यतरद् युगलमिति सप्तोदय एकविंशतिबन्धे ध्रुवः, अत्र प्रागिवाष्टौ भङ्गाः / ततो भये वा जुगुप्सायां वा प्रक्षिप्तायामटोदयः, अत्र प्रत्येकं भये जुगुप्सायां चाष्टौ भङ्गाः प्राप्यन्ते इत्यष्टोदये सर्वसत्यया भन्नाः षोडश। ततो भय-जुगुप्सयोर्युगपत् प्रक्षिप्तयोर्नवोदयः, अत्राष्टावेव भङ्गाः। सर्वसङ्ख्यया सासादन 1 गाथेयं सप्ततिकाभाष्ये 55 तमी / / 2 सं०१ त०म० °दरपर्याप्तद्वि // 3-4 मुद्रि० छा सप्रभे // 5 अस्मत्पार्श्ववर्तिषु केषुचिदादर्शेषु "त्रीणि त्रीणि" इति वारद्वयं लिखितं नोपलभ्यते केषुचित् पुनलभ्यते / एवमग्रेऽपि “त्रीणि त्रीणि. चत्वारि चत्वारि. द्वादश द्वादश, द्वात्रिंशद् द्वात्रिंशद्" इत्यादिष्वपि शेयम् //
Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334