Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 266
________________ 37-38] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 201 त्रिंशत् त्रिंशत् / अपर्याप्ता हि सप्तापि तिर्यग्-मनुष्यप्रायोग्यमेव बध्नन्ति, न देव-नारकमायोग्यम्, ततो यथोक्तान्येवेह बन्धस्थानानि प्राप्यन्ते नोनाधिकानि / तानि च तिर्यग्-मनुष्यप्रायोग्याणि प्रागिव सप्रपञ्चं वक्तव्यानि / उदयस्थाने पुनरपर्याप्तबादर-सूक्ष्मैकेन्द्रिययोरिमे—एकविंशतिचतुर्विशतिश्च / तत्रापर्याप्तबादरस्यैकविंशतिरियम्-तिर्यग्गतिः तिर्यगानुपूर्वी तैजसं कार्मणं अगुरुलघु वर्णादिचतुष्टयम् एकेन्द्रियजातिः स्थावरनाम बादरनाम अपर्याप्तकनाम स्थिरा-ऽस्थिरे शुभा-ऽशुमे दुर्भगम् अनादेयम् अयशःकीर्तिः निर्माणमिति / एषा चैकविंशतिरपान्तरालगतौ वर्तमानस्य प्राप्यते, अत्र चैक एव भङ्गः, अपर्याप्तस्य परावर्तमानशुभप्रकृतीनामुदयाभावात् / सूक्ष्मापर्याप्तकस्याप्येषैवैकविंशतिरवसेया, नवरं बादरनामस्थाने सूक्ष्मनामेति वक्तव्यम् , अत्राप्येक एव मनः / उभयोरपि तस्यामेकविंशतौ औदारिकशरीरं हुण्डसंस्थानम् उपघातनाम प्रत्येक साधारणयोरेकतरमिति प्रकृतिचतुष्टये प्रक्षिप्ते तिर्यगानुपूर्त्यां चापनीतायां चतुर्विशतिः, अत्र प्रत्येकसाधारणाभ्यां सूक्ष्मापर्याप्तस्य बादरापर्याप्तस्य च प्रत्येकं द्वौ द्वौ भङ्गौ / तदेवं द्वे द्वे उदयस्थाने अधिकृत्य द्वयोरपि प्रत्येकं त्रयस्त्रयो भङ्गाः विकलेन्द्रिया-ऽसंज्ञि-संश्यपर्याप्तानां प्रत्येकमिमे द्वे द्वे उदयस्थाने, तद्यथा-एकविंशतिः षड्विंशतिश्च / तत्रैकविंशतिरपर्याप्तद्वीन्द्रियाणामियम्तैजसं कार्मणम् अगुरुलघु स्थिरा-ऽस्थिरे शुभा-ऽशुभे वर्णादिचतुष्टयं निर्माणं तिर्यग्गतिः तिर्यगानुपूर्वी द्वीन्द्रियजातिः त्रसनाम बादरनाम अपर्याप्तकनाम दुर्भगम् अनादेयम् अयशःकीर्तिरिति / एषा चैकविंशतिरपान्तरालगतौ वर्तमानस्यावसेया / अत्र सर्वाण्यपि पदान्यप्रशस्तान्येवेति एक एव भङ्गः / ततः शरीरस्थस्यौदारिकम् औदारिकाङ्गोपाङ्गं हुण्डसंस्थानं सेवार्तसंहननम् उपघातं प्रत्येकमिति प्रकृतिषट्कं प्रक्षिप्यते तिर्यगानुपूर्वी चापनीयते ततः षड्विंशतिर्भवति, अत्राप्येक एव भक्तः / एवं त्रीन्द्रियादीनामप्यवगन्तव्यम् , नवरं द्वीन्द्रियजातिस्थाने त्रीन्द्रियजातिरित्यापुच्चारणीयम् / तदेवमपर्याप्तद्वीन्द्रियादीनां प्रत्येकं द्वे द्वे उदयस्थाने अधिकृत्य द्वौ द्वौ भनौ वेदितव्यौ, केवलमपर्याप्तसंज्ञिनश्चत्वारः, यतो द्वौ भङ्गावपर्याप्तसंज्ञिनस्तिरश्चः प्राप्येते, द्वौ चापर्याप्तसंज्ञिनो मनुष्यस्येति / तथा प्रत्येकं सप्तानामपर्याप्तानां पञ्च पञ्च सत्तास्थानानि, तद्यथाद्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च / एतेषां च स्वरूपं प्रागिव द्रष्टव्यम् / _"पण चउ पणगं" ति "सुहुमा” इति सम्बध्यते / सूक्ष्मस्य पर्याप्तस्य पञ्च बन्धस्थानानि, तद्यथा-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः एकोनत्रिंशत् त्रिंशत् / एतानि च तिर्यग्-मनुष्यप्रायोग्याण्येव द्रष्टव्यानि, तत्रैव सूक्ष्मपर्याप्तस्योत्पादसम्भवात् / एतेषां च खरूपं प्रागिव सप्रपञ्चं द्रष्टव्यम् / उदयस्थानानि चत्वारि, तद्यथा-एकविंशतिः चतुर्विशतिः पञ्चविंशतिः षड्विंशतिश्च / तत्रैकविंशतिरियम्-तैजसं कार्मणम् अगुरुलघु स्थिरा-ऽस्थिरे शुभा-ऽशुभे वर्णादिचतुष्टयं निर्माण तिर्यग्गतिः तिर्यगानुपूर्वी एकेन्द्रियजातिः स्थावरनाम सूक्ष्मनाम पर्याप्तकनाम दुर्भगम् अनादेयम् अयशःकीर्तिरिति / एषा चैकविंशतिः सूक्ष्मपर्याप्तस्यापान्तरालगतौ वर्तमानस्य वेदितव्या, 1 सं० 1 त० म० छा० °ध्यगतिप्रा // 2 मुद्रि० छा० प्येषैव चैक' / / 3 छा० मुद्रि० °ति कृत्वैक ए° // 26

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334