Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 269
________________ 204 [गाथाः मलयगिरिमहर्षिविनिर्मित विकृत्युपेतं “छ च्छ प्पणगं" ति अत्र "असन्नी य" इति सम्बध्यते / असंज्ञिपञ्चेन्द्रियस्य पर्याप्तस्य षड् बन्धस्थानानि, तद्यथा-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् / असंज्ञिपञ्चेन्द्रिया हि पर्याप्ताः नरकगति-देवगतिप्रायोग्यमपि बध्नन्ति / ततस्तेषामष्टाविंशतिरपि बन्धस्थानं लभ्यते / षड् उदयस्थानानि, तद्यथा-एकविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् / तत्रैकविंशतिरियम्-तैजसं कार्मणम् अगुरुलघु स्थिराऽस्थिरे शुभा-ऽशुमे वर्णादिचतुष्टयं निर्माणं तिर्यग्गतिः तिर्यगानुपूर्वी पञ्चेन्द्रियजातिः त्रसनाम बादरनाम पर्याप्तकनाम सुभग-दुर्भगयोरेकतरं आदेया-ऽनादेययोरेकतरं यशःकीर्ति-अयशःकीयोरेफतफरेति / एषा चैकविंशतिरसंज्ञिपञ्चेन्द्रियपर्याप्तस्यापान्तरालगतौ वर्तमानस्य प्राप्यते। अत्र सुभग-दुर्भगा-ऽऽदेया-ऽनादेय-यशःकीर्ति-अयशःकीर्तिभिरष्टौ भङ्गाः। ततः शरीरस्थस्यौदारिकमौदारिकाजोपाङ्गं षण्णां संस्थानानामेकतमत् संस्थानं षण्णां संहननानामेकतमत् संहननम् उपघातं प्रत्येकमिति प्रकृतिषट्कं प्रक्षिप्यते तिर्यगानुपूर्वी चापनीयते ततः षड्विंशतिर्भवति, अत्र षडिः संस्थानैः षडिः संहननैः सुभग-दुर्भगाभ्यामादेया-ऽनादेयाभ्यां यशःकीर्ति-अयशःकीतिभ्यां च द्वे शते भङ्गानामष्टाशीत्यधिके 288 / ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्ता-ऽप्रशस्तविहायोगत्यन्यतरविहायोगतौ च प्रक्षिप्तायामष्टाविंशतिः, अत्र पाश्चात्या एव भना विहायोगतिद्विकेन गुण्यन्ते ततो भङ्गानां पञ्च शतानि षट्सप्तत्यधिकानि भवन्ति 576 / ततः प्राणापानपर्यास्या पर्याप्तस्योच्छासे क्षिप्ते एकोनत्रिंशत् , अत्रापि भङ्गानां पञ्च शतानि षट्सप्तत्यधिकानि 576; अथवा शरीरपर्यात्या पर्याप्तस्योच्छासेऽनुदिते उद्योते तूदिते एकोनत्रिंशत्, अत्रापि पञ्च शतानि षट्सप्तत्यधिकानि . भङ्गानाम् 576; सर्वसझ्यया एकादश शतानि द्विपञ्चाशदधिकौनि 1152 / ततो भाषापर्याप्त्या पर्याप्तस्योच्छाससहितायामेकोनत्रिंशति सुस्वर-दुःस्वरयोरेकतरस्मिन् प्रक्षिप्ते त्रिंशद् भवति, अत्र पाश्चात्यान्युच्छ्वासलब्धानि भङ्गानां पञ्च शतानि षट्सप्तत्यधिकानि 576 स्वरद्विकेन गुण्यन्ते तत एकादश शतानि द्विपञ्चाशदधिकानि 1152 भवन्ति; अथवा प्राणापानपर्यात्या पर्याप्तस्य खरेऽनुदिते उद्योतनाग्नि तूदिते त्रिंशद् भवति, अत्र भङ्गानां पञ्च शतानि षट्सप्तत्यधिकानि 576 / सर्वसङ्ख्यया त्रिंशति भङ्गाः सप्तदश शतान्यष्टाविंशत्यधिकानि 1728 / ततः खरसहितायां त्रिंशति उद्योते प्रक्षिप्ते एकत्रिंशद् भवति, अत्र भनानामेकादश शतानि द्विपञ्चाशदधिकानि 1152 / सर्वसध्यया पर्याप्तासंज्ञिपञ्चेन्द्रियस्यैकोनपञ्चाशच्छतानि चतुरधिकानि 4904 / असंज्ञिपञ्चेन्द्रियाश्च वैक्रियलब्धिहीनत्वाद् वैक्रियं नारभन्ते ततस्तदाश्रिता उदयविकल्पा न प्राप्यन्ते / सत्तास्थानानि पञ्च, तथथा-द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च / अत्रैकविंशत्युदयसत्का अष्टौ भङ्गाः पविंशत्युदयसत्काश्चाष्टाशीत्यधिकशतद्वयसायाः 288 पञ्चसत्तास्थानकाः, शेषाः सर्वेऽपि चतुःसत्तास्थानकाः, युक्तिरत्र प्रागुक्ता द्रष्टव्या / - "अट्ठऽह दसगं" ति अत्र “सन्नीय" इति सम्बध्यते / संज्ञिपञ्चेन्द्रियपर्याप्तस्य सर्वाणि बन्ध सं० यल्य पर्या / छा० यस्यापर्या // 2 सं० 1 त० म० °ङ्गाः पश्च श' // 3 मुनि उपोतनाम्नि०॥४सं०१०म० कानि 1152 भवन्ति //

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334