Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text ________________ 37-38] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / पश्चिशती आतप-उद्योतयोरन्यतरस्मिन् प्रक्षिप्ते सप्तविंशतिः, अत्र प्रागिवातपेन द्वौ उद्योतेन सह चत्वार इति सर्वसङ्ख्यया सप्तविंशतौ षड् भङ्गाः / सर्वे बादरपर्याप्तस्य भन्ना एकोनत्रिंशत् / सत्तास्थानानि पञ्च, तद्यथा-द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च / इह पञ्चर्षिशत्युदये षड्विंशत्युदये च प्रत्येकं प्रत्येका-ऽयशःकीर्तिभ्यां य एकैको भङ्गः यौ च द्वौ मझावकविंशतो ये च वैक्रियबादरवायुकायिकवर्जाश्चतुर्विशतौ भङ्गाश्चत्वारस्ते सर्वसङ्ख्ययाऽष्टौ पञ्चसत्तास्थानकाः, शेषास्त्वेकविंशतिसझ्याश्चतुःसत्तास्थानकाः। "पण छ प्पणगं" ति अत्र “विगलिंदिया उ तिन्नि उ” इति सम्बध्यते / विकलेन्द्रियाणां त्रयाणां पञ्च बन्धस्थानानि, तद्यथा-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः एकोनत्रिंशत् त्रिंशत् / एतान्यपि तिर्यङ्-मनुष्यप्रायोग्याणि, तानि च प्रागिव द्रष्टव्यानि / षड् उदयस्थानानि, तद्यथाएकविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् / तत्र पर्याप्तद्वीन्द्रियस्यैकविंशतिरियम्-तैजसं कार्मणम् अगुरुलघु स्थिरा-ऽस्थिरे शुभा-ऽशुभे वर्णादिचतुष्टयं निर्माणां तिर्यग्गतिः तिर्यगानुपूर्वी द्वीन्द्रियजातिः त्रसनाम बादरनाम पर्याप्तकनाम दुर्भगम् अनादेयं यशःकीर्ति-अयशःकीोरेकतरेति / एषा चैकविंशतिः पर्याप्तद्वीन्द्रियस्यापान्तरालगतौ वर्तमानस्यावसेया, अत्र द्वौ भनौ यशःकीर्ति-अयशःकीर्तिभ्याम् / ततः शरीरस्थस्य औदारिकम् औदारिकाङ्गोपाङ्गं हुण्डसंस्थानं सेवार्तसंहननम् उपघातं प्रत्येकमिति प्रकृतिषटुं प्रक्षिप्यते तिर्यगानुपूर्वी चापनीयते ततः षड्विंशतिर्भवति, अत्रापि तावेव द्वौ भनौ / ततः शरीरपर्यास्या पर्यासस्य पराघातेप्रशस्तविहायोगतौ च प्रक्षिप्तायामष्टाविंशतिः, अत्रापि तावेव द्वौ भनौ / ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छासे क्षिप्ते एकोनत्रिंशत् , अत्रापि तावेव द्वौ भनौ; अथवा तस्यामेवाष्टाविंशतौ उच्चासेऽनुदिते उद्योतनाग्नि तूदिते एकोनत्रिंशत्, अत्रापि तावेव द्वौ भनौ; सर्वसत्ययां एकोनत्रिंशति चत्वारो भङ्गाः / ततो भाषापर्याप्त्या पर्याप्तस्योच्छाससहितायामेकोनत्रिंशति सुस्वर-दुःस्वरयोरेकतरस्मिन् क्षिप्ते त्रिंशद् भवति, अत्र भङ्गाः सुस्वर-दुःस्वर-यशःकीर्तिअयशःकीर्तिपदैश्चत्वारः; अथवोच्छवाससहितायामेकोनविंशति स्वरेऽनुदिते उद्योतनाग्नि तूदिते त्रिंशत् , अत्रोद्योत-यशःकीर्ति-अयशःकीर्तिपदैौ भनौ; सर्वसत्यया त्रिंशति षड् भङ्गाः / स्वरसहितायामेव त्रिंशति उद्योते प्रक्षिप्ते एकत्रिंशत् , अत्र सुस्वर-दुःस्वर-यशःकीर्ति-अयशःकीर्तिपदैर्भङ्गाश्चत्वारः / सर्वसङ्ख्यया पर्याप्तद्वीन्द्रियस्य भङ्गा विंशतिः / सत्तास्थानानि पञ्च, तद्यथा-द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च / अत्र यावेकविंशत्युदये द्वौ भनौ यौ च षड्विंशत्युदये एते चत्वारः पञ्चसत्तास्थानकाः, यतोऽष्टसप्ततिस्तेजः-वायुभवादुद्वृत्य पर्याप्तद्वीन्द्रियत्वेनोत्पन्नानधिकृत्य कियत्कालं प्राप्यते, शेषास्तु षोडश भगकाश्चतुःसतास्थानकाः, तेष्वष्टसप्ततेरप्राप्यमाणत्वात् / तेजः-वायुवर्जा हि शरीरपर्याप्त्या पर्याप्ता नियमतो मनुष्यगति-मनुष्यानुपूयौ बध्नन्ति, ततोऽष्टाविंशत्याद्युदयेष्वष्टसप्ततिर्न प्राप्यते / एवं त्रीन्द्रिय-चतुरिन्द्रियाणामपि पर्याप्तानां वक्तव्यम् / 1 मुद्रि० छा० सर्वेऽपि स° // 2 सं० 1 त० म० °गाः / सुस्व // 3 सं० 1 त० म० छा० °दये द्वौ भनौ एते च° // 4 मुद्रिः ततः सप्तविं //
Loading... Page Navigation 1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334