________________ 37-38] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / पश्चिशती आतप-उद्योतयोरन्यतरस्मिन् प्रक्षिप्ते सप्तविंशतिः, अत्र प्रागिवातपेन द्वौ उद्योतेन सह चत्वार इति सर्वसङ्ख्यया सप्तविंशतौ षड् भङ्गाः / सर्वे बादरपर्याप्तस्य भन्ना एकोनत्रिंशत् / सत्तास्थानानि पञ्च, तद्यथा-द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च / इह पञ्चर्षिशत्युदये षड्विंशत्युदये च प्रत्येकं प्रत्येका-ऽयशःकीर्तिभ्यां य एकैको भङ्गः यौ च द्वौ मझावकविंशतो ये च वैक्रियबादरवायुकायिकवर्जाश्चतुर्विशतौ भङ्गाश्चत्वारस्ते सर्वसङ्ख्ययाऽष्टौ पञ्चसत्तास्थानकाः, शेषास्त्वेकविंशतिसझ्याश्चतुःसत्तास्थानकाः। "पण छ प्पणगं" ति अत्र “विगलिंदिया उ तिन्नि उ” इति सम्बध्यते / विकलेन्द्रियाणां त्रयाणां पञ्च बन्धस्थानानि, तद्यथा-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः एकोनत्रिंशत् त्रिंशत् / एतान्यपि तिर्यङ्-मनुष्यप्रायोग्याणि, तानि च प्रागिव द्रष्टव्यानि / षड् उदयस्थानानि, तद्यथाएकविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् / तत्र पर्याप्तद्वीन्द्रियस्यैकविंशतिरियम्-तैजसं कार्मणम् अगुरुलघु स्थिरा-ऽस्थिरे शुभा-ऽशुभे वर्णादिचतुष्टयं निर्माणां तिर्यग्गतिः तिर्यगानुपूर्वी द्वीन्द्रियजातिः त्रसनाम बादरनाम पर्याप्तकनाम दुर्भगम् अनादेयं यशःकीर्ति-अयशःकीोरेकतरेति / एषा चैकविंशतिः पर्याप्तद्वीन्द्रियस्यापान्तरालगतौ वर्तमानस्यावसेया, अत्र द्वौ भनौ यशःकीर्ति-अयशःकीर्तिभ्याम् / ततः शरीरस्थस्य औदारिकम् औदारिकाङ्गोपाङ्गं हुण्डसंस्थानं सेवार्तसंहननम् उपघातं प्रत्येकमिति प्रकृतिषटुं प्रक्षिप्यते तिर्यगानुपूर्वी चापनीयते ततः षड्विंशतिर्भवति, अत्रापि तावेव द्वौ भनौ / ततः शरीरपर्यास्या पर्यासस्य पराघातेप्रशस्तविहायोगतौ च प्रक्षिप्तायामष्टाविंशतिः, अत्रापि तावेव द्वौ भनौ / ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छासे क्षिप्ते एकोनत्रिंशत् , अत्रापि तावेव द्वौ भनौ; अथवा तस्यामेवाष्टाविंशतौ उच्चासेऽनुदिते उद्योतनाग्नि तूदिते एकोनत्रिंशत्, अत्रापि तावेव द्वौ भनौ; सर्वसत्ययां एकोनत्रिंशति चत्वारो भङ्गाः / ततो भाषापर्याप्त्या पर्याप्तस्योच्छाससहितायामेकोनत्रिंशति सुस्वर-दुःस्वरयोरेकतरस्मिन् क्षिप्ते त्रिंशद् भवति, अत्र भङ्गाः सुस्वर-दुःस्वर-यशःकीर्तिअयशःकीर्तिपदैश्चत्वारः; अथवोच्छवाससहितायामेकोनविंशति स्वरेऽनुदिते उद्योतनाग्नि तूदिते त्रिंशत् , अत्रोद्योत-यशःकीर्ति-अयशःकीर्तिपदैौ भनौ; सर्वसत्यया त्रिंशति षड् भङ्गाः / स्वरसहितायामेव त्रिंशति उद्योते प्रक्षिप्ते एकत्रिंशत् , अत्र सुस्वर-दुःस्वर-यशःकीर्ति-अयशःकीर्तिपदैर्भङ्गाश्चत्वारः / सर्वसङ्ख्यया पर्याप्तद्वीन्द्रियस्य भङ्गा विंशतिः / सत्तास्थानानि पञ्च, तद्यथा-द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च / अत्र यावेकविंशत्युदये द्वौ भनौ यौ च षड्विंशत्युदये एते चत्वारः पञ्चसत्तास्थानकाः, यतोऽष्टसप्ततिस्तेजः-वायुभवादुद्वृत्य पर्याप्तद्वीन्द्रियत्वेनोत्पन्नानधिकृत्य कियत्कालं प्राप्यते, शेषास्तु षोडश भगकाश्चतुःसतास्थानकाः, तेष्वष्टसप्ततेरप्राप्यमाणत्वात् / तेजः-वायुवर्जा हि शरीरपर्याप्त्या पर्याप्ता नियमतो मनुष्यगति-मनुष्यानुपूयौ बध्नन्ति, ततोऽष्टाविंशत्याद्युदयेष्वष्टसप्ततिर्न प्राप्यते / एवं त्रीन्द्रिय-चतुरिन्द्रियाणामपि पर्याप्तानां वक्तव्यम् / 1 मुद्रि० छा० सर्वेऽपि स° // 2 सं० 1 त० म० °गाः / सुस्व // 3 सं० 1 त० म० छा० °दये द्वौ भनौ एते च° // 4 मुद्रिः ततः सप्तविं //