________________ 202 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गांथाः अत्रैको भाः, प्रतिपक्षपदविकल्पस्यैकस्याप्यभावात् / अस्यामेवैकविंशतौ औदारिकशरीर हुण्डसंस्थानम् उपघातं प्रत्येक साधारणयोरेकतरमिति प्रकृतिचतुष्टयं प्रक्षिप्यते तिर्यगानुपूर्वी चापनीयते ततश्चतुर्विंशतिर्भवति, सा च शरीरस्थस्य प्राप्यते, अत्र प्रत्येक-साधारणाभ्यां द्वौ भनौ। ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते क्षिप्ते पञ्चविंशतिः, अत्रापि तावेव द्वौ भनौ / ततः प्राणापानपर्यास्या पर्याप्तस्योच्छ्वासे क्षिप्ते षड्विंशतिः, अत्रापि तावेव द्वौ भनौ / सर्वसझ्यया सूक्ष्मपर्याप्तस्य चत्वार्यप्युदयस्थानान्यधिकृत्य भङ्गाः सप्त / पञ्च सत्तास्थानानि, तद्यथा-द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च / केवलं पञ्चविंशत्युदये षड्विंशत्युदये च प्रत्येकं यः साधारणपदेन सह भङ्गस्तत्राष्टासप्ततिवर्जानि चत्वारि सत्तास्थानानि वक्तव्यानि, शरीरपर्याप्त्या हि पर्याप्तस्तेजः-वायुवर्जः सर्वोऽपि मनुष्यगति-मनुष्यानुपूव्यौ नियमाद् बध्नाति, पञ्चविंशतिषड्विंशत्युदयौ च शरीरपर्याप्त्या पर्याप्तस्य भवतः, ततः साधारणस्य सूक्ष्मपर्याप्तस्य पञ्चविंशत्युदये षड्विंशत्युदये चाष्टसप्ततिर्ने प्राप्यते / प्रत्येकपदे पुनस्तेजः-वायुकायिकावप्यन्तर्भवत इति तदपेक्षया तत्राष्टसप्ततिर्लभ्यते / तदेवं साधारणपदानुगौ पञ्चविंशति-पड्विंशतिसत्को द्वौ भङ्गो चतुःसत्तास्थानको, शेषास्तु पञ्च भङ्गाः पञ्चसत्तास्थानकाः। ___"पणगा हवन्ति तिन्नेव" अत्र "बायरा” इति सम्बध्यते / पर्याप्तबादरैकेन्द्रियस्य पञ्च बन्धस्थानानि, तद्यथा-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः एकोनत्रिंशत् त्रिंशत् / एतानि तिर्यग्-मनुष्यप्रायोग्याणि, तानि च प्रागिव द्रष्टव्यानि / उदयस्थानानि पञ्च, तद्यथा-एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिश्च / तत्रैकविंशतिरियम्-तैजसं कामणम् अगुरुलघु स्थिरा-स्थिरे शुभा-ऽशुभे वर्णादिचतुष्टयं निर्माणं तिर्यग्गतिः तिर्यगानुपूर्वी एकेन्द्रियजातिः स्थावरनाम बादरनाम पर्याप्तकनाम दुर्भगम् अनादेयं यशःकीर्ति-अयशःकीयोरेकतरेति / एषा चैकविंशतिः पर्याप्तबादरस्यापान्तरालगतौ वर्तमानस्यावसेया, अत्र यशःकीर्ति-अयशःकीर्तिभ्यां द्वौ भङ्गौ / ततः शरीरस्थस्यौदारिकशरीरं हुण्डसंस्थानम् उपघातनाम प्रत्येक साधारणयोरेकतरमिति प्रकृतिचतुष्टयं प्रक्षिप्यते तिर्यगानुपूर्वी चापनीयते ततश्चतुर्विशतिर्भवति, अत्र प्रत्येक-साधारण-यशःकीर्ति-अयशःकीर्तिपदैश्चत्वारो भङ्गाः / वैक्रियं कुर्वतः पुनद्विरवायुकायिकस्यैकः, यतस्तस्य साधारण-यशःकीर्ती उदयं नागच्छतः, अन्यच्च वैक्रियवायुकायिकचतुर्विशतावौदारिकशरीरस्थाने वैक्रियशरीरमिति वक्तव्यम् , शेषं तथैव / सर्वसत्यया चतुर्विशतौ पञ्च भङ्गाः / ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रक्षिप्ते पञ्चविंशतिः, अत्रापि तथैव पञ्च भङ्गाः / ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छासे क्षिप्ते षड्विंशतिः, अत्रापि तथैव पञ्च भङ्गाः / अथवा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वासेऽनुदिते आतप-उद्योतान्यतरस्मिंस्तूदिते षड्विंशतिः, अत्रातपेन प्रत्येक-यशःकीर्ति-अयशःकीर्तिपदी भनौ, साधारणस्यातपोदयाभावात् तदाश्रितौ विकल्पो न भवतः / उद्योतेन प्रत्येक-साधारण-यशःकीर्ति-अयशःकीर्तिपदैश्चत्वारः / सर्वसङ्ख्यया षड्विंशतावेकादश भङ्गाः / ततः प्राणापानपर्याप्त्या पर्याप्तस्य उच्छ्वाससहितायां 1 सं० 1 त० म० नावाप्य° //