Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 270
________________ 37-38] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 205 स्थानानि, तानि चाष्टौ विंशति-चतुर्विंशति-नवा-ऽष्टरहितानि / सर्वाण्यप्युदयस्थानानि तान्यप्यष्टी, विंशति-नवा-ऽष्टोदया हि केवलिनो भवन्ति, चतुर्विंशत्युदयश्चैकेन्द्रियाणाम् , अत एते वय॑न्ते, अत्र केवली संज्ञित्वेन न विवक्षित इति तदुदयप्रतिषेधः / नवा-ऽष्टरहितानि सर्वाण्यपि सत्तास्थानानि, तानि च दश / अत्राप्येकविंशत्युदयभङ्गा अष्टौ, षड्विंशत्युदयभनाश्चाष्टाशीत्यधिकशतद्वयसायाः, 288 पञ्चसत्तास्थानकाः, शेषाश्चतुःसत्तास्थानकाः / ... सम्प्रति संवेधश्चिन्त्यते—सूक्ष्मैकेन्द्रियाणामपर्याप्तानां त्रयोविंशतिबन्धनामेकविंशत्युदये पञ्च सत्तास्थानानि, तद्यथा-द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च / एवं चतुर्विशत्युदयेऽपि / सर्वसङ्ख्यया दश / एवं पञ्चविंशति-षड्विंशति-एकोनत्रिंशत्-त्रिंशद्वन्धकानामपि द्वे द्वे उदयस्थाने अधिकृत्य प्रत्येकं दश दश सत्तास्थानान्यवगन्तव्यानि, सर्वसाध्यया पञ्चाशत् 50 / एवमन्येषामपि षण्णामपर्याप्तानां भावनीयम् , नवरमात्मीये आत्मीये द्वे द्वे उदयस्थाने प्रागुक्तस्वरूपे वक्तव्ये / सूक्ष्मपर्याप्तकानां त्रयोविंशतिबन्धकानामेकविंशत्यादिषु चतुर्वप्युदयस्थानेषु प्रत्येकं पञ्च पञ्च सत्तास्थानानि, सर्वसङ्ख्यया विंशतिः / एवं पञ्चविंशतिषड्विंशति-एफोनत्रिंशत्-त्रिंशद्वन्धकानामपि वक्तव्यम् / ततः सूक्ष्मपर्याप्तानां सर्वसङ्ख्यया सत्तास्थानानि शतम् 100 / बादरैकेन्द्रियपर्याप्तानां त्रयोविंशतिबन्धकानामेकविंशति-चतुर्विंशतिपञ्चविंशति-पड्विंशत्युदयेषु पञ्च पञ्च सत्तास्थानानि, सप्तविंशत्युदये चत्वारि, सर्वसत्यया चतुविंशतिः / एवं पञ्चविंशति-षड्विंशति-एकोनत्रिंशत्-त्रिंशद्वन्धकानामपि प्रत्येकं चतुर्विंशतिश्चतुविंशतिः सत्तास्थानानि वाच्यानि / सर्वसङ्ख्यया पर्याप्तबादरैकेन्द्रियाणां विशं शतं 120 सत्तास्थानानाम् / द्वीन्द्रियपर्याप्तकानां त्रयोविंशतिबन्धकानाम् एकविंशत्युदये षड्विंशत्युदये - पश्च पञ्च सत्तास्थानानि , अष्टाविंशति-एकोनत्रिंशत्-त्रिंशद्-एकत्रिंशदुदयेषु तु प्रत्येकं चत्वारि चत्वारीति सर्वसंख्यया षड्विंशतिः / एवं पञ्चविंशति-पत्रिंशति-एकोनत्रिंशत्-त्रिंशद्वन्धकानां प्रत्येक पत्रिंशतिः षड्विंशतिः सत्तास्थानानि, सर्वसङ्ख्यया त्रिंश शतम् 130 / एवं त्रीन्द्रियाणां चतुरिन्द्रियाणामपि पर्याप्तानां वक्तव्यम् / असंज्ञिपञ्चेन्द्रियाणामपि पर्याप्तानां त्रयोविंशतिबन्धकानामेकविंशत्युदये षड्विंशत्युदये च प्रत्येकं पञ्च पञ्च ससास्थानानि, अष्टाविंशति-एकोनत्रिंशत्त्रिंशद्-एकत्रिंशदुदयेषु तु चत्वारि चत्वारीति सर्वसङ्ख्यया षड्विंशतिः। एवं पञ्चविंशति-ट्विंशति-एकोनत्रिंशत्-त्रिंशद्वन्धकानामपि वक्तव्यम् / अष्टाविंशतिबन्धकानां पुनस्तेषां द्वे एवोदयस्थाने, तद्यथा-त्रिंशदेकत्रिंशश्च / तत्र प्रत्येकं त्रीणि त्रीणि सत्तास्थानानि, तबथा-द्विनवतिः 'अष्टाशीतिः षडशीतिश्च / अष्टाविंशतिर्हि देवगतिप्रायोग्या नरकगतिप्रायोग्या वा, ततस्तस्यां बध्यमानायामवश्यं वैक्रियचतुष्टयादि बध्यते इत्यशीति-अष्टसप्तती न प्राप्येते / सर्वसामया पर्याप्तासंज्ञिपञ्चेन्द्रियाणां षट्त्रिंशं सत्तास्थानानां शतम् 136 / पर्याप्तसंज्ञिपञ्चेन्द्रियाणां त्रयोविंशति- बन्धकानां प्रागिव पर्दिशतिः सत्तास्थानानि वाच्यानि / एवं पञ्चविंशतिबन्धकानामपि, नवरं मुद्वि छा० •ति कृत्वा त° // 2 सं० वक्तव्यानि // 3 सं०१त०म०च प्रत्येकं प०॥ सं० °नि,प्रन्याप्रम् 2000, अ° // 5 सं०१त०म० तु चत्वा' / / सं० सं०१सं० २०म०°मपि बक॥

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334