Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 273
________________ 208 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः मिस्साइ नियहीओ, छ चउ पण नव य संतकम्मंसा। चउबंध तिगे चउ पण, नवंस दुसु जुयल छ स्संता // 40 // 'मिश्रादिषु मिश्रप्रभृतिषु गुणस्थानकेषु अप्रमत्तगुणस्थानकपर्यन्तेषु 'निवृत्तौ' च अपूर्वकरणे च अपूर्वकरणाद्धायाः प्रथमे सङ्येयतमभागे चेत्यर्थः, परतो निद्राद्विकबन्धव्यवच्छेदेन षडिधबन्धासम्भवात् , तत एतेषु षडिधो बन्धश्चतुर्विधः पञ्चविधो वा उदयः नवविधा सत्तेति द्वौ विकल्पौ। “चउबंध तिगे चउ पण नवंस" त्ति इहापूर्वकरणाद्धायाः प्रथमे सद्ध्येयतमे भागे गते सति निद्रा-प्रचलयोर्बन्धव्यवच्छेदो भवति, ततोऽत ऊर्ध्वमपूर्वकरणेऽपि चतुर्विध एव बन्धः / ततः 'त्रिके' अपूर्वकरणा-ऽनिवृत्तिबादर-ऽसूक्ष्मसम्परायरूपे चतुर्विधो बन्धश्चतुर्विधः पञ्चविधो वा उदयः, "नवंस" इति नवविधा सत्तेति प्रत्येकं द्वौ द्वौ विकल्पो, अंश इति सत्ताऽभिधीयते / एतच्चोक्तमुपशमश्रेणीमधिकृत्य, क्षपकश्रेण्यां गुणस्थानकत्रयेऽपि पञ्चविधस्योदयस्य सूक्ष्मसम्पराये च नवविधायाः सत्ताया अप्राप्यमाणत्वात् "दुसु जुयल छ स्संत" त्ति इह क्षपकश्रेण्यामनिवृत्तिबादरसम्परायाद्धायाः सङ्ख्येयतमेषु भागेषु गतेषु सत्सु एकस्मिन् भागे मद्येयतमेऽवतिष्ठमाने स्त्यानद्धित्रिकस्य सत्ताव्यवच्छेदो भवति, ततस्तदनन्तरमनिवृत्तिबादरेऽपि षड़िधैव सत्ता भवति, तत आह-"दुसु" ति 'द्वयोः' अनिवृत्तिबादर-सूक्ष्मसम्पराययोर्युगलमिति बन्धउदयावुच्येते / चतुरिति चानुवर्तते, ततश्चतुर्विधो बन्धश्चतुर्विध उदयः "छ स्संत" त्ति षड्डिधा सत्ता / अत्र पश्चविध उदयो न प्राप्यते, क्षपकाणामत्यन्तविशुद्धतया निद्राद्विकस्योदयाभावात् / उक्तं च कर्मप्रकृतिचूर्णावुदीरणाकरणे 'इंदियपज्जत्तीए अणंतरे समए सबो वि निदापयलमुदीरगो भवइ, नवरं खीणकसायखवगे मोत्तूणं, तेसि उदओ नत्थि त्ति काउं। // 40 // . उवसंते चउ पण नव, खीणे चउरुदय छच्च चउ संतं। 'उपशान्ते' उपशान्तमोहे बन्धो न भवति, तस्य सूक्ष्मसम्पराये एव व्यवच्छिन्नत्वात् , ततः केवलश्चतुर्विधः पञ्चविधो वा उदयो नवविधा सत्ता / उपशमकोपशान्तमोहां हत्यन्तविशुद्धा न भवन्ति, ततस्तेषु निद्राद्विकस्याप्युदयः सम्भवति / 'क्षीणे' क्षीणमोहे चतुर्विध उदयः षडिधा सत्ता, एष विकल्पो द्विचरमसमयं यावत् / चरमसमये तु निद्रा-प्रचलयोः सत्ताव्यवच्छेदाद् अयं विकल्पः-चतुर्विध उदयश्चतुर्विधा सत्ता // वेयणियाउयगोए, विभन्न वेदनीयाऽऽयु-र्गोत्राणां बन्ध-उदय-सत्तास्थानानि यथागमं गुणस्थानकेषु 'विभजेत्' विकल्पयेत् / 1 इन्द्रियपर्याप्त्या अनन्तरे समये सर्वोऽपि निद्रा-प्रचलयोरुदीरको भवति, नवरं क्षीणकषाय-क्षपकान् मुक्त्वा, तेषामुदयो नास्तीति कृत्वा // 2 त० म० °मके उप° / /

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334