Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 263
________________ 198 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः समनाः-संज्ञी, तत्र पर्याप्त संज्ञिनि आयुषा भङ्गा अष्टाविंशतिः, अपर्याप्ते संज्ञिनि ' भङ्गानां दशकम्, पर्याप्ते 'अमनसि' असंज्ञिनि पञ्चेन्द्रिये भङ्गानां नवकम्, 'शेषेषु' एकादशसु जीवस्थानेषु पुनर्भङ्गानां प्रत्येकं पञ्चकमिति / तत्र संज्ञिनि पर्याप्ते इमे अष्टाविंशतिर्भङ्गाः-- नैरयिकस्य नरकायुष उदयो नरकायुः सत् , अयं परभवायुर्बन्धकालात् पूर्वम् , परभवायुर्वन्धकाले तिर्यगायुषो बन्धः नरकायुष उदयः नरक-तिर्यगायुषी सती, अथवा मनुष्यायुषो बन्धः नरकायुष उदयः नरक-मनुष्यायुषी सती। परभवायुर्बन्धोत्तरकालं नरकायुष उदयः नरक-तिर्यगायुषी सती, अथवा नरकायुष उदयः मनुष्य-नारकायुषी सती / इह नारका देवायुारकायुश्च भवप्रत्ययादेव न बध्नन्ति, तत्रोत्पत्त्यभावात् , ततो नारकाणां परभवायुर्बन्धकाले बन्धोत्तरकाले च देवायुर्नारकायु विकल्पाभावात् सर्वसङ्ख्यया पञ्च विकल्पाः / एवं देवानामपि पश्च विकरुपा भावनीयाः, नवरं नारकायुःस्थाने देवायुरिति वक्तव्यम् , तद्यथा—देवावुष उदयः देवायुषः सत्ता इत्यादि / तथा तिर्यगायुष उदयः तिर्यगायुषः सत्ता, अयं विकल्पः परभवायुर्बन्धकालात् पूर्वम् / परभवायुर्बन्धकाले तु नरकायुषो बन्धः तिर्यगायुष उदयः नरकतिर्यगायुषी सती, अथवा तिर्यगायुषो बन्धः तिर्यगायुष उदयः तिर्यक्-तिर्यगायुषी सती, .. अथवा मनुष्यायुषो बन्धः तिर्यगायुष उदयः मनुष्य-तिर्यगायुषी सती, अथवा देवायुषो बन्धः तिर्यगायुष उदयः देव-तिर्यगायुषी सती / परभवायुर्बन्धोत्तरकालं तिर्यगायुष उदयो नरकतिर्यगायुषी सती, अथवा तिर्यगायुष उदयः तिर्यक्-तिर्यगायुषी सती, अथवा तिर्यगायुष उदयो मनुष्य-तिर्यगायुषी सती, अथवा तिर्यगायुष उदयो देव-तिर्यगायुषी सती / सर्वसझपया संज्ञिपर्याप्ततिरश्चां नव विकल्पाः / एवं मनुष्याणामपि नव भङ्गा भावनीयाः, केवलं तिर्यगायुःस्थाने मनुष्यायुरित्यभिधातव्यम् , तद्यथा-मनुष्यायुष उदयो मनुष्यायुषः सत्तेत्यादि / तदेवं सर्वसत्यया संज्ञिनि पर्याप्तेऽष्टाविंशतिर्भङ्गाः / अपर्याप्ते संज्ञिनि आयुषो दश, भङ्गा इमेतिर्यगायुष उदयः तिर्यगायुषः सत्ता, अयं विकल्पः परभवायुर्बन्धकालात् पूर्वम् / परभवायुर्बन्धकाले तिर्यगायुषो बन्धः तिर्यगायुष उदयः तिर्यक्-तिर्यगायुषोः सत्ता, अथवा मनुष्यायुषो बन्धः तिर्यगायुष उदयो मनुष्य-तिर्यगायुषी सती / परभवायुर्बन्धोत्तरकालं तिर्यगायुष उदयः तिर्यक्-तिर्यगायुषी सती, अथवा तिर्यगायुष उदयो मनुष्य-तिर्यगायुषी सती / एवं तिरश्वोऽपप्तिसंज्ञिनः पञ्च भङ्गाः / एवं मनुष्यस्यापि पञ्च वक्तव्याः। सर्वसङ्ख्यया दश / शेषा न सम्भवन्ति, अपर्याप्तो हि संज्ञी तिर्यङ् मनुष्यो वा, न देव-नारको, न चापि स देवायु रकायुर्वा बध्नाति, ततो दशैव यथोक्ता भङ्गाः / तथा ये प्राक् संज्ञितिरश्चां नव भङ्गा उक्तास्त एवासंज्ञिपर्याप्तेऽपि नव भङ्गा वक्तव्याः, यतोऽसंज्ञी पर्याप्तस्तिर्यगेव भवति न मनुष्यादिः, ततोऽत्र तदाश्रिता भङ्गा न प्राप्यन्ते / तथा येऽपर्याप्तसंज्ञितिरश्यः पश्च भङ्गाः प्रागुक्तास्त एवं पञ्च भनाः शेषेष्वप्येकादशसु जीवस्थानेषु वक्तव्याः, सर्वेषामपि तिर्यक्त्वाद् देवादिषूत्पादाभावाच्च / मोहं परं वोच्छं // 35 // 1 छा० मुद्रि० °ध्य-न° // 2 सं० °काले तिर्य // 3 सं०१ त० म० °युर्बधा // 4 छा० °श्वां प० // 5 सं० सं०१ त० म० deg भगाः / /

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334