Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text ________________ 194 मलयगिरिमहर्षिविनिर्मित धिवृत्युपेतं [गाथाः जैस्स तित्थगराऽऽहारगाणि जुगवं संति सो नेरइएसु न उववजह / ( ) इति / एवं पञ्चविंशति-सप्तविंशति-अष्टाविंशति-एकोनत्रिंशत्-त्रिंशदुदयेष्वपि भावनीयम् / नवरं नैरयिकस्य त्रिंशदुदयो न विद्यते, त्रिंशदुदयो हि उद्योते सति प्राप्यते, न च नैरयिकस्योयोतोदयो भवति / तदेवं सामान्येन त्रिंशद्वन्धकानामेकविंशत्युदये सप्त, चतुर्विशत्युदये पञ्च, पञ्चविंशत्युदये सप्त, षड्विंशत्युदये पञ्च, सप्तविंशत्युदये षट् , अष्टाविंशत्युदये षट् , एकोनविंशदुदये षट्, त्रिंशदुदये षट् , एकत्रिंशदुदये चत्वारि, सर्वसङ्ख्यया द्विपञ्चाशत् 52 / / 31 // “एगेगमेगतीस" त्ति एकत्रिंशति बध्यमानायामेकमुदयस्थानं त्रिंशत् , यत एकत्रिंशद् देवगतिप्रायोग्यं तीर्थकरा-ऽऽहारकसहितं बनतोऽप्रमत्तसंयतस्यापूर्वकरणस्य वा प्राप्यते, न च ते वैक्रियमाहारकं वा कुर्वन्ति, ततः पञ्चविंशत्यादय उदया न प्राप्यन्ते / एकं सत्तास्थानं त्रिनवतिः, तीर्थकरा-ऽऽहारकचतुष्टययोरपि सत्तासम्भवात् / "एगे एगुदय अट्ट संतम्मि" 'एकस्मिन्' यशःकीर्तिरूपे कर्मणि बध्यगाने एकमुदयस्थान त्रिंशत् एकां हि यशःकीर्ति बध्नन्ति अपूर्वकरणादयः, ते चातिविशुद्धन्वाद् वैक्रियमाहारकं वा नारभन्ते, ततः पञ्चविंशत्यादीन्युदयस्थानानीहापि न प्राप्यन्ते / अष्टौ सत्तायां स्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च / तत्राद्यानि चत्वारि सत्तास्थानानि उपशमश्रेण्याम् अथवा क्षपकश्रेण्यां यावदनिवृत्तिबादरगुणस्थाने गत्वा त्रयोदश नामानि न क्षप्यन्ते / त्रयोदशसु च नामसु क्षीणेषु नानाजीवापेक्षयोपरितनानि चत्वारि लभ्यन्ते, तानि च तावद् लभ्यन्ते यावत् सूक्ष्मसम्परायगुणास्थानम् / "उवरयबंधे दस दस वेयग संतम्मि ठाणाणि" उपरते बन्धे बन्धाभावे इत्यर्थः, "वेयग" त्ति वेदनं वेदो वेद एव वेदकस्तस्मिन् उदये इत्यर्थः सत्तायां च प्रत्येकं दश दश स्थानानि / तत्रामुनि दश उदयस्थानानि, तद्यथा-विंशतिः एकविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशद् नव अष्टौ च / तत्र विंशति-एकविंशती यथासङ्ग्यमतीर्थकर-तीर्थकरयोः सयोगिकेवलिनोः कार्मणकाययोगे वर्तमानयोः / षड्विंशति-सप्तविंशती तयोरेवौदारिकमिश्रकाययोगे वर्तमानयोः / अतीर्थकरस्य स्वभावस्थस्य त्रिंशत् , तस्यैव स्वरे निरुद्धे एकोनत्रिंशत् , उच्छासेऽपि निरुद्धेऽष्टाविंशतिः; तीर्थकरस्य स्वभावस्थस्य एकत्रिंशत् , तस्यैव स्वरे निरुद्धे त्रिंशत् , उच्छ्वासेऽपि निरुद्धे एकोनत्रिंशत् ; एवं च द्विधा त्रिंशद्-एकोनत्रिंशतौ प्राप्येते / अयोगिनस्तीर्थकरस्य चरमसमये वर्तमानस्य नवोदयः, अतीर्थकरस्यायोगिनोऽष्टोदयः / दश सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिः नव अष्टौ च / तत्र विंशत्युदये द्वे सत्तास्थाने—एकोनाशीतिः पञ्चसप्ततिश्च / एवं षड्विंशत्युदयेऽष्टाविंशत्युदयेऽपि द्रष्टव्यम् / एकविं 1 यस्य तीर्थकरा-ऽऽहारके युगपत् स्तः स नैरयिकेषु नोपपद्यते // 2 सं० 1 त० म० °सहितं कर्म ब° // 3 सं० 1 त० छा० म० तास्था' / / 4 सं० छा० मुद्रि० शत् , तस्यैवोच्छ्वा //
Loading... Page Navigation 1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334