________________ 194 मलयगिरिमहर्षिविनिर्मित धिवृत्युपेतं [गाथाः जैस्स तित्थगराऽऽहारगाणि जुगवं संति सो नेरइएसु न उववजह / ( ) इति / एवं पञ्चविंशति-सप्तविंशति-अष्टाविंशति-एकोनत्रिंशत्-त्रिंशदुदयेष्वपि भावनीयम् / नवरं नैरयिकस्य त्रिंशदुदयो न विद्यते, त्रिंशदुदयो हि उद्योते सति प्राप्यते, न च नैरयिकस्योयोतोदयो भवति / तदेवं सामान्येन त्रिंशद्वन्धकानामेकविंशत्युदये सप्त, चतुर्विशत्युदये पञ्च, पञ्चविंशत्युदये सप्त, षड्विंशत्युदये पञ्च, सप्तविंशत्युदये षट् , अष्टाविंशत्युदये षट् , एकोनविंशदुदये षट्, त्रिंशदुदये षट् , एकत्रिंशदुदये चत्वारि, सर्वसङ्ख्यया द्विपञ्चाशत् 52 / / 31 // “एगेगमेगतीस" त्ति एकत्रिंशति बध्यमानायामेकमुदयस्थानं त्रिंशत् , यत एकत्रिंशद् देवगतिप्रायोग्यं तीर्थकरा-ऽऽहारकसहितं बनतोऽप्रमत्तसंयतस्यापूर्वकरणस्य वा प्राप्यते, न च ते वैक्रियमाहारकं वा कुर्वन्ति, ततः पञ्चविंशत्यादय उदया न प्राप्यन्ते / एकं सत्तास्थानं त्रिनवतिः, तीर्थकरा-ऽऽहारकचतुष्टययोरपि सत्तासम्भवात् / "एगे एगुदय अट्ट संतम्मि" 'एकस्मिन्' यशःकीर्तिरूपे कर्मणि बध्यगाने एकमुदयस्थान त्रिंशत् एकां हि यशःकीर्ति बध्नन्ति अपूर्वकरणादयः, ते चातिविशुद्धन्वाद् वैक्रियमाहारकं वा नारभन्ते, ततः पञ्चविंशत्यादीन्युदयस्थानानीहापि न प्राप्यन्ते / अष्टौ सत्तायां स्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च / तत्राद्यानि चत्वारि सत्तास्थानानि उपशमश्रेण्याम् अथवा क्षपकश्रेण्यां यावदनिवृत्तिबादरगुणस्थाने गत्वा त्रयोदश नामानि न क्षप्यन्ते / त्रयोदशसु च नामसु क्षीणेषु नानाजीवापेक्षयोपरितनानि चत्वारि लभ्यन्ते, तानि च तावद् लभ्यन्ते यावत् सूक्ष्मसम्परायगुणास्थानम् / "उवरयबंधे दस दस वेयग संतम्मि ठाणाणि" उपरते बन्धे बन्धाभावे इत्यर्थः, "वेयग" त्ति वेदनं वेदो वेद एव वेदकस्तस्मिन् उदये इत्यर्थः सत्तायां च प्रत्येकं दश दश स्थानानि / तत्रामुनि दश उदयस्थानानि, तद्यथा-विंशतिः एकविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशद् नव अष्टौ च / तत्र विंशति-एकविंशती यथासङ्ग्यमतीर्थकर-तीर्थकरयोः सयोगिकेवलिनोः कार्मणकाययोगे वर्तमानयोः / षड्विंशति-सप्तविंशती तयोरेवौदारिकमिश्रकाययोगे वर्तमानयोः / अतीर्थकरस्य स्वभावस्थस्य त्रिंशत् , तस्यैव स्वरे निरुद्धे एकोनत्रिंशत् , उच्छासेऽपि निरुद्धेऽष्टाविंशतिः; तीर्थकरस्य स्वभावस्थस्य एकत्रिंशत् , तस्यैव स्वरे निरुद्धे त्रिंशत् , उच्छ्वासेऽपि निरुद्धे एकोनत्रिंशत् ; एवं च द्विधा त्रिंशद्-एकोनत्रिंशतौ प्राप्येते / अयोगिनस्तीर्थकरस्य चरमसमये वर्तमानस्य नवोदयः, अतीर्थकरस्यायोगिनोऽष्टोदयः / दश सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिः नव अष्टौ च / तत्र विंशत्युदये द्वे सत्तास्थाने—एकोनाशीतिः पञ्चसप्ततिश्च / एवं षड्विंशत्युदयेऽष्टाविंशत्युदयेऽपि द्रष्टव्यम् / एकविं 1 यस्य तीर्थकरा-ऽऽहारके युगपत् स्तः स नैरयिकेषु नोपपद्यते // 2 सं० 1 त० म० °सहितं कर्म ब° // 3 सं० 1 त० छा० म० तास्था' / / 4 सं० छा० मुद्रि० शत् , तस्यैवोच्छ्वा //