________________ 31-32] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 193 वात् / सामान्येनैकोनत्रिंशद्वन्धे सप्त सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च / तत्र विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रियप्रायोग्यामेकोनत्रिंशतं बनता पर्याप्ता-ऽपर्याप्तैकेन्द्रिय-विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रियाणामेकविंशत्युदये वर्तमानानां पञ्च सत्तास्थानानि, तद्यथा-द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च / एवं चतुर्विशति-पञ्चविंशति-षड्विंशत्युदयेष्वपि वक्तव्यम् / सप्तविंशति-अष्टाविंशति-एकोनत्रिंशत्त्रिंशद्-एकत्रिंशदुदयेष्वष्टसप्ततिवर्जीनि चत्वारि चत्वारि सत्तास्थानानि, भावना यथा त्रयोविंशतिबन्धकानां प्राग् उक्ता तथाऽत्रापि कर्तव्या। मनुजगतिप्रायोग्यामेकोनत्रिंशतं बनतामेकेन्द्रिय-विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रियाणां तिर्यग्गति-मनुष्यगतिप्रायोग्यां पुनर्बनतां मनुष्याणां च स्वस्वोदयस्थानेषु यथायोगं वर्तमानानामष्टसप्ततिवर्जानि तान्येव चत्वारि सत्तास्थानानि वेदितन्यानि / देव-नैरयिकाणां तिर्यक्पञ्चेन्द्रिय-मनुष्यगतिप्रायोग्यामेकोनत्रिंशतं बघ्नतां स्वस्वोदयेषु वर्तमानानां द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिरष्टाशीतिश्च / केवलं नैरयिकस्य मिथ्याहरेस्तीर्थकरसत्कर्मणो मनुष्यगतिप्रायोग्यामेकोनत्रिंशतं बनतः स्वोदयेषु पञ्चसु यथायोगं वर्तमानस्यैकोननवतिरेवैका वक्तव्या, यतस्तीर्थकरनामसहितस्याहारकचतुष्टयरहितस्यैव मिथ्यात्वगमनसम्भवः, “उँभसंतिओ न मिच्छो” ( ) इति वचनात्; ततस्त्रिनवतेराहारकचतुकेऽपनीते सत्येकोननवतिरेव तस्य सत्तायां भवति / देवगतिप्रायोग्यामेकोनत्रिंशतं तीर्थकरनामसहितां बनतः पुनरविरतसम्यग्दृष्टेर्मनुष्यस्यैकविंशत्युदये वर्तमानस्य द्वे सत्तास्थाने, तद्यथात्रिनवतिरेकोननवतिश्च / एवं पञ्चविंशति-षड्विंशति-सप्तविंशति-अष्टाविंशति-एकोनत्रिंशत्-त्रिशदुदयेष्वपि ते एव द्वे द्वे सत्तास्थाने वक्तव्ये / आहारकसंयतानां पुनः स्वस्वोदये वर्तमानानामेकमेव त्रिनवतिरूपं सत्तास्थानमवगन्तव्यम् / तदेवं सामान्येनैकोनत्रिंशद्वन्धे एकविंशत्युदये सम्म सत्तास्थानानि, चतुर्विंशत्युदये पञ्च, पञ्चविंशत्युदये सप्त, षड्विंशत्युदये सप्त, सप्तविंशत्युदये पद, अष्टाविंशत्युदये षद्, एकोनत्रिंशदुदये षट्, त्रिंशदुदये षद्, एकत्रिंशदुदये चत्वारि, सर्वसामया चतुःपञ्चाशत् सत्तास्थानानि 54 / तथा यथा तिर्यग्गतिप्रायोग्यामेकोनत्रिंशतं वभ्रतामेकेन्द्रिय-विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुज-देव-नैरयिकाणामुदय-सत्तास्थानानि भावितानि तथा त्रिंशतमप्युयोतसहितां तिर्यग्गतिप्रायोग्यां बनतामेकेन्द्रियादीनामुदय-सत्तास्थानानि भावनीयानि / मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां त्रिंशतं बनतां देव-नैरयिकाणामुदय-सत्तास्थानान्युच्यन्ते / तत्र देवस्य यथोक्तां त्रिंशतं बनत एकविंशत्युदये वर्तमानस्य द्वे सत्तास्थानेत्रिनवतिरेकोननपतिश्च / एकविंशत्युदये वर्तमानस्य नैरयिकस्यैकं सत्तास्थानं एकोननवतिः / त्रिनवतिरूपं तु तस्य सत्तास्थानं न भवति, तीर्थकरा-ऽऽहारकसत्कर्मणो नरकेपुत्पादाभावात् / . उक्तं च चूर्णी मुद्रिक छा० नान्यमूनि, त° // 2 सं० सं०१ त० म० °ानि चत्वारि सत्ता // 3 सं० - सं० 1 त० स्वारि चत्वारि सत्ता० // 4 उभयसत्ताको न मिथ्यादृष्टिः // 25