________________ 192 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [ गाथाः द्विनवतिः एकोननवतिः अष्टाशीतिः षडशीतिश्च / तत्र द्विनवतिरष्टाशीतिश्च प्रागिव भावनीया / एकोननवतिः पुनरेवम्-कश्चिद् मनुष्यस्तीर्थकरनामसत्कर्मा वेदकसम्यग्दृष्टिः पूर्वबद्धनरकायुष्को नरकाभिमुखः सम्यक्त्वात् प्रच्युत्य मिथ्यात्वं गतः, तस्य तदा तीर्थकरनामबन्धाभावाद् नरकगतिप्रायोग्यामष्टाविंशतिं बध्नतः एकोननवतिः सत्तायां प्राप्यते / षडशीतिस्त्वेवम्-इह तीर्थकराऽऽहारकचतुष्क-देवगति-देवानुपूर्वी-नरकगति-नरकानुपूर्वी-वैक्रियचतुष्टयरहिता त्रिनवतिरशीतिर्भवति, ततस्तत्सकर्मा पञ्चेन्द्रियतिर्यङ् मनुष्यो वा जातः सन् सर्वाभिः पर्याप्तिभिः पर्याप्तो यदि विशुद्धः ततो देवगतिप्रायोग्यामष्टाविंशतिं बध्नाति, तद्वन्धे च देवद्विकं वैक्रियचतुष्टयं च सत्तायां प्राप्यते इति तस्य षडशीतिः / अथ सर्वसंक्लिष्टस्ततो नरकगतिप्रायोग्यामष्टाविंशतिं बध्नाति, तद्वन्धे च नरकद्विकं वैक्रियचतुष्टयं चावश्यं बध्यमानत्वात् सत्तायां प्राप्यते इत्येवमपि तस्य षडशीतिः / एकत्रिंशदुदये त्रीणि सत्तास्थानानि, तद्यथा-द्विनवतिरष्टाशीतिः षडशीतिश्च / एकोननवतिरिह न प्राप्यते, 'एकत्रिंशदुदयो हि तिर्यक्पञ्चेन्द्रियेषु प्राप्यते, न च तिर्यक्षु तीर्थकरनाम सद् भवति, तीर्थकरनामसत्कर्मणः तिर्यसूत्पादाभावात् / षडशीतिसत्तास्थानभावना च प्रागिव वेदितव्या / तदेवमष्टाविंशतिबन्धकानामष्टावप्युदयस्थानान्यधिकृत्यैकोनविंशतिसङ्ग्यानि सत्तास्थानानि भवन्ति / "नव सत्तुगतीस तीसम्मि" एकोनविंशति त्रिंशति च बध्यमानायां प्रत्येकं नव नवोदयस्थानानि, सप्त सप्त सत्तास्थानानि / तत्रोदयस्थानान्यमूनि, तद्यथा-एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् / तत्रैकविशत्युदयस्तिर्यङ्-मनुष्यप्रायोग्यामेकोनत्रिंशतं बध्नतां पर्याप्ता-ऽपर्याप्तैकेन्द्रिय-विकलेन्द्रिय-तिर्यङ्मनुष्याणां देव-नैरयिकाणां च / चतुर्विशत्युदयः पर्याप्ता-ऽपर्याप्तैकेन्द्रियाणाम्। पञ्चविंशत्युदयः पर्याप्तैकेन्द्रियाणां देव-नैरयिकाणां वैक्रियतिर्यङ्-मनुष्याणां च मिथ्यादृष्टीनाम् / षड्विंशत्युदयः पर्याप्तैकेन्द्रियाणां पर्याप्ता-ऽपर्याप्तविकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुष्याणाम् / सप्तविंशत्युदयः पर्यासैकेन्द्रियाणां देव-नैरयिकाणां वैक्रियतिर्यङ्-मनुष्याणां च मिथ्यादृष्टीनाम् / अष्टाविंशत्युदय एकोनत्रिंशदुदयश्च विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुष्याणां वैक्रियतिङ्-मनुष्य-देव-नैरयिकाणां च / त्रिंशदुदयो विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुष्याणां देवानां च उद्योतवेदकानाम् / एकत्रिशदुदयः पर्याप्तविकलेन्द्रिय-तिर्यक्पञ्चेन्द्रियाणां उद्योतवेदकानाम् / तथा देवगतिप्रायोग्यामेकोनत्रिशतं बनतो मनुष्यस्याविरतसम्यग्दृष्टेरुदयस्थानानि पञ्च, तद्यथा-एकविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् / आहारकसंयतानां वैक्रियसयतानां च इमानि पञ्च उदयस्थानानि, तद्यथा-पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् / असंयतानां संयतासंयतानां च वैक्रियं कुर्वतां मनुष्याणां त्रिंशद्वर्जानि चत्वार्युदयस्थानानि / त्रिंशत् कस्मान्न भवति ? इति चेदुच्यते--संयतान् मुक्त्वाऽन्येषां मनुष्याणां वैक्रियमपि कुर्वतामुद्योतोदयाभा 1 सं० सं० 1 त० स० षु भवति / न // 2 सं० 1 म० °न्द्रियाणां पर्याप्तापर्याप्तविक° / सं०°न्द्रियविकलेन्द्रियपश्चेन्द्रियतिर्य॥३ सं०१म० चावसेयः / च°॥४ त०म०°ष्याणां दे॥