________________ 31-32 चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् 191 इति / तदेवं त्रयोविंशतिबन्धकानां यथायोगं नवाप्युदयस्थानान्यधिकृत्य चत्वारिंशत्सङ्ख्यानि सत्तास्थानानि भवन्ति / पञ्चविंशति-षड्विंशतिबन्धकानामप्येवमेव, केवलं पर्याप्तैकेन्द्रियप्रायोग्यपञ्चविंशति-षड्रिंशतिबन्धकानां देवानाम् एकविंशति-षविंशति-सप्तविंशति-अष्टाविंशति-एकोनत्रिंशत्-त्रिंशद्रूपेषु षट्सूदयस्थानेषु द्विनवतिरष्टाशीतिश्चेति द्वे द्वे सत्तास्थाने वक्तव्ये / अपर्याप्तविकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुष्यप्रायोग्यां तु पञ्चविंशतिं देवा न बध्नन्ति, अपर्याप्तेषु विकलेन्द्रियेषु तिर्यक्पञ्चेन्द्रियेषु मनुष्येषु च मध्ये देवानामुत्पादाभावात् / सामान्येन पञ्चविंशतिबन्धे षड्विंशतिबन्धे च प्रत्येकं नवाप्युदयस्थानान्यधिकृत्य चत्वारिंशचत्वारिंशच सत्तास्थानानि / "अट्ट चउरऽट्ठवीस" त्ति अष्टाविंशतौ बध्यमानायामष्टावुदयस्थानानि, तद्यथा-एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् / इह द्विधा अष्टाविंशतिः-देवगतिप्रतिप्रायोग्या नरकगतिप्रायोग्या च / तत्र देवगतिप्रायोग्याया बन्धेऽष्टाप्युदयस्थानानि नानाजीवापेक्षया प्राप्यन्ते, नरकगतिप्रायोग्यायास्तु बन्धे द्वे, तद्यथा-त्रिंशद् एकत्रिंशत् / तत्र देवगतिप्रायोग्याष्टाविंशतिबन्धकानामेकविंशत्युदयः क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा पञ्चेन्द्रियतिर्यङ्-मनुष्याणामपान्तरालगतौ वर्तमानानामवसेयः / पञ्चविंशत्युदय आहारकसंयतानां वैक्रियतिर्यङ्-मनुष्याणां च सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा / षड्विंशत्युदयः क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा पञ्चेन्द्रियतिर्यङ्-मनुष्याणां शरीरस्थानाम् / सप्तविंशत्युदय आहारकसंयतानां वैक्रियतिर्यङ्-मनुष्याणां तु सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा / अष्टाविंशति-एकोनत्रिंशदुदयावपि यथाक्रमं शरीरपर्याप्त्या प्राणापानपर्याप्त्या च पर्याप्तानां तिर्यङ्मनुष्याणां क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा, तथा आहारकसंयातानां वैक्रियसंयतानां वैक्रियतिर्यङ्-मनुष्याणां च सम्यग्दृष्टीनां मिथ्यादृष्टीनां वाऽवसेयौ / त्रिंशदुदयस्तिर्यङ्-मनुष्याणां सम्यग्दृष्टीनां मिथ्यादृष्टीनां सम्यग्मिध्यादृष्टीनां वा, तथा आहारकसंयतानां वैक्रियसंयतानां वा / एकत्रिंशदुदयः पञ्चेन्द्रियतिरश्चां सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा / नरकगतिप्रायोम्यां खष्टाविंशतिं बनतां त्रिंशदुदयः पञ्चेन्द्रियतिर्यङ्-मनुष्याणां मिथ्यादृष्टीनाम् / एकत्रिंशदुदयः पञ्चेन्द्रियतिरश्चां मिथ्यादृशाम् / अष्टाविंशतिबन्धकानां सामान्येन चत्वारिसत्तास्थानानि, तद्यथाद्विनवतिः एकोननवतिः अष्टाशीतिः षडशीतिश्च / तत्रैकविंशत्युदये वर्तमानानां देवगतिप्रायोग्याष्टाविंशतिबन्धकानां द्वे सत्तास्थाने, तद्यथा-द्विनवतिरष्टाशीतिश्च / पञ्चविंशत्युदयेऽप्यष्टाविंशतिबन्धकानानाहारकसंयत-वैक्रियतिर्यङ्-मनुष्याणां सामन्येन ते एव द्वे सत्तास्थाने / तत्राहारकसंयतो नियमादाहारकसत्कर्मा ततस्तस्य द्विनवतिः सत्तास्थानम् , शेषाश्च तिर्यञ्चो मनुष्या वा आहारकसत्कर्माणः तद्रहिताश्च भवन्ति ततस्तेषां द्वे अपि सत्तास्थाने / षड्विंशति-सप्तर्विशति-अष्टाविंशति-एकोनत्रिंशदुदयेष्वपि ते एव द्वे द्वे सत्तास्थाने सामान्येन वेदितव्ये / त्रिंशदुदये देवगति-नरकगतिप्रायोग्याष्टाविंशतिबन्धकानां सामान्येन चत्वारि सत्तास्थानानि, तद्यथा- 1 सं० छा० शति-पञ्चविंशति-सप्त° // 2 सं० 1 त० म० च // 3 मुद्रि० छा० "प्त्या पर्याप्तानां प्राणा // 4 स० म० मुद्रि० 'तानां वैक्रियतिर्यग्-म° // 5 सं०१ त० म० °ध्याश्च आ //