________________ 32-34] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / __ 195 शत्युदये इमे द्वे सत्तास्थाने, तद्यथा-अशीतिः षट्सप्ततिश्च / एवं सप्तविंशत्युदयेऽपि / एकोनत्रिंशति चत्वारि सत्तास्थानानि, तद्यथा-अशीतिः षट्सप्ततिः एकोनाशीतिः पञ्चसप्ततिश्च / यत एकोनत्रिंशत् तीर्थकरस्यातीर्थकरस्य च भवति, तत्राये द्वे तीर्थकरमधिकृत्य वेदितव्ये, अन्तिमे वे अतीर्थकरमधिकृत्य / त्रिंशदुदयेऽष्टौ सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च / तत्राद्यानि चत्वार्युपशान्तकषायस्य / अशीतिः क्षीणकषायस्य सयोगिकेवलिनो वा आहारकसत्कर्मणः तीर्थकरस्य / तस्यैवातीर्थकरस्यैकोनाशीतिः / आहारकचतुष्टयरहितस्य तीर्थकरस्य क्षीणकषायस्य सयोगिके पलिनो वा षट्सप्ततिः। तस्यैवातीर्थकरस्य पञ्चसप्ततिः। एकत्रिंशदुदये द्वे सत्तास्थाने, तद्यथाअशीतिः षट्सप्ततिश्च / एते च तीर्थकरकेवलिनो वेदितव्ये, अतीर्थकरकेवलिन एकत्रिंशदुदयस्यैवाभावात् / नवोदये त्रीणि सत्तास्थानानि, तद्यथा-अशीतिः षट्सप्ततिः नव च / तत्राये द्वे यावद् द्विचरमसमयः तावदयोगिकेवलिनस्तीर्थकरस्य वेदितव्ये, चरमसमये तु नव / अष्टोदये त्रीणि सत्तास्थानानि, तद्यथा—एकोनाशीतिः पञ्चसप्ततिः अष्टौ च / तत्राद्ये द्वे अयोगिकेंवलिनोऽतीर्थकस्य द्विचरमसमयं यावद् वेदितव्ये, चरमसमये त्वष्टाविति / एवमबन्धकस्य दशाप्युदयस्थानानि अधिकृत्य त्रिंशत् सत्तास्थानानि भवन्ति // 32 // तदेवमुक्ता नामप्रकृतीनां बन्धोदयसत्तास्थानभेदाः संवेधश्च / सम्प्रत्युक्तकमेणैवैषां जीवस्थानानि गुणस्थानानि चाधिकृत्य स्वामी निदर्श्यते-- तिविगप्पपगइठाणेहिं जीवगुणसन्निएसु ठाणेसु / भंगा पउंजियव्वा, जत्थ जहा संभवो भवइ // 33 // ..' त्रयो विकल्पाः-बन्ध-उदय-सत्तारूपास्तेषां सम्बन्धीनि प्रकृतिस्थानानि त्रिविकल्पप्रकृतिस्थानानि तैः जीवसंज्ञितेषु गुणसंज्ञितेषु च स्थानेषु जीवस्थानेषु गुणस्थानेषु चेत्यर्थः, भङ्गाः पूर्वोक्तानुसारेण वक्ष्यमाणानुसारेण च प्रयोक्तव्याः। कथम् ? इत्याह-"जत्थ जहा संभवी हवइ" यत्र येषु जीवस्थानेषु गुणस्थानेषु च 'यथा सम्भवो भवति' यथा घटना भवति तत्र तथा प्रयोक्तव्याः, यो यत्र यथा भङ्गो घटते स तत्र तर्थों वक्तव्य इत्यर्थः // 33 // तत्र प्रथमतो जीवस्थानान्यधिकृत्य प्रतिपादयति तेरससु जीवसंखेवएसु नाणंतराय तिविगप्पो। एकम्मि तिदुविगप्पो, करणं पइ एत्थ अविगप्पो // 34 // सङ्किप्यन्ते-सङ्ग्रह्मन्ते जीवा एभिरिति सङ्केपाः-अपर्याप्तकैकेन्द्रियत्वादयोऽवान्तरजातिभेदाः, जीवानां सङ्केपा जीवसङ्केपाः जीवस्थानानीत्यर्थः / पर्याप्तसंज्ञिपञ्चेन्द्रियवर्जेषु शेषेषु त्रयोदशसु १०म० मुद्रि०°स्य / अशीतिः क्षीणकपायस्य च यावत् त्रयोदशकं न क्षीयते / अन्त्यानि चत्वारि क्षीणंत्रयोदशकस्य सयो // 2 सं० सं० 1 सं० 2 °क्ताः प्रकृ° / मुद्रि० छा० का उत्तरप्रकृ॥ 3 सं०१त०म० मी निर्दिश्यते // 4 छा० °था कर्तव्य //