________________ 196 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं - [गाथाः जीवस्थानेषु ज्ञानावरणा-ऽन्तराययोर्बन्ध-उदय-सत्तारूपास्त्रयो विकल्पाः प्राप्यन्ते, तद्यथा-पञ्चविधो बन्धः पञ्चविध उदयः पञ्चविधा सत्ता, ज्ञानावरणा-ऽन्तराययो(वबन्धोदयसत्ताकत्वात् / सूत्रे "तिविगप्पो" इति द्विगुसमाहारत्वेऽप्यार्षत्वात् पुंस्त्वनिर्देशः / “एक्कम्मि तिदुविगप्पो" 'एकस्मिन्' पर्याप्तसंज्ञिपञ्चेन्द्रियलक्षणे जीवस्थाने त्रयो वा विकल्पा भवन्ति, द्वौ वा विकल्पौ। तत्र त्रयो विकल्पा इमे—पञ्चविधो बन्धः पञ्चविध उदयः पञ्चविधा सत्ता। एते च सूक्ष्मसम्परायगुणस्थानकं यावत् प्राप्यन्ते। ततः परं बन्धव्यवच्छेदे उपशान्तमोहे क्षीणमोहे च द्वौ विकल्पो, तद्यथा-पञ्चविध उदयः पञ्चविधा सत्ता / अत्रान्यो भक्तो न सम्भवति, उदय-सत्तयोर्युगपद् व्यवच्छेदात् / “करणं पइ एत्थ अविगप्पो" त्ति इह केवलिनो मनोविज्ञानमधिकृत्य संज्ञिनो न भवन्ति, द्रव्यमनःसबन्धात् पुनस्तेऽपि संज्ञिनो व्यवह्रियन्ते / उक्तं च चूर्णी- मणकरणं केवलिणो वि अत्थि तेण सन्निणो वुचंति / मणोविण्णाणं पडुच ते सन्निणो न हवंति। ( ) इति / ततः करणं-द्रव्यमनोरूपं प्रतीत्य यः संज्ञी सयोगिकेवली अयोगिकेवली वा भवस्थस्तस्मिन् . 'अत्र' ज्ञानावरणेऽन्तराये च 'अविकल्पः' त्रयाणामपि बन्धादिरूपाणां विकल्पानामभावः, आमूलं तदुच्छेदे सति केवलित्वभावात् // 34 // सम्प्रति दर्शनावरणं जीवस्थानेषु चिन्तयति तेरे नव चउ पणगं, नव संतेगम्मि भंगमेकारा। पर्याप्तसंज्ञिपञ्चेन्द्रियवर्जेषु शेषेषु त्रयोदशसु जीवस्थानेषु नवविधो बन्धः चतुर्विधः पञ्चविधो वा उदय नवविधा सत्ता इत्येतौ द्वौ विकल्पौ / “एगम्मि भंगमेक्कार" ति 'एकस्मिन्' पर्याप्तसंज्ञिपञ्चेन्द्रियरूपे एकादश भङ्गाः, ते च यथा प्राक् सामान्येन संवेधचिन्तायामुक्तास्तथैवात्राप्यन्यूनातिरिक्ता वक्तव्याः // वेयणियाउयगोए, विभन्न वेदनीये आयुषि गोत्रे च यानि बन्धादिप्रकृतिस्थानानि तानि यथागमं जीवस्थानेषु 'विभजेत्' विकल्पयेत् / तत्रेयं वेदनीय-गोत्रयोर्विकल्पनिरूपणार्थमन्तर्भाष्यगाथा पजत्तगसनियरे, अट्ट चउक्कं च वेयणियभंगा। सत्तग तिगं च गोएं, पत्तेयं जीवठाणेसु // 1 // पर्याप्ते संज्ञिनि वेदनीयस्याष्टौ भङ्गाः, तद्यथा--असातस्य बन्धः असातस्योदयः सातासाते सती, अथवा असातस्य बन्धः सातस्योदयः सातासाते सती, एतौ द्वौ विकल्पौ मिथ्यादृष्टिगुणस्थानकाँद् आरभ्य प्रमत्तगुणस्थानकं यावत् प्राप्येते न परतः, परतोऽसातस्य बन्था 1 मनःकरणं केवलिनोऽपि अस्ति तेन संशिन उच्यन्ते / मनोविज्ञानं प्रतीत्य ते संझिनो न भवन्ति // 2 सं० १सं०२ मुद्रि० °ए वत्तव्वा जीवठाणेसु // 3 मुद्रि० कात् प्रमृति प्र॥ .