SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ 35] . चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 197 भावात् / तथा सातस्य बन्धः असातस्योदयः सातासाते सती, अथवा सातस्य बन्धः सातस्योदयः सातासाते सती, एतौ च द्वौ विकल्पो मिथ्यादृष्टिगुणस्थानकादारभ्य सयोगिकेवलिगुणस्थानकं यावत् प्राप्येते / ततः परतो बन्धाभावे असातस्योदयः सातासाते सती, अथवा सातस्योदयः सातासाते सती, एतौ द्वौ विकल्पावयोगिकेवलिनि द्विचरमसमयं यावत् प्राप्यते / चरमसमये तु असातस्योदयः असातस्य सत्ता यस्य द्विचरमसमये सातं क्षीणं, यस्य त्वसातं द्विचरमसमये क्षीणं तस्य सातस्योदयः सातस्य सत्तेति सर्वसङ्ख्ययाऽष्टौ भङ्गाः / इह सयोगिकेवली अयोगिकेवली च द्रव्यमनोऽभिसम्बन्धात् संज्ञी व्यवह्रियते, ततः संज्ञिनि पर्याप्ते वेदनीयस्याष्टौ भङ्गा उच्यमाना न विरुध्यन्ते / 'इतरेषु' पर्याप्तसंज्ञिव्यतिरिक्तेषु त्रयोदशसु जीवस्थानेषु प्रत्येकं प्रत्येकं चत्वारो भङ्गा भवन्ति, तद्यथा—असातस्य बन्धः असातस्योदयः सातासाते सती, अथवा असातस्य बन्धः सातस्योदयः सातासाते सती, अथवा सातस्य बन्धः असातस्योदयः सातासाते सती, अथवा सातस्य बन्धः सातस्योदयः सातासाते सती / "सत्तग तिनं च गोए" इति ‘गोत्रे' गोत्रस्य संज्ञिनि पर्याप्ते सप्त भङ्गाः, तद्यथा-नीचैर्गोत्रस्य बन्धः नीचैर्गोत्रस्योदयः नीचैर्गोत्रं सत् , एष विकल्पस्तेजः-वायुभवाद् उद्धृत्य तिर्यक्पचेन्द्रियसंज्ञित्वेनोत्पन्ने कियत्कालं प्राप्यते / नीचैर्गोत्रस्य बन्धः नीचैर्गोत्रस्योदय उच्च-नीचैर्गोत्रे सती, अथवा नीचैर्गोत्रस्य बन्धः उच्चैर्गोत्रस्योदय उच्च-नीचैर्गोत्रे सती, एतौ च विकल्पी पर्याप्ते संज्ञिनि मिथ्यादृष्टौ सासादने वा प्राप्येते, न सम्यग्मिथ्यादृष्ट्यादौ, तस्य नीचैर्गोत्रबन्धाभावात् / तथा उच्चैर्गोत्रस्य बन्धः नीचैर्गोत्रस्योदय उच्च-नीचैर्गोत्रे सती, एष विकल्पो मिथ्यादृष्टिगुणस्थानकादारभ्य देशविरतिगुणस्थानकं यावत् प्राप्यते न परतः, परतो नीचैर्गोत्रस्योदयाभावात् / तथा उच्चैर्गोत्रस्य बन्धः उच्चैर्गोत्रस्योदय उच्च-नीचैर्गोत्रे सती, एष विकल्पः सूक्ष्मसम्परायगुणस्थानकं यावदवसेयः / परतो बन्धाभावे उच्चैर्गोत्रस्योदय उच्च-नीचैर्गोत्रे सती, एष विकल्प उपशान्तमोहगुणस्थानकादारभ्य अयोगिकेलिनि द्विचरमसमयं यावदवाप्यते / उच्चैर्गोत्रस्योदय उच्चैर्गोत्रं सत् , एष विकल्पोऽयोगिकेवलिचरमसमये / 'इतरेषु पुनः' पर्याप्तसंज्ञिव्यतिरिक्तेषु त्रयोदशसु जीवस्थानेषु प्रत्येकं त्रयस्त्रयो भङ्गाः, तद्यथा-नीचैर्गोत्रस्य बन्धः नीचैर्गोत्र'स्योदयः नीचैर्गोत्रं सत् , अयं विकल्पस्तेजः-वायुषु उच्चैर्गोत्रोद्वलनानन्तरं सर्वकालं तेजः-वायुभवाद् उद्धृत्य समुत्पन्नेषु वा पृथिव्यादि-द्वीन्द्रियादिषु कियत्कालं प्राप्यते, नान्येषु / नीचैगोत्रस्य बन्धः नीचैर्गोत्रस्योदय उच्च-नीचैर्गोत्रे सती, तथा उच्चैर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदय उच्च-नीचैर्गोत्रे सती / शेषा विकल्पा न सम्भवन्ति, तिर्यक्षुच्चैर्गोत्रस्योदयाभावात् // सम्प्रत्यायुषो भना निरूप्यन्ते, तन्निरूपणार्थ चेयमन्तर्भाष्यगाथा पजत्तापजत्तग, समणे पजत्त अमण सेसेसु / अट्रावीसं दसगं, नवगं पणगं च आउस्स // 2 // - 1 सं० सं०२°त्येकं चत्वा // 2-3 सं०१ त०म० ती, तथा सा // 4 सं०.१ त०म०°त्पनेषु कि°॥५सं०१त०म०°त् / उच्चै / / 6 सं०२ मुद्रि० वलिद्वि // छा०मुद्रि०°। तथा नीचे //
SR No.004335
Book TitlePancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherJain Atmanand Sabha
Publication Year1997
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy