Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

Previous | Next

Page 255
________________ मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः न्द्रियाणां वैक्रियतिर्यङ्-मनुष्याणां शरीरपर्याप्त्या पर्याप्तानां च मिथ्यादृष्टीनाम् / अष्टाविंशति-एकोनत्रिंशत्-त्रिंशदुदयाः पर्याप्तद्वि-त्रि-चतुरिन्द्रिय-तिर्यक्पश्चेन्द्रिय-मनुष्याणां मिथ्यादृष्टीनाम् / एकत्रिंशदुदयो विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रियाणां मिथ्यादृष्टीनाम् / उक्तशेषास्त्रयोविंशतिबन्धका न भवन्ति / तेषां च त्रयोविंशतिबन्धकानां सामान्येन पञ्च सत्तास्थानानि, तद्यथाद्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च / तत्रैकविंशत्युदये वर्तमानानां सर्वेषामपि पञ्चापि सत्तास्थानानि, केवलं मनुष्याणामष्टसप्ततिवर्जानि चत्वारि सत्तास्थानानि वक्तव्यानि, यतोऽष्टसप्ततिर्मनुष्यगति-मनुष्यानुपूोरुद्वलितयोः प्राप्यते, न च मनुष्याणां तदुद्वलनसम्भवः / चतुर्विशत्युदयेऽपि पञ्चापि सत्तास्थानानि, केवलं वायुकायिकस्य वैक्रियं कुर्वतश्चतुर्विशत्युदये वर्तमानस्याशीति-अष्टसप्ततिवर्जानि त्रीणि सत्तास्थानानि, यतस्तस्य वैक्रियषद्कं मनुष्यद्विकं च नियमादस्ति, यतो वैक्रियं हि साक्षादनुभवन् वर्तते इति न तदुद्वलयति, तदभावाच न देवद्विक-नरकद्विके अपि, समकालं वैक्रियषट्कस्योद्वलनसम्भवात् तथास्वाभाव्यात्, वैक्रियषद्के चोदलिते सति पश्चाद् मनुष्यद्विकमुद्द्लयति न पूर्वम् , तथा चोक्तं चूर्णी वेडेबियछकं उबलेउं पच्छा मणुयदुगं उबलेइ / ( ) / इत्यशीत्यष्टसप्ततिसत्तास्थानासम्भवः / पञ्चविंशत्युदयेऽपि पञ्चापि सत्तास्थानानि / तत्राष्टसप्ततिरवैक्रियवायुकायिक-तैजस्कायिकान् अधिकृत्य प्राप्यते नान्यान् , यतस्तेजस्कायिकवायुकायिकव|ऽन्यः सर्वोऽपि पर्याप्तको नियमाद् मनुष्यगति-मनुष्यानुपूयौ बध्नाति, तथा चाह चूर्णिकृत् तेहुवाऊवज्जो पज्जत्तगो मणुयगई नियमा बंधेइ / ( ) इति / ततोऽन्यत्राष्टसप्ततिर्न प्राप्यते / षड्विंशत्युदयेऽपि पश्चापि सत्तास्थानानि, ,नवरमष्टसप्ततिरवैक्रियवायुकायिक-तैजस्कायिकानां द्वि-त्रि-चतुः-पञ्चेन्द्रियाणां वा तेजो-वायुभवादनन्तरागतानां पर्याप्ता-ऽपर्याप्तानाम् , ते हि यावद् मनुष्यगति-मनुष्यानुपूरों न बध्नन्ति तावत् तेषामष्टसप्ततिः प्राप्यते नान्येषाम् / सप्तविंशत्युदये अष्टसप्ततिवर्जानि चत्वारि सत्तास्थानानि, सप्तविंशत्युदयो हि तेजो-वायुवर्जपर्याप्तबादरैकेन्द्रिय-वैक्रियतिर्यङ्-मनुष्याणाम् , तेषां चावश्यं मनुष्यद्विकसम्भवादष्टसप्ततिर्न प्राप्यते // अथ कथं तेजो-वायूनां सप्तविंशत्युदयो न भवति येन तद्वर्जनं क्रियते ? उच्यते-सप्तविंशत्युदय एकेन्द्रियाणामातप-उद्योतान्यतरप्रक्षेपे सति प्राप्यते, न च तेजो-वायुष्वातप-उद्योतोदयः सम्भवति, ततस्तद्वर्जनम् / अष्टाविंशति-एकोनत्रिंशत्-त्रिंशद्-एकत्रिंशदुदयेषु नियमादष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि / अष्टाविंशत्याधुदया हि पर्याप्तविकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुष्याणाम् , एकत्रिंशदुदयश्च पर्याप्तविकलेन्द्रिय-पञ्चेन्द्रियतिरश्चाम् , ते चावश्यं मनुजगति-मनुजानुपूर्वीसत्कर्माण 1 सं० सं० 1 त० म० दस्ति, वै० // 2 वैक्रियषट्कं उद्वलय्य पश्चाद् मनुजद्विकं उद्वलयति / / 3 तेजो-वायुवर्जः पयाप्तको मनुजगति नियमाद् बध्नाति // 4 सं०१ त० म० प्तति वाप्य //

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334