Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

Previous | Next

Page 254
________________ 29-32] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / द्विनवतेः क्षीणे एकोनाशीतिः, एकोननवतेः क्षीणे षट्सप्ततिः, अष्टाशीतेः क्षीणे पञ्चसप्ततिः / मनुष्यगति-पञ्चेन्द्रियजाति-वर्स बादर-पर्याप्त-सुमगा-ऽऽदेय-यशःकीर्ति-तीर्थकराणीति नवकं सत्तास्थानम् , तचायोगिकेवलिनस्तीर्यकरस्य चरमसमये वर्तमानस्य प्राप्यते। तदेवातीर्थकरकेवलिनश्वरमसमये तीर्थकरनामरहितमष्टकमिति // 29 // . तदेवमुक्तानि सत्तास्थानानि सम्प्रति संवेधप्रतिपादनार्थमुपक्रमते अह य पारस वारस, बंधोदयसंतपयडिठाणाणि / ओहेणादेसेण य, जत्थ जहासंभवं विभजे // 30 // नानो बन्धोदयसत्ताप्रकृतिस्थानानि यथाक्रममष्ट-द्वादश-द्वादशसङ्ख्यानि / तानि 'ओघेन' सामान्येन 'आदेशेन च' विशेषेण च 'यथासम्भवं' यानि यत्र यथा सम्भवन्ति तानि तत्र तथा 'विभजेत्' विकल्पयेद् उत्तरग्रन्थानुसारेण / तत्रामुकं बन्धस्थानं बध्नत एतावन्ति उदयस्थानानि एतावन्ति च सत्तास्थानानीति सामान्यम् / मिथ्यादृष्ट्यादिषु गुणस्थानेषु गत्यादिषु च मार्गणास्थानेषु प्रत्येकमेतावन्ति बन्धस्थानानि एतावन्ति उदयस्थानानि एतावन्ति च सत्तास्थानानि एवं च तेषां परस्परं संवेध इत्यादेशः // 30 // तत्र प्रथमतः सामान्येन संवेधचिन्तां कुर्वन्नाह नव पंचोदय संता, तेवीसे पण्णवीस छव्वीसे। अह चउरहवीसे, नव संत्तुगतीस तीसम्मि // 31 // एगेगमेगतीसे, एगे एगुदय अह संतम्मि। उवरयबंधे दस दस, वेयगसंतम्मि ठाणाणि // 32 // त्रयोविंशतिबन्धे पञ्चविंशतिबन्धे षड्विंशतिबन्धे च प्रत्येकं नव नव उदयस्थानानि पञ्च पञ्च सत्तास्थानानि / तत्र त्रयोविंशतिबन्धोऽपर्याप्तकैकेन्द्रियप्रायोग्य एव, तद्वन्धकाश्च एकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-तिर्यक्पञ्चेन्द्रिया मनुष्याश्च / एतेषां च त्रयोविंशतिबन्धकानां यथायोगं सामान्येन नवोदयस्थानानि, तद्यथा-एकविंशतिः चतुर्विशतिः पञ्चविंशतिः षड्विशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशद् / तत्र त्रयोविंशतिबन्धकानामेकविंशत्युदयोऽपान्तरालगतौ वर्तमानानामेकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुष्याणामवसेयः, तेषामपर्याप्तैकेन्द्रियप्रायोग्यवन्धसम्भवात् / चतुर्विशत्युदयोऽपर्याप्त-पर्याप्तैकेन्द्रियाणाम् , अन्यत्र चतुर्विशत्युदयस्याप्राप्यमाणत्वात् / पञ्चविंशत्युदयः पर्याप्तैकेन्द्रियाणां वैक्रियतिर्यङ्-मनुष्याणां च मिथ्यादृष्ट्यादीनाम् / षड्विंशत्युदयः पर्याप्तैकेन्द्रियाणां पर्याप्तापर्याप्तद्वि-त्रि-चतुरिन्द्रिय-तिर्यक्पश्चेन्द्रिय-मनुष्याणां च मिथ्यादृष्टीनाम् / सप्तविंशत्युदयः पर्याप्तैके .1 छा० मुद्रि० °सनाम-बाद° // 2 सं 1 त० म० °नार्थमाह // 3 छा० मुद्रि० भए / _4 छा० त० सत्तिगु० // 5 सं० मुद्रि० दृष्टीनाम् // 6 मुद्रि० त० म० •न्द्रियाणां मनु // ७०म०°दृष्टयादीनाम् //

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334