________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथा: ष्टत्वं प्रदेशोत्कर्षस्तमुत्कृष्टप्रदेशमिति यावत् / इह संज्ञीति विशेष्यम् , शेषाणि तु विशेषणानि / अत्र च यो मनःपूर्विकां क्रियां विदधाति तस्य सर्वजीवेभ्य उत्कृष्टा चेष्टा भवति, तथैव चोत्कृ- . ष्टप्रदेशबन्धो भवतीति संज्ञिग्रहणम् / संश्यपि जघन्ययोग्युत्कृष्टयोगी च भवत्यतो जघन्ययोगिव्युदासार्थमुत्कृष्टयोगिग्रहणम् , तस्यैवोत्कृष्टप्रदेशबन्धात् / संश्यप्यपर्याप्तको नोत्कृष्टप्रदेशबन्धं विधातुमलमल्पवीर्यत्वात् तस्येति पर्याप्तग्रहणम् / एवंविधस्यापि बहुतरप्रकृतिबन्धकस्य भागबाहुल्यात् स्तोकप्रदेशबन्धो लभ्यते इत्यल्पतरप्रकृतिबन्धीत्युक्तम् / तस्मादेवंविधविशेषणविशिष्टो जन्तुरुत्कृष्टं प्रदेशबन्धं विधत्ते इति / तर्हि जघन्यं प्रदेशबन्धं कथं करोति ? इत्याह- "जहनयं तस्स वच्चासे" त्ति जघन्य एव जघन्यकः, “यावादिभ्यः" ( सिद्ध० 7-3-15) इति स्वार्थे कः प्रत्ययः, तं जघन्यकं प्रदेशबन्धमिति प्रक्रमः / 'तस्य' पूर्वप्रदर्शितस्य विशेष्यस्य विशेषणकलापस्य च 'व्यत्यासे' विपर्यये सति जन्तुः करोतीति योगः / अयमर्थः-बहुतरप्रकृतिबन्धको मन्दयोगोऽपर्याप्तकोऽसंज्ञी जीवो जघन्यं प्रदेशबन्धं विदधातीति // 89 // .... अभिहितः सामान्येनोत्कृष्ट-जघन्यप्रदेशबन्धस्वामी / सम्प्रति मूलप्रकृतीरुत्तरप्रकृतीश्च प्रतीत्य उत्कृष्टप्रदेशबन्धस्वामिनं निरूपयन्नाह मिच्छ अजयचउ आऊ, बितिगुण विणु मोहि सत्त मिच्छाई। छण्हं सतरस सुहुमो, अजया देसा बितिकसाए // 9 // __" आउ" ति आयुष उत्कृष्टप्रदेशबन्धस्वामिनः पञ्च, तद्यथा-"मिच्छ" ति मिथ्या दृष्टिः "अजयचउ" ति अयतेन-अविरतसम्यग्दृष्टिना उपलक्षिताश्चत्वारः-अविरतसम्यग्दृष्टि-देशविरत-प्रमत्ता-प्रमत्तलक्षणाः पञ्चैव जनाः " अप्पयरपयडिबंधी " ( गा० 89 ) इत्यादिमणितगाथासम्भवद्विशेषणविशिष्टा आयुष उत्कृष्टप्रदेशबन्धमुपकल्पयन्ति / सम्यग्मिथ्यादृष्टिरपूर्वकरणादयश्चायुर्न बध्नन्तीति नेह गृहीताः / सास्वादनस्तायुर्बध्नात्येव स किमिति न गृहीतः ? इति चेद् उच्यते-तत्रोत्कृष्टप्रदेशनिबन्धनोत्कृष्टयोगाभावात् / तथाहि-अनन्तानुबन्धिनामुत्कृष्टोऽनुत्कृष्टश्च प्रदेशबन्धो मिथ्यादृष्टौ साद्यध्रुव एव भणिष्यते, यदि तु सास्वादनेऽप्युत्कृष्टयोगो लभ्यते तदाऽसावप्यनन्तानुबन्धिनो बध्नात्येव, अतो यथाऽविरतादिष्वप्रत्याख्यानावरणादिप्रकृतीनामुत्कृष्टप्रदेशबन्धसद्भावतोऽनुत्कृष्टः प्रदेशबन्धः साद्यादिचतुर्विकल्पोऽप्यभिधास्यते तथैवानन्तानुबन्धिनां मिथ्यात्वभागलाभात् सास्वादने उत्कृष्टप्रदेशबन्धसद्भावतोऽनुत्कृष्टः प्रदेशबन्धः साद्यादिचतुर्विकल्पोऽपि स्यात् , न चैवं निर्दि(दें)क्ष्यते, तस्माद् ज्ञायतेऽल्पकालभावित्वेन ताविधप्रयत्नाभावादन्यतो वा कुतश्चित्कारणात् सास्वादनस्योत्कृष्टयोगो नास्ति / किञ्च अनन्त मेवोत्तरप्रकृतिस्वामित्वे मतिज्ञानावरणादिप्रकृतीनां प्रत्येकं सूक्ष्मसम्परायादिषूत्कृष्टं प्रदेशबन्धमभिधाय भणितशेषप्रकृतीनां मिथ्याइष्टिमेवोत्कृष्टप्रदेशबन्धस्वामिनं निर्देश्यति न सास्वादनम् , यद् वक्ष्यति-" सेसा उक्कोसपएसगा मिच्छो " ( गा० 92 ) / बृहच्छतकेऽप्युक्तं .. सेसपएसुक्कडं मिच्छो // ( गा० 96 ) इति / ____ अतोऽपि ज्ञायते 'नास्ति सास्वादनस्योत्कृष्टयोगसम्भवः' / अतो ये सास्वादनमप्यायुष उत्कृष्टप्रदेशबन्धस्वामिनमिच्छन्ति तन्मतमुपेक्षणीयमिति स्थितम् /