________________ &6-89] शतकनामा पञ्चमः कर्मग्रन्थः।। पशसमहशास्त्रे तु सूक्ष्म-बादरमेदतो द्विविधोऽपि क्षेत्रपुद्गलपरावर्त इत्थं व्याख्यातः, यथाचतुर्दशरज्वात्मकलोकस्य सर्वप्रदेशेषु प्रत्येकं यावता कालेनैकजीवो मृतो भवति / कोऽर्थः ? यावन्तो लोकाकाशप्रदेशास्ते प्रदेशे प्रदेशे क्रमोत्क्रमाभ्यां मरणं कुर्वाणेन यदा सर्वे व्याप्ता भवन्ति तदा बादरः क्षेत्रपुद्गलपरावर्तः / सूक्ष्मस्तु यावता कालेन प्रथमप्रदेशानुबद्धप्रदेशक्रमेण मुतो भवति, कोऽर्थः ? यत्राकाशप्रदेशे मृतस्तदनन्तरप्रदेशक्रमेण यदा सर्वेऽपि लोकाकाशप्रदेशा मरणेन व्याप्ता भवन्ति तदाऽसौ भवति, व्यवहितेषु च मरणं न गण्यते / यद्यपि जीवस्वैकप्रदेशेऽवस्थानमेव नास्ति तथापि जीवावस्थानप्रदेशानां प्राधान्येनैकः परिकल्प्यते, तस्माद्गणनाप्रवृत्तिः, अमुना च प्रकारेण प्रभूतकालख्यापनं कृतं भवतीति। सूक्ष्मस्तु कालपुद्गलपरावर्तस्तदा भवति यदोत्सर्पिण्या अवसर्पिण्या वा प्रथमसमये कश्चिद् मृतः, ततः पुनरपि समयोनविंशतिकोटीकोटीभिरतिक्रान्ताभिर्भूयोऽपि स एव जन्तुः कालान्तरेण तस्या एक द्वितीयसमये म्रियते, पुनरपि कदाचित् तथैव ताभिरतिक्रान्ताभिस्तस्या एव तृतीयसमये, एवं चतुर्थ-पञ्चम-षष्ठादिसमयक्रमेणानन्तानन्तैर्भवैर्यावत् सर्वेऽप्युत्सर्पिण्यवसर्पिण्योविंशतिसागरोपमकोटीकोटीमानयोः समया मरणेन व्याप्ता भवन्ति / ये तु प्रथमादिसमयक्रममुल्लङ्य व्यवहितसमयाः पूर्वस्पृष्टा का मरणेन व्याप्तास्ते तु न गृह्यन्त एवेति / सूक्ष्मो भावपुद्गलपरावर्त उच्यते-इह किलानुभागबन्धाध्यवसायस्थानानि बध्यमानकर्मपुहलेषु तादृशानुभागपलिच्छेदनितकानि असङ्ख्येयलोकाकाशप्रदेशप्रमाणानि मन्द-प्रवृद्धप्रवृद्धतरादिभेदतो वर्तन्ते, तत्र च सर्वस्तोकानुभागपलिच्छेदजनके कषायोदये वर्तमानः कश्चिद् जन्तुम॒तः, ततः कदाचित् पुनरपि तस्मादनन्तरव्यवस्थिते द्वितीयेऽनुभागबन्धाध्यवसायस्थाने विशेषाधिकानुभागपलिच्छेदजनके वर्तमानो मृतः, पुनरपि तस्मात् कदाचिद् विशेषाधिकानुभागपलिच्छेदजनके तृतीये, एवं क्रमेण क्रमेण विशेषाधिकानुभागपलिच्छेदजनकाध्यवसायस्थानेषु वर्तमानस्य मरणं तावद् वाच्यं यावत् सर्वोत्कृष्टानुभागबन्धाध्यवसायस्थाने म्रियमाणेन जन्तुनाऽनन्तानन्तैर्मरणैः सर्वाण्यपि स्पृष्टानि भवन्तीति, व्यवहितानि पूर्वस्पृष्टानि च न गण्यन्त इति // 88 // व्याख्यातं सप्रपञ्चं पुद्गलपरावर्तस्वरूपम् / सम्प्रति यो जन्तुर्यथाविधः सन् उस्कृष्टं यथाविघश्च जघन्यं प्रदेशबन्धं विधत्ते इत्येतत् स्वामित्वद्वारेण निरूपयन्नाह अप्पयरपयडिबंधी, उकडजोगी य सन्नि पजत्तो। कुणइ पएसुकोसं, जहन्नयं तस्स वच्चासे // 89 // अल्पतराश्च ताः प्रकृतयश्चारुपतरप्रकृतयस्तासां बन्धः स विद्यते यस्यासावरूपतरप्रकृतिबग्धी, यो यो मौलानामौत्तराणां चारुपप्रकृतिभेदानां बन्धकः स स उत्कृष्टप्रदेशबन्धं करोति, भागानामरूपत्वसद्भावात् / 'उत्कटयोगी' उत्कटवीर्यवान् , सर्वोत्कृष्टयोगव्यापारे वर्तमान इत्यर्थः / 'चः' समुच्चये, स च भिन्नक्रमे, पर्याप्तश्चेति योक्ष्यते। संज्ञा-मनोविकल्पनलब्धिः सा विद्यते यस्यासौ संज्ञी, 'पर्याप्तश्च' समाप्तपर्याप्तिकः, 'करोति' विदधाति प्रदेशानामुत्कर्षः-उत्कृ 1 सटीकेयं गाथा सार्द्धशतकप्रकरणस्य ९९तमी गाथा-तट्टीकासदृशी // 14