________________ 104 देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः त्सर्पिणीशब्देनावसर्पिण्यप्युपलक्ष्यते दिनग्रहणे रात्र्युपलक्षणवत् तयोः समयाः-परमनिकृष्टाः कालविशेषा उत्सार्पणी-अवसर्पिणीसमयाः, समयस्वरूपं च पट्टशाटिकापाटनदृष्टान्ताद् उत्पलपत्रशतभेदोदाहरणाचावसेयम्, ततो लोकप्रदेशाश्चोत्सर्पिण्यवसर्पिणीसमयाश्चेति द्वन्द्वः / तथाऽनुभागस्य-रसस्य बन्धः-बन्धनं तस्य निमित्तभूतानि स्थानानि-कषायोदयविशेषलक्षणान्यनुभागबन्धस्थानानि, अनुभागबन्धाध्यवसायस्थानानीत्यर्थः / चः समुच्चये ततश्चैते प्रत्येकं त्रयोऽपि पदार्था यदा मरणशब्दस्य प्रत्येकमभिसम्बन्धाद् यथातथामरणेन-क्रमोत्क्रमाभ्यां प्राणपरित्यागलक्षणेन स्पृष्टाः-व्याप्ता भवन्ति तदा "खित्ताइ थूल" त्ति क्षेत्रादयः' क्षेत्रपुद्गलपरावर्त-कालपुद्गलपरावर्तभावपुद्गलपरावर्ताः 'स्थूलाः' बादरा भवन्ति / यदा पुनस्त एव लोकाकाशप्रदेशा उत्सर्पिण्यवसर्पिणीसमया अनुभागबन्धाध्यवसायस्थानानि चेति प्रत्येकं त्रयोऽपि पदार्थाः क्रममरणेन-पूर्वस्पृष्टाकाशप्रदेशादिभ्योऽव्यवधानतः प्राणपरित्यागलक्षणेन स्पृष्टा भवन्ति तदा क्षेत्रपुद्गलपरावर्त-कालपुद्गलपरावर्त-भावपुद्गलपरावर्ताः “इयर" ति इतरे सूक्ष्मा भवन्तीति गाथाक्षरार्थः / . भावार्थः पुनरयम्—यदाऽनन्तभवभ्रमणशीलो जन्तुरनन्तरेषु व्यवहितेषु वा अपरापराकाशप्रदेशेषु नियमाणः सर्वानपि चतुर्दशरज्वात्मकलोकाकाशप्रदेशान् मरणेन स्पृशति तदा बादरः क्षेत्रपुद्गलपरावर्तो भवति / नवरं येष्वपरप्रदेशवृद्धिरहितेषु पूर्वावगाढेष्वेव नभःप्रदेशेषु मृतस्ते न गण्यन्ते अपूर्वास्तु दूरव्यवहिता अपि स्पृष्टा गण्यन्त एवेति 1 / कालतस्तु यदोत्सर्पिण्यवसर्पिणीसमयेषु सर्वेष्वपि क्रमेणोत्क्रमेण वा अनन्तानन्तैर्भवैरेको जन्तुर्मृतो भवति तदा बादरः कालपुद्गलपरावर्तो भवति / केनलं येषु समयेष्वेकदा मृतोऽन्यदाऽपि यदि तेष्वेव समयेषु प्रियते तदा ते न गण्यन्ते, यदा पुनरेक-द्वितीयादिसमयक्रममुल्लङ्घयापि अपूर्वेषु समयेषु प्रियते तदा ते व्यवहिता अपि समया गण्यन्त इति 2 / भावतः पुद्गलपरावर्त उच्यतेअनुभागबन्धाध्यवसायस्थानानि मैन्द-प्रवृद्ध-प्रवृद्धतरादिभेदतोऽसङ्ख्येयानि वर्तन्ते, एतेषां चासयेयत्वप्रमाणमुत्तरत्र वक्ष्यामः / ततो यदैकैकस्मिन्ननुभागबन्धाध्यवसायस्थाने क्रमेणोत्क्रमेण च प्रियमाणेन जन्तुनाऽसयेयलोकाकाशप्रदेशप्रमाणानि सर्वाण्यपि तानि स्पृष्टानि भवन्ति तदा बादरो भावपुद्गलपरावर्तो भवति, अत्रापि यदध्यवसायस्थानमेकदा मरणेन स्पृष्टं तदेवान्यदाऽपि यदि स्पृशति तदा तन्न गण्यते, अपूर्व तु दूरव्यवहितमपि स्पृष्टं गण्यत एवेति 3 / __भाविता बादराः क्षेत्रपुद्गलपरावर्त-कालपुद्गलपरावर्त-भावपुद्गलपरावर्ताः / साम्प्रतमेत एव सूक्ष्मा भाव्यन्ते-इह येष्वाकाशप्रदेशेष्ववगाढो जन्तुरेकदा मृतस्तेभ्योऽनन्तरव्यवस्थितेष्वेव नभःप्रदेशेष्वन्यदाऽपि यदि म्रियते, अपरस्यां वेलायां तेषामप्यनन्तरव्यवस्थितेष्वाकाशप्रदेशेषु, अन्यस्यां वेलायां तेषामप्यनन्तरव्यवस्थितेष्वाकाशप्रदेशेषु, अन्यस्यां तु वेलायां तेषामप्यनन्तरेष्वन्येषु, एवं तावद् नेयं यावदित्थमपरापरेषु नैरन्तर्यव्यवस्थितेषु नभःप्रदेशेषु क्रमेण प्रियमाणो जन्तुः सर्वानपि लोकाकाशप्रदेशान् स्पृशति, ये चापरप्रदेशवृद्धिरहिताः पूर्वावगाढा एव दूरव्यवस्थिता वाऽऽकाशप्रदेशा मरणेन स्पृष्टास्ते च न गण्यन्ते तदा सूक्ष्मः क्षेत्रपुद्गलपरावर्त इति 1 / 1 सं० 1-2 त० म० छा० °सर्पिण्युपल° // 2 सं० 1-2 म. छा० मन्द-प्रवृद्धतरादिभे //