________________ 4-88] शतकनामा पञ्चमः कर्मग्रन्थः / परावर्तस्वरूप प्ररूपयन्नाह उरलाइसत्तगेणं, एगजिओ मुयइ फुसिय सब्चअणू। जत्तियकालि स थूलो, दवे सुहुमो सगन्नयरा // 87 // . सूचकत्वात् सूत्रस्य 'औदारिकादिसप्तकत्वेन' औदारिकपरमाणून औदारिकशरीरतया आदिशब्दाद् वैक्रियपरमाणून वैक्रियशरीरतया तैजसपरमाणून तैजसशरीरतया कार्मणपरमाणून कामणशरीरतया भाषापरमाणून भाषात्वेन प्राणापानपरमाणून् प्राणापानतया मनोवर्गणापरमाणून मनस्त्वेन, न पुनराहारकशरीरमप्यत्र ग्राह्यम् कादाचित्कत्वात् तल्लाभस्येति, 'स्पृष्टा' परिणमय्यतथापरिणामं नीत्वा 'एकजीवः' विवक्षितैकसत्त्वः 'मुञ्चति' त्यजति, 'सर्वाणून' चतुर्दशरज्यात्मकलोकवर्तिसमस्तपरमाणून्, “जत्तियकालि" ति यावता कालेन, विभक्तिव्यत्ययश्च प्राकृतत्वात् , यदाह पाणिनि: स्वप्राकृतलक्षणे-"व्यत्ययोऽप्यासाम्" इति / स इत्थं पुद्गलस्पर्शमानेनोपमितः कालविशेषः 'स्थूलः' बादरः “दधि" त्ति द्रव्यपुद्गलपरावर्तो भवतीति प्रक्रमः / इह किल संसारकान्तारे पर्यटन्नेकजीवोऽनेकैर्भवग्रहणैः सकललोकवर्तिनः सर्वानपि पुद्गलान् यावता कालेन औदारिकशरीर वैक्रियशरीर-तैजसशरीर-भाषा-प्राणापान-मनः-कार्मणशरीरलक्षणपदार्थसकभावेन यथास्वं परिणमय्य मुश्चति स तावत्प्रमाणः कालो द्रव्यतो बादरः पुद्गलपरावर्तो * भवतीति तात्पर्यमिति। ___ अभिहितो बादरो द्रव्यपुद्गलपरावर्तः / इदानीं सूक्ष्मद्रव्यपुद्गलपरावर्तमाह- "सुहुमो समनयर" ति सूक्ष्मो द्रव्यपुद्गलपरावर्तो भवतीति सम्बन्धः / कथम् ? इत्याह-'सप्तकान्यबसत्[न्यतरस्मात् ]सप्तकान्यतरेण, विभक्तिव्यत्ययश्च प्राकृतत्वात् / इदमत्र हृदयम्-सप्तानामौदारिक-वैक्रिय-तैजस-भाषा-प्राणापान-मनः-कार्मणमध्यादन्यतरेण पुनरेकेन केनचिदौदारिकाविना पूर्वप्रदर्शितप्रकारेण सकललोकवर्तिपुद्गलानां स्पर्शने औदारिकाविशरीरतया गृहीत्वा मोचने सूक्ष्मद्रव्यपुद्गलपरावर्तो भवति / विवक्षितभेदाविशेषैः षड्भिर्मेदैः परिममिता अपि न गृखन्त इति / एके त्वाचार्या एवं द्रव्यपुद्गलपरावर्तस्वरूपं प्रतिपादयन्ति, तथाहि—यदैको जीवोऽनेकैर्भक्ग्रहणैरौदारिकशरीर-वैक्रियशरीर-तैजसशरीर-कार्मणशरीरचतुष्टयरूपतया यथास्वं सकललोकवर्तिनः सर्वान् पुद्गलान् परिणमय्य मुञ्चति तदा बादरो द्रव्यपुद्गलपराक्र्तो भवति / यदा पुनरौदारिकोदिचतुष्टयमध्यादेकेन केनचित् शरीरेण सर्वपुद्गलान परिणमय्य मुश्चति शेषशरीरपरिणमितास्तु पुद्भुला न गृह्यन्त एव तदा सूक्ष्मो द्रव्यपुद्गलपरावर्तो भवतीति // 87 // उक्तो द्वेधाऽपि द्रव्यपुद्गलपरावर्तः / सम्प्रति क्षेत्र-काल-भावपुद्गलपरावर्तन् बादर-सूक्ष्ममेवभिमान निरूपयन्नाह लोगपएसोसप्पिणिसमया अणुभागबंधठाणा य / अहतहकममरणं, पुट्ठा खित्ताइ थूलियरा // 88 // लोकस्य-चतुर्दशरज्ज्वात्मकक्षेत्रखण्डस्य प्रदेशाः-निर्विभागा भागा लोकप्रदेशाः, तथो१० 1-2 छा० म० 'क्रवर्ति // 2 सं० 1-2 त० छा० कादिशरीरादिवतु //