________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [ गोमाः / एताभ्यां च सूक्ष्मक्षेत्रपल्योपम-सागरोपमाभ्यां प्रायो दृष्टिवादे द्रव्यप्रमाणप्ररूपणायां प्रयोजनं सकृदेव नान्यत्र / यदागमः एएहिं सुहुमखेत्तपलिओवमसागरोवमेहिं कि पओयणं ? गोयमा ! एएहिं सुहुमखेत्तपलिओवमसागरोवमेहिं दिट्ठिवाए दवाइं मविजंति ( अनुयो० पत्र 193-1) इति / . ___ आह—यदि स्पृष्टा अस्पृष्टाश्चेह सूक्ष्मक्षेत्रपल्योपमे नभःप्रदेशा गृह्यन्ते तर्हि वालाप्रैः किं प्रयोजनम् ? यथोक्तपल्यान्तर्गतनभःप्रदेशापहारमात्रतः सामान्येनैव वक्तुमुचितं स्यात् , सत्यम् , किन्तु सूक्ष्मक्षेत्रपल्योपमेन दृष्टिवादे द्रव्याणि मीयन्ते, तानि च कानिचिद् यथोक्तवालाग्रस्पृष्टैरेव नमःप्रदेशैर्मीयन्ते कानिचिदस्पृष्टैरिति, अतो दृष्टिवादोक्तद्रव्यमानोपयोगित्वाद् वालाग्रप्ररूपणाऽत्र प्रयोजनवतीति // 85 // व्याख्यातं बादर-सूक्ष्मभेदतो द्विविधमपि क्षेत्रपल्योपमम् 3 / तद्वयाख्याने च समर्थितं सप्रपञ्चं पल्योपम-सागरोपमस्वरूपम् / इदानीं किञ्चिदूनं पुद्गलपरावर्ता सास्वादनादीनामुत्कृष्टमन्तरमुक्तम् अतस्तमेव सप्रपञ्च पुद्गलपरावर्त गाथात्रयेण निरूपयितुकामः प्रथमं तावत् तस्यैव भेदान् परिमाणं चाह देवे खित्ते काले, भावे चउह दुह पायरो सुहुमो। होइ अणंतुस्सप्पिणिपरिमाणो पुग्गलपरहो // 86 // 'द्रव्ये' द्रव्यविषयः 'क्षेत्रे' क्षेत्रविषयः 'काले' कालविषयः 'भावे' भावविषयः, इत्थं 'चतुर्धा' चतूरूपः पुद्गलपरावर्ती भवतीत्युत्तरेण सण्टङ्कः / पुनरेकैको द्रव्यादिकः 'द्विविधः' द्विप्रकारो भवति / द्वैविध्यमेवाह-"बायरो सुहुमो" त्ति बादर-सूक्ष्मभेदभिन्नः / अयमर्थः-द्रव्यपुद्गलपरावर्तो द्वेधा—बादरः सूक्ष्मश्च, क्षेत्रपुद्गलपरावर्तो वेधा-बादरः सूक्ष्मश्च, कालपुद्गलपरावर्ती वेधा-बादरः सूक्ष्मश्च, भावपुद्गलपरावर्तो द्वेधा—बादरः सूक्ष्मश्च / कियत्कालंप्रमाणः पुनरयमेकैकः ? इत्याह-"होइ अणंतुस्सप्पिणिपरिमाणो" ति 'भवति' जायते उत्सर्पन्ति-प्रतिसमयं कालप्रमाणं जन्तूनां वा शरीरा-ऽऽयुःप्रमाणादिकमपेक्ष्य वृद्धिमनुभवन्तीत्युत्सर्पिण्यः, ततोऽनन्ता उत्सर्पिण्यः, उपलक्षणत्वादवसर्पन्ति प्रतिसमयं कालप्रमाणं जन्तूनां वा शरीरा-ऽऽयुःप्रमाणादिकमपेक्ष्य हानिमनुभवन्तीत्यवसर्पिण्यः, ताश्च परिमाणं यस्य सोऽनन्तोत्सर्पिणी-अवसर्पिणीपरिमाणः / पूरण-गलनधर्माणः पुद्गलाः, तेषां पुद्गलानां-चतुर्दशरज्वात्मकलोकवर्तिसमस्तपरमाणूनां परावर्तःऔदारिकादिशरीरतया गृहीत्वा मोचनं यस्मिन् कालविशेषे स पुद्गलपरावर्तः / यद्यपि क्षेत्रादिविषयस्य पुद्गलपरावर्तरूपोऽन्वर्थो न घटां प्राश्चति तथाप्यन्यथाव्युत्पादितस्यापि शब्दस्यान्यथा गोशब्दवत् प्रवृत्तिदर्शनात् समयप्रसिद्धमर्थ विषयीकरोतीति न कश्चिद्दोष इति // 86 // द्रव्यपुद्गलपरावर्तो बादरः सूक्ष्मश्च भवतीत्युक्तम् / अतः क्रमप्राप्तं बादर-सूक्ष्मद्रव्यपुद्गल 1 एताभ्यां सूक्ष्मक्षेत्रपल्योपम-सागरोपमाभ्यां किं प्रयोजनम् ? गौतम ! एताभ्यां सूक्ष्मक्षेत्रपल्योपम-सागरोपमाभ्यां दृष्टिवादे द्रव्याणि मीयन्ते // 2 सटीकेयं गाथा सार्द्धशतकत्रकरणस्य १०६तमी गाथा-तट्टीकासमा // 3 त० म० °वर्तस्वरू° / सं० 1-2 °वर्तत्वरू° //