________________ 5] शतकनामा पञ्चमः कर्मग्रन्थः / आभ्यां च सूक्ष्मातापल्योपम-सागरोपमाभ्यां सुर-नरक-नर-तिरश्चां कर्मस्थितिः कायस्थितिः भवस्थितिश्च मीयते / उक्तं चानुयोगद्वारेषु___ एएहिं सुहुमअद्धापलिओवमसागरोवमेहिं किं पओयणं ? गोयमा ! एएहिं नेरइयतिरिक्खजोणियमणुस्सदेवाण य आउयाइं मविजंति ( पत्र 183-2 ) इति / अभिहितं बादर-सूक्ष्मभेदतो द्विविधमप्यद्धापल्योपमम् 2 / साम्प्रतं द्विविधमेव क्षेत्रपल्योपमं निरूप्यते तत्र पूर्वोक्तपल्याद् वालाग्रस्पृष्टनभःप्रदेशानां प्रतिसमयं एकैकापहारेण निर्लेपनाकालोऽसद्ध्येयोत्सर्पिण्यवसर्पिणीमानों बादरं क्षेत्रपल्योपमम्, तद्दशकोटीकोट्यो बादरं क्षेत्रसागरोपमम् / तथैवैकैकवालाग्रासङ्ख्येयतमखण्डैः स्पृष्टानामस्पृष्टानां च नभःप्रदेशानां प्रतिसमयमेकैकापहारेण निर्लेपनाकालो बादरासङ्ख्येयगुणकालमानः सूक्ष्म क्षेत्रपल्योपमम् , तद्दशकोटीकोट्यः सूक्ष्म क्षेत्रसागरोपमम् / उक्तं चानुयोगद्वारेषु से कि त सुहुमे खेत्तपलिओवमे ? से जहानामए पल्ले सिया एगजोयणं आयामविक्खंमेणं जोयणं उड्डे उच्चत्तेणं जाव भरिए वालग्गकोडीणं, तत्थ णं एक्कमिक्के वालग्गे असंखेज्जाइं खंडाइं कीरइ, ते णं वालग्गा दिट्ठीओगाहणाओ असंखेजभागमित्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेज्जगुणा, ते णं वालग्गा नो अग्गी डहिज्जा नो वाऊ हरिज्जा जाव नो पूइताए हवमागच्छिज्जा, जे णं तस्स आगासपएसा तेहिं वालग्गेहिं फुन्ना वा अणाफुन्ना वा तओ णं समए समए इक्कमिकमागासपएसं अवहाय जावइएणं कालेणं से पल्ले खीणे जाव निल्लेवे भवइ से तं सुहुमे खेत्तपलिओवमे / तत्थ चोयए पन्नवगं एवं वयासी-अस्थि णं तस्स पल्लस्स आगासपएसा जे णं तेहिं वालग्गेहिं अणाफुन्ना ? हंता अस्थि / जहा को दिटुंतो ? से जहानामए कुठे सिया कुहंडाणं भरिए तत्थ माउलिंगा पक्खित्ता ते वि माया, तत्थ बिल्ला पक्खित्ता ते वि माया, तत्थ आमलया पक्खित्ता ते वि माया, तत्थ णं बयरा पक्खित्ता ते वि माया, तत्थ णं चिणगा पक्खित्ता ते वि माया, तत्थ णं मुग्गा पक्खित्ता ते वि माया, तत्थ णं सरिसवा पक्खित्ता ते वि माया, तत्थ णं गंगावालुया पक्खित्ता सा वि माया, एवामेव अत्थि णं तस्स पल्लस्स आगासपएसा जे णं तेहिं वालग्गेहिं अणाफुन्ना // ( पत्र 192-1) इति / 1 एताभ्यां सूक्ष्माद्धापल्योपम-सागरोपमाभ्यां किं प्रयोजनम् ? गौतम ! एताभ्यां नैरयिकतिर्यग्योनिकमनुष्यदेवानां चायूंषि मीयन्ते / 2 अथ किं तत् सूक्ष्म क्षेत्रपल्योपमम् ? असौ यथानामकः पल्यः स्याद् एकयोजन पायामविष्कम्भाभ्याम् योजन ऊर्ध्वमुच्चैस्त्वेन यावद् भृतः वालाप्रकोटिभिः, तत्र खलु एकैकं वालाप्रमसंख्येयानि खम्यनि क्रियते, तानि च वालाग्राणि दृष्टयवगाहनातोऽसंख्येयभागमात्राणि सूक्ष्मस्य पनकजीवस्य शरीरावगाहनातोऽसंख्येयगुणानि, तानि च वालाप्राणि नाग्निदहेद् न वायुहरेद् यावद् न पूतित्वेन शीघ्रमागच्छेयुः, ये च तस्य आकाशप्रदेशाः तैर्वालाप्रैः स्पृष्टा वा अनास्पृष्टा वा ततः खलु समये समये एकैकमाकाशप्रदेशमपहाय यावता कालेन स पल्यः क्षीणः यावद् निलेपः भवति तदिदं सूक्ष्म क्षेत्रपल्योपमम् / तत्र चोदकः प्रज्ञापकमेवमवादीत्-सन्ति तस्य पल्यस्याकाशप्रदेशा ये तैर्वालाप्रैरनास्पृष्टाः ? हन्त सन्ति / 'यथा को दृष्टान्तः ? असौ यथानामकः कोष्ठः स्यात् कूष्माण्डैर्मृतः, तत्र मातुलिझानि क्षिप्तानि तान्यपि अवगाढानि, तत्र बिल्वानि क्षिप्तानि तान्यप्यवगाढानि, तत्रामलकानि प्रक्षिप्तानि तान्यप्यवगाढानि, तत्र बदराणि क्षिप्तानि तान्यपि अवगाढानि, तत्र घणकाः प्रक्षिप्तास्तेऽपि अवगाढाः, तत्र मुद्गाः प्रक्षिप्तास्तेऽपि अवगाढाः; तत्र सर्षपाः प्रक्षिप्तास्तेऽपि अवगाढाः, तत्र गङ्गावालुकाः प्रक्षिप्तास्ता अप्यवगाढाः, एवमेव सन्त्येव तस्य पत्यस्याकाशप्रदेशा ये तैर्वालाप्रैरनास्पृष्टा इति /